________________
गुणस्थानस्य प्रथमसमयं प्रतिपन्नाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तानू सर्वानपेक्ष्य जघन्यादीन्युत्कृष्टान्तान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लभ्यन्ते, कचित्कदाचित्केषाश्चित्प्रथमसमयवर्तिनां परस्परमध्यवसायस्थाने नानात्वस्यापि भावात् , तस्य च नानात्वस्यैतावत एव केवलज्ञानेनोपलब्धत्वात् , अत एव चेदमपि न वाच्यं कालत्रयवर्तिनामेतद्गुणस्थानकप्रथमसमयप्रतिपत्तॄणामानन्यात्परस्परमध्यवसायस्थानानां नानात्वाच्चानन्तान्यध्यवसायस्थानानि प्राप्नुवन्ति, बहूनां प्राय एकाध्यवसायस्थानवर्तित्वात् , ततो द्विती. यसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लभ्यन्ते तृतीयसमये तदन्यान्यधिकतराणि चतुर्थसमये तदन्यान्यधिकतराणीत्येवं यावञ्चरमसमयः, एतानि च स्थाप्यमानानि विषमचतुरस्रं क्षेत्रमास्तृणन्ति, स्थापना : ननु द्वितीयादिसमयेष्वध्यवसायस्थानानां वृद्धौ कि कारणं?, उच्यते, स्वभावविशेषः, एतद्गुणस्थानकप्रतिपत्तारो हि प्रतिसमयं विशुद्धिप्रकर्षमासादयन्तः खलु स्वभावत एव बहवो विभिन्नेषु विभिन्नेष्वध्यवसायस्थानेषु वर्तन्त इति, अत्र च प्रथमसमयजघन्याध्यवसायस्थानात् प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धं प्रथमसमयोत्कृष्टाचाध्यवसायस्थानाद् द्वितीयसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं तस्मात्तदुत्कृष्टमनन्तगुणविशुद्धं इत्येवं यावद् द्विचरमसमयोत्कृष्टाध्यवसायस्थानाञ्चरमसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धमिति, एकसमयगतानि चामून्यध्यवसायस्थानानि परस्परं षट्स्थाननिपतितानि, युगपदेतद्गुणस्थानकप्रविष्टानां च परस्परमध्यवसायस्थानस्य व्यावृत्तिलक्षणा निवृत्तिरप्यस्ति, यथोक्तमनन्तरमितिकृत्वा निवृत्तिगुणस्थानकमप्येतदुच्यते ८। तथा युगपद्गुणस्थानकं प्रतिपनानां बहूनामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य व्यावृत्तिः-निवृत्तिः सा नास्ति अस्येत्यनिवृत्तिः, समकालमेतद्गुणस्थानकमारुढस्यापरस्य यस्मिन् समये यद्ध्यवसायस्थानमन्योऽपि विवक्षितः पुरुषस्तस्मिन् समये तदेवाध्यवसायस्थानं समनुवर्तते इत्यर्थः, संपरैति-पर्यटति संसारमनेनेति संपरायः-कषायोदयः बादरः-सुक्ष्म किट्टीकृतसंपरायापेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः अनिवृत्तिश्चासौ बादरसंपरायश्च २ तस्य गुणस्थानमनिवृत्तिबादरसंपरायगुणस्थानं, तस्यां चानिवृत्तिबादरगुणस्थानकाद्धायामान्तौंहूर्तिक्यां प्रथमसमयादारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोत्तरमध्यवसायस्थानं भवति, यावन्तश्चान्तर्मुहूर्ते समयास्तावन्येवाध्यवसायस्थानानि तत्प्रविष्टानां भवन्ति नाधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात् , स चानिवृत्तिबादरो द्वेधा-क्षपक उपशमकश्च, क्षपयति उपशमयति वा कषायाष्टकादिकमितिकृत्वा ९। तथा सूक्ष्मः-किट्टीकृतः संपरायो-लोभकषायोदयरूपो यस्य स सूक्ष्मसंपरायः, स द्विधा-क्षपक उपशमकश्च, क्षपयति उपशमयति वा अनिवृत्तिबादरेण किट्टीकृतं लोभमेकमितिकृत्वा, तस्य गुणस्थानं सूक्ष्मसंपरायगुणस्थानं १० । तथा छादयति ज्ञानादिकं गुणमात्मन इति छद्म-ज्ञानावरणीयादिघातिकर्मोदयः छद्मनि तिष्ठतीति छद्मस्थः, स च सरागोऽपि भवतीति तद्व्यवच्छेदार्थ वीतरागग्रहणं, वीतो-विगतो रागो-मायालोभकषायोदयरूपः उपलक्षणत्वादस्य द्वेषोऽपि-क्रोधमानोदयरूपो यस्य स वीतरागः स चासौ छमस्थश्च वीतरागच्छन्नस्थः, सच क्षीणकषायोऽपि भवति तस्यापि यथोक्तरागापगमात् ततस्तद्व्यवच्छेदार्थमुपशान्तकषायग्रहणं, उपशान्ताः-उपशमिता विद्यमाना एव सन्तः संक्रमणोद्वर्तनापवर्तनादिकरणैर्विपाकोदयप्रदेशोदयायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः स चासौ वीतरागच्छद्मस्थश्च २ तस्य गुणस्थानमुपशान्तकषायवीतरागच्छग्रस्थगुणस्थानं ११ । तथा क्षीणा-अभावमापन्नाः कषाया यस्य स क्षीणकषायः, तत्रान्येष्वपि गुणस्थानकेषु क्षपकश्रेणिद्वारोक्तयुक्त्या कापि कियतामपि कषायाणां क्षीणत्वसंभवात क्षीणकषायव्यपदेशः संभवति ततस्तद्व्यवच्छेदार्थ वीतरागग्रहणं, क्षीणकषायवीतरागत्वं च केवलिनामप्यस्तीति तद्व्यवच्छेदार्थ छद्मस्थग्रहणं, यद्वा छद्मस्थः सरागोऽपि भवतीति तदपनोदार्थ वीतरागग्रहणं, वीतरागश्वासी छमस्थश्च वीतरागच्छद्मस्थः, स चोपशान्तकषायोऽप्यस्तीति तद्व्यवच्छेदार्थ क्षीणकषायग्रहणं, क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च २ तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थान १२। तथा योजनं योगो-व्यापारः, उक्तं च-"कायवाङ्मनःकर्म योगः" (तत्त्व०६-१) सह योगेन वर्तन्ते येते सयोगा-मनोवाकायाः ते यस्य विद्यन्ते स सयोगी, तत्र भगवतः काययोगश्चक्रमणनिमेषोन्मेषादिः वाग्यागो देशनादिः मनोयोगो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य मनसैव देशना, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनावधिज्ञानेन च पश्यन्ति, दृष्ट्वा च ते हि विवक्षितवस्त्वालोचनाऽऽकारार्थानुपपत्त्या अलोकस्वरूपादिकमपि बाह्यमर्थ पृष्टमवगच्छंति, केवलं ज्ञानं दर्शनं च विद्यते यस्य स केवली सयोगी चासौ केवली च सयोगिकेवली तस्य गुणस्थानं सयोगिकेवलिगुणस्थानं १३ । तथा योगः-पूर्वोक्तो विद्यते यस्यासौ योगी न योगी अयोगी स चासौ केवली च अयोगिकेवली तस्य गुणस्थानमयोगिकेवलिगुणस्थानं, अयोगित्वं पुनरेवंइह त्रिविधोऽपि योगः प्रत्येक द्विधा-सुक्ष्मो बादरश्च, तत्र केवलोत्पत्तेरनन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनां पूर्वकोटी विहृत्यान्तर्मुहूर्तावशेषायुष्कः सयोगिकेवली शैलेशी प्रतिपित्सुः पूर्व बादरकाययोगेन बादरवाग्योगं निरुणद्धि ततो बादरमनोयोगं ततः सूक्ष्मकाययोगेन बादरकाययोग, सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात् , ततस्तेनैव सूक्ष्मवाग्योगं ततः सूक्ष्ममनोयोगं ततः सूक्ष्मक्रियमनिवृत्ति शुक्लध्यानं ध्यायन सूक्ष्मकाययोगं स्वात्मनैव निरुणद्धि, अन्यस्यावष्टम्भनीययोगान्तरस्य तदाऽसत्त्वात् , तन्निरोधानन्तरं समुच्छिनक्रियमप्रतिपाति शुक्लध्यानं ध्यायन इस्वपञ्चाक्षरोच्चारणमात्रकालं शैलेशीकरणं प्रविष्टो भवति, शीलस्य-योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रलक्षणस्य य ईशः स शीलेशस्तस्येयं शैलेशी, त्रिभागोनस्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात् संकोचितस्वप्रदेशस्य शैलेशस्यात्मनोऽत्यन्तस्थिराव स्थितिरित्यर्थः तस्यां करणं-पूर्वरचितशैलेशीसमयसमानगुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्याघातिकर्मत्रित
253