________________
यस्यासयेयगुणया श्रेण्या आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तत्रासौ प्रविष्टोऽयोगिकेवली भवति, अयं च भवस्थः, ततः शैलेशीकरणचरमसमयानन्तरं कोशबन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादेरण्डफलमिव भगवानपि कर्मसम्बन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादूर्द्ध गच्छति, स चोर्द्ध गच्छन् ऋजुश्रेण्यां यावत्वाकाशप्रदेशेषु इहावगाढस्तावत एव प्रदेशानूर्द्धमप्यवगाहमानो विवक्षितसमयाच्चान्यत्समयान्तरमस्पृशन् लोकान्ते गच्छति, न परतोऽपि, गत्युपष्टम्भकधर्मास्तिकायाभावात् ,
गतः सन् शाश्वतं कालमवतिष्ठते १४।२२४ ॥२॥ इदानीं 'मग्गणचउदसगोत्ति पञ्चविंशत्युत्तरद्विशततमं द्वारमाहगइ १ इंदिए य २ काये ३ जोए ४ वेए ५ कसाय ६ नाणेसुं ७ । संजम ८ दंसण ९ लेसा १०
भव ११ सम्मे १२ सन्नि १३ आहारे १४ ॥३॥ गतिः इन्द्रियाणि कायाः योगाः वेदाः कषायाः ज्ञानानि संयमः दर्शनानि लेश्याः भव्याः सम्यक्त्वं संज्ञी आहारक इति मूलभेदापेक्षया चतुर्दश मार्गणास्थानानि, मार्गणं-जीवादीनां पदार्थानामन्वेषणं मार्गणा तस्याः स्थानानि-आश्रया मार्गणास्थानानि, उत्तरभेदापेक्षया तु द्वाषष्टिः, तथाहि-सुरनरतिर्यनारकगतिभेदादु गतिश्चतुर्धा, स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियभेदात् पञ्च इंद्रियाणि, पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् कायः षोढा, मनोवचनकायाख्या योगात्रयः, स्त्रीपुंनपुंसकस्वरूपा वेदात्रयः, क्रोधमानमायालोभलक्षणाः कषायाश्चत्वारः, मतिश्रुतावधिमनःपर्यायकेवलभेदात् पञ्च ज्ञानानि, ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते, तच्च त्रिधा-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात् , एवमष्टौ, सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातभेदात् संयमः पश्चधा, वत्प्रतिपक्षत्वाच देशसंयमोऽसंयमश्च गृह्यते, एवं सप्त, चक्षुरचक्षुरवधिकेवलभेदाचत्वारि दर्शनानि, कृष्णा नीला कापोती तैजसी पद्मा शुक्ला चेति षट् लेश्याः, भव्यस्तत्प्रतिपक्षत्वेन चाभव्य इति द्वयं, क्षायोपशमिकक्षायिकौपशमिकभेदात् सम्यक्त्वं विधा, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतानि मिश्रसासादनमिथ्यात्वान्यपि गृह्यन्ते एवं षट् , संझी तत्प्रतिपक्षश्वासंझीति द्वयं, आहारकस्तप्रतिपक्षोऽनाहारक इति द्वयं, सर्वमीलने च द्वाषष्टिरिति २२५॥३॥ इदानीं 'उवओग बारस'त्ति षड्रिंशत्युत्तरद्विशततमं द्वारमाह
मइ १ सुय २ ओही ३ मण ४ केवलाणि ५ मह ६ सुयअन्नाण ७ विन्भंगा ८। अचक्खु ९ च
क्खु १० अवही ११ केवलचउदंसणु १२ वउगा ॥४॥ उपयुज्यते-वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगा:-बोधरूपा जीवस्य स्वतत्त्वभूता व्यापाराः, ते च द्विधा-साकारा अनाकाराश्च, तत्र आकार:-प्रतिवस्तु प्रतिनियतो प्रहणपरिणामरूपो विशेष: 'आगारोउ विसेसो' इति वचनात् सह आकारेण वर्तन्ते इति साकाराः, सामान्यविशेषात्मके वस्तुनि विशेषांशमाहिण इत्यर्थः, तद्विपरीतास्त्वनाकाराः, सामान्यांशप्राहिण इत्यर्थः, तत्र मतिनुतावधिमनःपर्यायकेवलाख्यानि पञ्च ज्ञानानि, मत्यज्ञानभुताज्ञानविभङ्गरूपाणि त्रीणि चाज्ञानानि इत्यष्टौ साकाराः, अचक्षुश्चक्षुरवधिकेवलाख्यानि चत्वारि दर्शनान्यनाकाराः, तदेवं मिलिता द्वादश उपयोगाः, तत्र ज्ञानानि दर्शनानि च प्रागेवोक्तानि, तथा मतिश्रुतावधिज्ञानान्येव नयः कुत्सार्थत्वान्मिथ्यात्वकलुषिततया यदा कुत्सितानि भवन्ति तदा यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गव्यपदेशभाजि भवन्ति, 'विभंग'त्ति विपरीतो भङ्गः-परिच्छित्तिप्रकारो यस्मिन् तद्विभङ्गमिति २२६ ॥१॥ इदानीं 'योगा पन्नरस'ति सप्तविं.. शत्युतरं द्विशततमं द्वारमाह
सचं १ मोसं २ मीसं ३ असचमोसं ४ मणों तह वई य ४ । उरल १ विउवा २ हारा ३ मीस ३
कम्मयग १ मिय जोगा॥५॥. यद्यपि मनोवाकायावष्टम्भसमुत्थो जीवस्य परिस्पन्द एव योग उच्यते तथाऽपीह योगशब्देन कारणे कार्योपचारात्तत्सहकारिभूतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यं, तत्र मनश्चतुर्धा, तद्यथा-सत्यं मृषा मिश्रमसत्यामृषा च, तत्र सन्तोमुनयः पदार्था वा जीवादयस्तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यं, यथा-अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुविकल्पनचिन्तनपरं, सत्यंविपरीतमसत्य, यथा-नास्ति जीव एकान्तसद्पो वेत्यादि अयथावस्थितवस्तुप्रतिभासनपरं, सत्यं च मृषा चेति मिश्र, यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमिति विकपनपरं, अत्र हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यता अन्येषामपि धवादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात् , तथा यन्न सत्यं नापि मृषा नापि सत्यमृषा तदसत्यामूषा, इह विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसद्रूप इति तत्किल सत्यं परिभाषितं आराधकत्वात् , यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्ण विकल्प्यते यथा नास्ति जीव एकान्तनित्यो वेति तदसत्यं विराधकत्वात् , यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरं यथा हे देवदत्त! घटमानय गां देहि मह्यमित्यादिचिन्तनं तदसत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति, इदमपि व्यवहारनयमतेन द्रष्टव्यं, निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यथा तु सत्ये इति । यथा मनः सत्यादिभेदाच्चतुर्धा तथा वागपि सत्यादिभेदाच्चतुर्धा । तथौदारिकवैक्रियाहारकाणि शरीराणि,
254