________________
मचन्दनकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः, अत्रायं सम्प्रदायः-अतिरिक्तानि बहूनि तैलामलकादीनि यदि गृहाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ ब्रजन्ति, ततः पूतरकाप्कायादिवधोऽधिकः स्यात्, न चैवं कल्पते, ततः को विधिः?, तत्र स्नाने तावत् गृह एव नातव्यं, तदभावे तु तैलामलकैर्गृहे एव शिरो घर्षयित्वा तानि सर्वाणि साटयित्वा तडागादीनां तटे निविष्टोऽजलिमिः नाति, पुष्पादिष्वपि येषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यं इति तृतीयः ३, तथा कन्दर्पः-कामस्त हेतुस्तत्प्रधानो वा वचनप्रयोगोऽपि कन्दर्पः, श्रावकेण हि तादृशं न वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवतीति चतुर्थः ४, तथाऽधिक्रियते दुर्गतावात्मा अनेनेत्यधिकरणं-उदूखलघरट्टादि संयुक्तं उदूखलेन मुशलं हलेन फालं शकटेन युगं धनुषा शरा इत्यादि एवमेकमधिकरणमधिकरणान्तरेण युक्तं-संयुतं युक्ताधिकरणं, इह च श्रावकेण संयुक्तमधिकरणं न धारणीयं, तथा च सति हिंसकः कश्चित्संयुक्तमधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेनैव परः प्रतिषेधुं शक्यते, इह च निषिद्धस्यानर्थदण्डस्य अपध्यानाचरितप्रमादाचरितहिंस्रप्रदानपापकर्मोपदेशभेदत्वेन चतुर्विधत्वात्तद्विरतिश्चतुर्धा, तत्र अपध्यानाचरितविरतौ कौत्कुच्यादिपञ्चकस्यानाभोगादिनाऽनुचिन्तनमतीचारः, आकुट्टया पुनः प्रवृत्तौ भन एव, प्रमादाचरितविरतौ तु कौत्कुच्यकन्दर्पभोगोपभोगातिरेकाणां त्रयाणामपि करणमतीचारः, युक्ताधिकरणं तु हिंस्रप्रदानविरतेः, मौखर्य तु पापकर्मोपदेशविरतेः इति ५ एतेऽतीचारा अनर्थदण्डव्रते ॥ २८२ ॥ उक्ता गुणवतातीचाराः, अथ शिक्षाव्रतातीचारावसरः, तत्रापि सामायिकस्य तावदतीचारानाह
काय १ मणो २ वयणाणं ३ दुप्पणिहाणं सईअकरणं च ४ । अणवहियकरणं चिय सामइए पंच अइयारा ॥२८३॥ आणयणं १ पेसवणं २ सद्दणुवाओ य ३ रूवअणुवाओ४।पहिपोग्गलपक्खेवो ५ दोसा देसावगासस्स ॥२८४॥ अप्पडिलेहिय अप्पमज्जियं च सेन्जाइह थंडिलाणि ४ तहा। संमं च अणणुपालण५मइयारा पोसहे पंच॥२८५॥ सच्चित्ते निक्खिवणं १ सचित्तपिहणं
च २ अन्नववएसो ३ । मच्छरइयं च ४ कालाईयं ५ दोसाऽतिहिविभाए ॥ २८६ ॥ 'काय'त्यादि, प्रणहितिः प्रणिधानं दुष्टं च तत्प्रणिधानं च दुष्पणिधानं-कायमनोवचनानां सावद्ये प्रवर्तनं, तत्र शरीरावयवानां पाणिपादादीनामनिभृततावस्थापनं कायदुष्प्रणिधानं क्रोधलोभद्रोहाभिमानेादिभिः कार्यव्यासङ्गः सम्भ्रमश्च मनोदुष्प्रणिधानं वर्णसंस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्पणिधानमिति त्रयोऽतीचाराः३, यदुक्तं-"अनिरिक्खियापमजिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावेऽवि न सो कडसामइओ पमायाओ ॥१॥ सामाइयं तु काउं घरचिंतं जो य चिंतए सड़ो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥ २॥ कडसामइओ पुचि बुद्धीए पेहिऊण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥ ३॥" [अनिरीक्ष्याप्रमृज्य स्थण्डिले स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् ॥ १॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयति श्राद्धः । आर्त्तवशात्ततॊपगतो निरर्थकं तस्य सामायिकं ॥ २॥ कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत सदा निरवचं वचनं अन्यथा सामायिकं न भवेत् ॥३॥] तथा स्मृतेः सामायिकविषयाया अकरणं, कोऽर्थः ?-सामायिक मया कर्तव्यं न कर्तव्यमिति वा सामायिकं मया कृतं न कृतमिति वा प्रबलप्रमादाद्यदा न स्मरति तदाऽतीचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, यदभ्यधायि-"न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विहलं तयं नेयं ॥१॥" [न स्मरति प्रमादयुक्तो यः सामायिकं कदा तु कर्त्तव्यं । कृतमकृतं वा तस्य कृतमपि निष्फलमेव तकत् ॥१॥] इति चतुर्थः ४, तथाऽनवस्थितस्य करणं प्रतिनियतवेलायां सामायिकस्याकरणं यथाकथञ्चिद्वा करणं करणानन्तरमेव पारणं च, यदुक्तं-"काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवट्ठियसामइयं अणायराओ न तं सुद्धं ॥१॥" [कृत्वा तत्क्षणमेव पारयेत् करोति वा यदृच्छया। अनवस्थितं सामायिकं अनादरात् तत् न शुद्धं ॥१॥] इति पञ्चमः ५, इह चाद्यत्रयस्यानाभोगादिभिरेवातीचारत्वं, अन्यथा तु भङ्ग एव, इतरद्वयस्य तु प्रमादबहुलतयेति, एते सामायिकव्रते पञ्चातीचाराः ॥ २८३ ॥ इदानी देशावकाशिकव्रतातीचारानाह-'आणयेत्यादि, दिग्व्रतविशेष एव देशावकाशिकव्रतं, इयांस्तु विशेषः-दिग्वतं यावज्जीवं संवत्सरं चातुर्मासी वा यावत् देशावकाशिकं तु दिवसप्रहरमुहूर्तादिपरिमाणं, तस्य च पश्चातीचाराः, तत्र 'आणयण'मित्यादि, आनयनं-विवक्षितक्षेत्राहिःस्थितस्य सचेतनादिद्रव्यस्य विवक्षिते क्षेत्रे प्रापणं प्रेष्येणेति द्रष्टव्यं, स्वयं गमने हि मम व्रतभङ्गः स्यादितिबुद्ध्या प्रेष्येण यदा आनाययति सचेतनादिद्रव्यं तदाऽतीचार इति प्रथमः १, तथा प्रेषणं-प्रेष्यस्य विवक्षितक्षेवादहिः प्रयोजनाय व्यापारणं, स्वयं गमने हि मम व्रतभङ्गो भवति ततः स मा भूदितिबुद्ध्या स्वनियमितदेशात्परतोऽन्यं व्यापारयति प्रयोजनकरणायेति, देशावकाशिकव्रतं हि मा भूगमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः परस्य प्रेष्यस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति द्वितीयः २, तथा शब्दस्यानुपातः शब्दानुपातः, स्वगृहवृत्तिप्राकारादिव्यवच्छिन्नभूप्रदेशकृताभिग्रहः समुत्पन्ने प्रयोजने बतभङ्गभयेन स्वयमगमनाद् वृत्तिप्राकारादिप्रत्यासन्नीभूय काशितादिशब्दं करोति आकारणीयानां कर्णेऽनुपातयति ते च तच्छन्दश्रवणात्तत्समीपमागच्छन्तीति ३, तथा रूप-स्वशरीरसम्बन्धि उत्पन्नप्रयोजनः शब्दमनुच्चारयन्नाहानीयानां दृष्टावनुपातयति तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातोऽयं ४, अयमत्र परमार्थः-विवक्षितक्षेत्राहिः स्थितं कश्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयशब्दश्रावणरूपदर्शनव्या
52