________________
धनुःशतप्रभृति सप्तहस्तान्तं तनुमानमायुरपि पूर्वकोटिप्रमाणं परिहीनश्च कल्पवृक्षादिपरिणामः, दुष्षमायामनियतं देहमानमायुरप्यनियतं वर्षशतादर्वाक् पर्यन्ते विंशतिवर्षाणि परमायुः शरीरोच्छ्रयो हस्तद्वयं औषधिवीर्यपरिहाणिश्वानन्तगुणा, अतिदुष्षमायामप्यनियतं शरीरोच्छ्रयादि सर्व पर्यन्ते तु हस्तप्रमाणं वपुः षोडश वर्षाणि परमायुर्निरवशेषौषधिपरिहानिश्चेति, एवमन्यदप्येतत्स्वरूपं समयात् समवसेयमिति १६० ॥ ३५ ॥ ३६ ॥ ३७॥ इदानीं 'उस्सप्पिणि'त्ति एकषष्ट्यधिकशततमं द्वारमाह
अवसप्पिणीव भागा हवंति उस्सप्पिणीइवि छ एए । पडिलोमा परिवाडी नवरि विभाएसु
नायचा ।। ३८॥ 'अवसप्पिणी'त्यादि, उत्सर्पति-वर्धतेऽरकापेक्षया उत्सर्पयति वा-भावानायुष्कादीन वर्धयतीत्युत्सर्पिणी, अस्यामप्येत एवावसर्पिण्या: सम्बन्धिनः सुषमसुपमादयो षट् कालविभागा भवन्ति, नवरं-केवलं विभागेषु-अरकेषु प्रतिलोमा-विपरीता परिपाटी-आनुपूर्वी ज्ञातव्या, अयमर्थ:-अवसर्पिण्यां सुषमसुषमाद्या दुष्षमदुष्षमान्ताः षडरका उक्ताः उत्सर्पिण्यां तु दुष्षमदुष्षमाद्याः सुषमसुषमापयन्ताः षडरका भवन्तीति, तदेवं विंशतिसूक्ष्माद्धासागरोपमकोटीकोटीप्रमाणद्वादशारकमेतदवसर्पिण्युत्सर्पिण्योः कालचक्रं पञ्चसु भरतेध्वरवतेषु च पश्चस्वनाद्यन्तं परिवर्तते, यथाऽहोरात्रे वासरो रजनी वा न शक्यते निरूपयितुमादित्वेनान्तत्वेन वा अनादित्वादहोरात्रचक्रप्रवृत्तेस्तथेदमपीति १६१ ॥ ३८॥ इदानीं 'दबे खेत्ते काले। भावे पोग्गलपरियट्टो'त्ति द्विषष्ट्यधिकशततमं द्वारमाह
ओसप्पिणी अणंता पोग्गलपरियहओ मुणेयवो । तेऽणंता तीयद्धा अणागयद्धा अणंतगुणा ॥ ३९ ॥ पोग्गलपरियहो इह दवाइचउधिहो मुणेयको । थूलेयरभेएहिं जह होइ तहा निसामेह ॥४०॥ ओरालविउवातेयकम्मभासाणपाणमणएहिं । फासेवि सबपोग्गल मुका अह बायरपरहो॥४१॥ अहव इमो दवाई ओरालविउधतेयकम्मेहिं । नीसेसदरगहणंमि बायरो होइ परियहो॥४२॥ दधे सुहुमपरहो जाहे एगेण अह सरीरेणं । फासेवि सबपोग्गल अणुक्कमेणं नणु गणिज्जा ॥४३॥ लोगागासपएसा जया मरंतेण एत्थ जीवेणं । पुट्टा कमुक्कमेणं खेत्तपरहो भवे थूलो ॥४४॥ जीवो जइया एगे खेत्तपएसंमि अहिगए मरइ । पुणरवि तस्साणंतरि बीयपएसंमि जइ मरए ॥४५॥ एवं तरतमजोगेण सबखेत्तंमि जइ मओ होइ । सुहुमो खेत्तपरहो अणुक्रमेणं नणु गणेजा ॥४६॥ ओसप्पिणीऍ समया जावइया ते य निययमरणेणं । पुट्ठा कमुकमेणं कालपरहो भवे थूलो॥४७॥ सुहुमो पुण ओसप्पिणी पढमे समयंमि जइ मओ होइ। पुणरवि तस्साणंतरबीए समयंमि जइ मरद ॥४८॥ एवं तरतमजोएण सबसमएसु चेव एएसुं। जइ कुणइ पाणचायं अणुक्रमेणं नणु गणिज्जा ॥ ४९ ॥ एगसमयंमि लोए सुहुमागणिजिया उ जे उ पविसंति । ते ढुंतऽसंखलोयप्पएसतुल्ला असंखेज्जा ॥५०॥ तत्तो असंखगुणिया अगणिकाया उ तेसि कायठिई । तत्तो संजमअणुभागबंधठाणाणिऽसंखाणि ॥५१॥ ताणि मरतेण
जया पुट्ठाणि कमुफमेण सवाणि । भावंमि पायरो सो सुहुमो य कमेण बोद्धयो ॥५२॥ 'ओसप्पी'त्यादि गाथाचतुर्दशकं, अवसर्पिणीग्रहणेनोत्सर्पिण्यप्युपलक्ष्यते, ततोऽयमर्थः-अवसर्पिण्युत्सर्पिण्योऽनन्ता मिलिताःसमुदिताः पुद्गलपरावर्तो ज्ञातव्यः, ते च पुद्गलपरावर्ता अनन्ता अतीताद्धा, अनन्तपुद्गलपरावर्तात्मकोऽतीतः काल इत्यर्थः, अतीताद्धापेक्षया चानन्तगुणोऽनागताद्धा भविष्यत्काल इत्यर्थः, ननु भगवत्यां 'अणागयद्धा णं तीयद्धाओ समयाहिय'त्ति सूत्रेऽनागतकालोऽतीतकालात्समयाधिक उक्तः, तथाहि-"अतीतानागतौ कालावनादित्वानन्तत्वाभ्यां तुल्यौ, तयोश्च मध्ये भगवतःप्रश्नसमयो वर्तते, स चाविनष्टत्वेनातीते न प्रविशतीत्य विनष्टसाधादनागते क्षिप्तः, ततोऽतीतकालादनागताद्धा समयाधिको भवती"ति, इह पुनरतीताद्धातोऽनागताद्धाऽनन्तगुणाऽमिहिता तत्कथं न विरोधः?, अत्रोच्यते, यथा अनागताद्धाया अन्तो नास्ति एवमतीताद्धाया आदिरित्युभयोरप्यन्ताभावमात्रेण तत्र तुल्यत्वं विवक्षितमिति न दोषः, यदि च अतीतानागताद्धे वर्तमानसमये समे स्यातां ततः समयातिक्रमेऽनागताद्धा समयेनोना स्यात् ततो व्यादिमिः समयैः, एवं च समत्वं नास्ति, तस्मादतीताद्धायाः सकाशादनागताद्धाऽनन्तगुणेति स्थितं, अत एवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, वर्तमानकसमयरूपा वर्तमानाद्धाऽप्यस्ति, सा च सूक्ष्मत्वान्नेह पृथक्प्रतिपादितेति ॥ ३९ ॥ पुद्गलपरावर्तभेदानमिधातुमाह-पोग्गले'त्यादि, इह-अस्मिन् पारमेश्वरप्रवचने पुद्गलपरावर्ती द्रव्यादितो-द्रव्यक्षेत्रकालभावभेदतश्चतुर्विधःचतुष्पकारो ज्ञातव्यः, तद्यथा-द्रव्यपुद्गलपरावर्तः क्षेत्रपुद्गलपरावर्तः कालपुद्गलपरावर्ती भावपुद्गलपरावर्तश्च, पुनरप्येकैकः पुद्गलपरावर्तः स्थूलेतरभेदाभ्यां-बादरसूक्ष्मत्वभेदेन द्विधा-बादरः सूक्ष्मश्च, स च यथा भवति तथा निशमयत-शृणुतेति ॥ ४० ॥ तत्र बादरद्रव्यपुद्गलपरावर्तमाह-ओराले'त्यादि, एकेन जन्तुना विकटां भवाटवी पर्यटता अनन्तेषु भवेषु औदारिकवैक्रियतैजसकार्मणभाषाऽऽनप्राणमनोलक्षणपदार्थसप्तकरूपतया चतुर्दशरज्ज्वात्मकलोकवर्तिनः सर्वेऽपि पुद्गलाः स्पृष्ट्वा-परिभुज्य यावता कालेन मुक्ता भवन्ति एष बादरद्रव्यपुद्गलपरावर्तः, किमुक्तं भवति?-यावता कालेनैकेन जीवेन सर्वेऽपि जगदर्तिनः परमाणवो यथायोगमौ
205