________________
भणणाऽऽसायणा सेहे ॥१४४ ॥ अजो! किं न गिलाणं पडिजग्गसि पडिभणाइ किं न तुम। रायणिए य कहते कहं च एवं असुमणत्ते ॥ १४५ ॥ एवं नो सरसि तुमं एसो अत्थो न होइ एवंति । एवं कहमच्छिदिय सयमेव कहेउमारभइ ॥१४६ ॥ तह परिसं चिय भिंदइ तह किंची भणइ जह न सा मिलइ । ताए अणुट्टियाए गुरुभणि सवित्थरं भणइ ॥ १४७॥ सेज्जं संथारं वा गुरुणो संघट्टिऊण पाएहिं । खामेइ न जो सेहो एसा आसायणा तस्स ॥१४८॥ गुरुसेजसंथा
रगचिट्ठणनिसियणतुयदृणेऽहऽवरा । गुरुउच्चसमासणचिट्ठणाइकरणेण दो चरिमा ॥ १४९॥ . 'पुरओ' इत्यादिगाथात्रयं १२९-१३०-१३१ एतद्गाथाव्याख्यागाथाश्च 'पुरओ अग्गपएसे' इत्यादिकाः 'करणेण दो चरिमा' इत्यन्ता अष्टादश व्याख्यायन्ते, तत्र गुरोः पुरतः-अग्रतः कारणमन्तरेण गन्ता-मनं करोति शिष्यो विनयभङ्गादिहेतुत्वादाशातना मार्गदर्शनादिके तु कारणे न दोषः १, गुरोः पार्धाभ्यामपि गमने आशातना २, पृष्ठतोऽप्यासन्नगमने आशातना निःश्वासक्षुत्श्लेष्मपातादिदोषप्रसङ्गात् , ततश्च यावता भूभागेन गच्छत आशातना न भवति तावता गन्तव्यमिति ३, एवं पुरतः पार्श्वत: पृष्ठतश्च स्थाने-ऊर्द्धरूपे शिष्यस्याऽऽशातनात्रयं ३, पुरतः पार्श्वतः पृष्ठतश्च निषदने आशातनात्रयं ३, कारणे तु तथाविधेऽत्रापि न दोषः, एवं नव ९, अत्र च गन्ता आशातनेति तुल्याधिकरणत्वं न घटते तस्मालप्तमत्वर्थीयमिदं पदं विधेयं ततो गन्ता आशातनावान् भवतीत्यर्थः, एवमन्यत्रापि स्वबुद्ध्या पदाक्षरघटना विधेया सूचापरत्वात्सूत्रस्येति, 'आयमणे'त्ति आचार्येण सहोच्चारभूमि गतस्याऽऽचार्यात्प्रथममेवाचमनं कुर्वनाशातनावान्
सार्धहस्त अयप्रमाणेन प्र.भ. शिष्यो भवतीति १०, ।१३२-१३३ । 'आलोयण'त्ति उच्चारादिबहिर्देशादागतवति गुरौ शिष्यः पूर्वमेव गमनाऽऽगमनविषयामालोचनां करोति गुरुस्तु पश्चादिति शिष्य आशातनावान् भवतीति ११, 'अप्पडिसुणणे'त्ति रत्नाधिकस्य रात्रौ व्याहरत:-कः सुप्तः ? को जागीति?, तत्र जाप्रदपि अप्रतिश्रोता भवतीत्याशातनावान् शिष्यो भवतीति १२ १३४। 'पुव्वालवणे यत्ति गुरोरालपनीयस्य कस्यचिद्विनेयेन पूर्वमेवालपने आशातनावान् भवतीति १३ । १३५। 'आलोए'त्ति भिक्षामशनपानखादिमस्वादिमरूपामानीय प्रथममेव कस्यापि शिष्यस्य पुरत आलोचयति पश्चाद्दरोरिति शिष्यस्याशातना १४, 'तह उवदंस'त्ति तथा-तेनैव प्रकारेणाऽऽशातनेत्यर्थः अशनादिभिक्षामानीय प्रथम कस्यचित् शैक्षस्योपदर्शयति पश्चाद्गरोरिति शिष्यस्याशातना १५ १३६। 'निमंतण'त्ति अशनादिमिक्षामानीय गुरुमनापृच्छय पूर्वमेव शैक्षमुपनिमत्रयति पश्चात्सूरिमित्याशातनावान् शिष्यो भवतीति १६, 'खद्ध'त्ति अशनादि ४ भिक्षामानीय सूरिभिः समं प्रतिगृह्य सूरिमनापृच्छय यस्य यस्य प्रतिभाति तस्य तस्य खद्धं खद्धं-प्रचुरं प्रचुरं ददातीति शिष्ये आशातना, खद्धशब्देन सैद्धान्तिकेन प्रचुरमभिधीयते ।१३७॥ 'संगहरो'त्यादि' ननु संग्रहगाथायां 'खद्ध'त्ति पृथक्पदं नोपात्तं तत्कथमयमनुपात्तो दोषो भवद्भिर्व्याख्यायते ?, अत्रोच्यते, यद्यप्यत्राऽऽहत्य 'खद्ध' शब्दो द्वारगाथायां नोक्तः तथाप्यप्रेतनेऽष्टादशे 'खद्धाययण' लक्षणे दोपे 'खद्ध' शब्दो विद्यते स एवात्र विभज्य सप्तदशदोषरूपतया व्याख्यात इति न सङ्घहकारस्य कश्चिद्दोषः, विचित्ररचनानि सूत्राणि भवन्तीति, अत एवाऽऽह विवरणगाथायां सूत्रकार:-"संगहगाहाए जो न खद्धसद्दो निरूविओ वीसुं । तं खद्धाययणपए खद्धति विभज्ज जोएज्जा ॥१॥" 'वीसुति विष्वग पृथगित्यर्थः, शेषं व्याख्यातमेव १७ ।१३८। इदानीमष्टादशीमाशातनामाह-खद्धाइयण'त्ति 'खद्धाद्यदनं प्रचुरादिभक्षणमित्यर्थः, एतस्याश्च यदाशातनाविवरणं गाथामि
ाख्यातं तद्दशाश्रुतस्कन्धसूत्राऽपेक्षया द्रष्टव्यम् , तथा च तत्रैवं सूत्रम्-'खद्धाइयण'त्ति सेहे असणं वा ४ रायणिएण सद्धिं भुंजमाणे तत्थ सेहे खद्धं २ डायं २ ओसढं २ रसियं २ मणुन्नं २ मणामं २ निद्धं २ लुक्खं २ आहारित्ता भवइ आसायणा सेहस्स'त्ति एतत्सूत्रानुसारेणेदं द्वारं स्वयमेव विवृणोति-खद्धाययणे'त्यादि खद्धाद्यदने इत्यत्र पदे खद्धशब्देन बहु भण्यते 'अयणत्ति' अदनमशनमित्यर्थः, ततः खद्धं-बहु आदिर्यस्य तत् खद्धादि अदनं वडवड्डेहिं लंबणेहिं खादनमित्यर्थः, आदिशब्दात् डाकादिपरिग्रहः, अत एवाह-'आइसद्दा डायं होइ पुणो पत्तसागंत' वृन्ताकचिटिकाचणकादयः सुसंस्कृताः पत्रशाकान्ता डाकशब्देन भण्यन्ते, तं गृहीत्वा गृहीत्वा 'वण्णाइजुयं उसढ'मित्यादि शुभवर्णगन्धादियुक्तम्-उसढम्-उच्छ्रितमित्यर्थः 'रसियं पुण दाडिमम्बगाईयं रसितं पुनर्दाडिमाम्रफलादिकं केनापि प्रकारेणाचित्तीकृतमाकृष्याऽऽकृष्य भुते, 'मणइट तु मणुन्नं मनस इष्टं-प्रियं मनोज्ञं, तदपि तथैव 'मन्नइ मणसा मणाम तंति मन्यते मनसा मनाममिति निरुक्तिवशाद्भव्यमभव्यं वा यन्मन्यते तत् खादतीत्यर्थः । १३९-१४०। 'निद्धं नेहबगाढंति स्निग्धं स्नेहेन-घृतादिना अवगाढं-मिश्रितं तदपि तथैव भुते । 'रुक्खं पुण नेहवज्जियं जाण'त्ति रूझं पुनः स्नेहवर्जितं जानीहि, तदपि तथैव भुङ्क्ते इत्याशातना गुरुं प्रति शिष्यस्येति, अन्यत्र पुनरियमेवं व्याख्याता-शिष्येण भिक्षामानीयाऽऽचार्याय यत्किश्चिद्दत्त्वा स्वयं स्निग्धमधुरमनोज्ञानशाकादीनां वर्णगन्धरसस्पर्शवतां च द्रव्याणामुपभोग इति १८ । इदानीमेकोनविंशतितमीमाह-एवं अप्पडिसुणणे'त्ति सूरेः शब्दं कुर्वतोऽप्रतिश्रवणे आशातना, नन्वियं 'अप्पडिसुणणेत्ति द्वारे पूर्वव्याख्यातैव किमर्थ पुनभैण्यते ? इत्यत्राह-नवरमिणं दिवसविसय'ति इदमप्रतिश्रवणं दिवसे सामान्येनोक्तं, पाश्चात्यं तु विलसदन्धकारायां रात्रौ न कोऽपि जाप्रतं सुप्तं वा मां ज्ञास्यतीत्यप्रतिश्रवणमिति द्वयोरनयोर्भेदः १९।१४१ । विंशतितमीमाह-'खति बहु भणंति' इत्यादि, खरम्-अत्यर्थ कर्कशेन-परुषेण बृहता च स्वरेण खद्धं-बहु प्रचुरमित्यर्थः रत्नाधिकं भाषमाणे शिष्ये आशातना २०, 'तत्थ गए होइमा चन'त्ति शिष्यो रसाधिकेन
22