________________
गिलिए ॥१॥" [आधाकर्मणो निमन्त्रणे प्रतिश्रूयमाणेऽतिक्रमो भवति । पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ॥१॥] इतिगाथानुसारेण सर्वत्र ज्ञेयं, अत्र 'तइओ'त्ति अतीचारः 'इयरों'त्ति अनाचारः, अत्र च चैत्यसाधुवन्दनाद्यर्थ नियमितो/दिदिक्प्रमाणमतिक्रम्य सूक्ष्मेक्षिकया साधोरिव उपयुक्तस्य परतोऽपि गच्छतो न भङ्गः, तथा स्मृतेर्योजनशतादिरूपदिक्परिमाणविषयाया अतिव्याकुलत्वप्रमादित्वबुद्ध्यपाटवादिना विस्मरणं, तथाहि-केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च स्पष्टरूपतया न स्मरति-किं शतं परिमाणं कृतमुत पञ्चाशत् ?, तस्यैवं पञ्चाशतमतिक्रमतोऽतीचारः सापेक्षत्वात् शतमतिकामतश्च भङ्गो निरपेक्षत्वात् , ततः स्मरणीयमेव गृहीतं व्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति चतुर्थोऽतीचारः ४, अयं तु सर्वव्रतेषु द्रष्टव्यः, तथा क्षेत्रस्य-पूर्वादिदेशस्य दिव्रतविषयस्य हस्खस्य सतो वृद्धिः-वर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिरिति पञ्चमोऽतीचारः, तथाहि-केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं विदधे, स चोत्पन्नतथाविधप्रयोजन एकस्यां दिशि नवति योजनानि व्यवस्थाप्यान्यस्यां दशोत्तरं योजनशतं करोति द्वाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतीचार इति, यदि चानाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न गन्तव्यं, अन्यो वा न विसर्जनीयः, अथाज्ञानतया गतो भवेत्तदा यत्तेन लब्धं स्वयं वा विस्मृतितो गतेन लब्धं तत्परिहर्तव्यं ५ ॥ २८० ॥ अथ द्वितीयगुणव्रतातीचारानाह–'अपकमित्यादि, इह हि श्रावकेण भोजनतः किल प्रायो निरवद्याहारेणैव भाव्यं, अतस्तदपेक्षया यथासम्भवममी अतीचारा दृश्याः, तत्र अपकं-अम्यादिना यदसंस्कृतं शालिगोधूमौषध्यादि तदनाभोगातिक्रमादिना भुखानस्य प्रथमोऽतीचार:?, नन्वपकौषधयो यदि सचेतनास्तदा सचित्तमितितृतीयपदेनैवोक्तार्थत्वादस्योपादानमसङ्गतं, अथाचेतनास्तदा कोऽतीचारो?, निरवद्यत्वात्तद्भक्षणस्येति, सत्यं, किन्तु तृतीयचतुर्थावतीचारौ सचित्तकन्दफलादिविषयौ प्रथमद्वितीयौ तु शाल्याद्यौषधिविषयाविति विषयकृतो भेदः, अत एवावश्यकसूत्रे 'अपउलिओसहिभक्खणया' इत्याधुक्तं, अथवा कणिक्कादेरपकतया सम्भवत्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्ध्या भक्षणं व्रतसापेक्षत्वादतीचारः, तथा दुष्पकं-मन्दपकं तञ्चार्धस्विन्नपृथुकतण्डुलयवगोधूमस्थूलमण्डककङ्कटुकफलादि ऐहिकप्रत्यवायकारि यावता चांशेन सचेतनं तावता परलोकमप्युपहन्ति, पृथुकादेर्दुष्पकतया सम्भवत्सचेतनावयवत्वात् पकत्वेन चाचेतनमिति बुद्ध्या भुखानस्यातीचार इति द्वितीयः २, तथा सह चित्तेन-चेतनया वर्तते यत्तत्सचित्तं-आहारवस्तु कन्दमूलफलादि पृथ्वीकायादि वा, इह च निवृत्तिविषयीकृतप्रवृत्तौ भङ्गसद्भावेऽप्यतीचारभणनं व्रतसापेक्षस्यानाभोगातिक्रमादिना प्रवृत्तौ सत्यां द्रष्टव्यं, यद्वाऽर्धकुट्टितचिञ्चिणीपत्रादि अपरिणतोष्णोदकं वा उपभुखानस्यायमतीचारो द्रष्टव्य इति तृतीयः ३, तथा सचित्तेन प्रतिबद्धं-सम्बद्धं सचेतनवृक्षादिसम्बद्धं गुन्दादि पक्कफलादि वा सचित्तान्तर्बीजं खजूराम्रादि, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतीचारश्चतुर्थः, अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पकं खजूं. रादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धं भक्षयतोऽतीचारः ४, तथा तुच्छा:-असारा औषधयः-अनिष्पन्नकोमलमुद्गादिफलीरूपाः तासां भक्षणं पञ्चमोऽतीचार:५, ननु तुच्छौषधयोऽपक्का दुष्पकाः सम्यक्पक्का वा स्युः?, यद्याद्यौ पक्षौ तदा प्रथमद्वितीयातीचाराभ्यामेवास्योक्तत्वात्पौनरुक्क्यप्रसङ्गः, अथ सम्यक्पक्कास्तदा निरवद्यत्वादेव तद्भक्षणस्य काऽतीचारतेति ?, सत्यं, किन्तु यथाऽपक्कदुष्पकयोः सचित्तसचित्तप्रतिबद्धयोश्व सचित्तत्वे समानेऽप्योषध्यनौषधिकृतो विशेषः तथाऽत्रापि सचेतनत्वौषधित्वाभ्यां समानत्वेऽप्यतुच्छत्वतुच्छत्वकृतो विशेषोऽवगन्तव्यः, तत्र च कोमलमुद्रादिफलीविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एव (वा) अनाभोगाविक्रमादिना मुखानस्य तुच्छौषधिभक्षणमतीचारः, अथवाऽत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत्तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु सचित्तस्यैव वर्जनीयत्वाभ्युपगमात्, यत्पुनस्तृप्तिसम्पादनासमर्था अप्यौषधीलौल्यनाचेतनीकृत्य भुङ्के तत्तुच्छौषधिभक्षणमतीचारः, तत्र भावतो विरतेर्विराधितत्वाद् द्रव्यतस्तु पालितत्वादिति, एवं रजनीभोजनमांसादिनिवृत्तिव्रतेष्वनाभोगातिक्रमादिमिरतीचारा भावनीयाः, एते पञ्च दोषा-अतीचारा उपभोगपरिभोगवते इति, तत्त्वार्थे तु सचित्तः सचित्तसम्बद्धः सम्मिश्रोऽभिषवो दुष्पकाहारश्चेत्येवं पञ्चातीचाराः प्रतिपादिताः, तत्र सचित्तसचित्तसम्बद्धदुष्पक्काहारास्नयः पूर्ववत् , संमिश्रस्तु सचित्तेन मिश्रः-शबल आहारः, यथा आर्द्रकदाडिमबीजकरबन्दकादिमिश्रः पूरणादिस्तिलमिश्रो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनाऽतीचारः, यद्वा सम्भवत्सचित्तावयवस्यापककणिकादेः पिष्टत्वादिना अचेतनमितिबुद्ध्या आहारः सम्मिश्राहारः, व्रतसापेक्षत्वादतीचारः, अभिषवः पुनरनेकद्रव्यसन्धाननिष्पन्नः सुरासौवीरकादिर्मासप्रकारखण्डादिर्वा सुरामध्वाद्यमिस्पन्दिवृक्षद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाऽतीचार इति ॥ २८१ ॥ अथानर्थदण्डविरतिलक्षणस्य तृतीयगुणवतस्यातीचारानाह–'कुक्कुई'त्यादि, कुदिति कुत्सायां निपातः, निपातानामानन्त्यात् कुत्सितं कुश्चति भ्रनयनोष्ठनासाकरचरणवदनविकारैः सङ्कचतीति कुतकुचस्तस्य भावः कौत्कुच्यं-अनेकप्रकारं भाण्डानामिव विक्रियाकरणं, अथवा कुत्सितः कुचः कुत्कुचः-सङ्कोचादिक्रियावान् तस्य भावः कौत्कुच्यं, अत्र च येन परो हसति स्वस्य च लाघवं सम्पद्यते न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रमादातथाचरणे चातीचार इति प्रथमः १, तथा मुखमस्यास्तीति मुखर:-अनालोचितभाषी वाचाटस्तस्य भावः कर्म वा मौखर्य-धायप्रायमसभ्यासम्बद्धबहुप्रलापित्वं, अतीचारत्वं चास्य पापोपदेशसम्भवादिति द्वितीयः २, तथा भोगः-सकृद्रोग्य आहारमाल्यादिः उपभोगः-पुनःपुनर्भोग्य आच्छादनवनितादिः तयोरतिरेक:-आधिक्यं, इह च नानपानभोजनकुङ्क