________________
इत्यर्थः तदेतत्प्रत्येकमेकस्य बादरोद्धारसागरोपमस्य सूक्ष्मोद्धारसागरोपमस्य च परिमाणं भवेदिति, दशभिर्बादरोद्धारपल्योपमकोटिकोटिभिरेकं बादरोद्धारसागरोपमं भवति, दशभिश्च सूक्ष्मोद्धारपल्योपमकोटिकोटिभिरेकं सूक्ष्मोद्धारसागरोपमं भवतीत्यर्थः ॥ २७ ॥ अथ सूक्ष्मोद्धारसागरोपमस्य प्रयोजनमाह-'जावइओ' इत्यादि, अर्धतृतीयप्रमाणानां व्याख्यानात् सूक्ष्मोद्धारसागरोपमाणां पञ्चविंशतिपल्यकोटिकोटिष्वित्यर्थः सूक्ष्मवालाग्रोद्धारोपलक्षितः समयराशिरित्यर्थः भवेत्-जायेत तावन्त एव लोके द्वीपाः समुद्राश्च भवन्ति, एतदुक्तं भवति -सार्धे सूक्ष्मोद्धारसागरोपमद्वये सूक्ष्मोद्धारपल्योपमानां पञ्चविंशतिकोटिकोटिष्वित्यर्थः यावन्तो वालाप्रोद्धारविषयाः समया. भवन्ति तावत्सङ्ख्यास्तिर्यग्लोके द्वीपसमुद्रा अपि सर्वे सम्भवन्तीत्यर्थः, इह च यद्यपि सूत्रे सामान्येनैवोक्तं तथापि सूक्ष्मोद्धारसागरोपमस्यैवेदं द्वीपसमुद्रसङ्ख्यानयनलक्षणं प्रयोजनमवसेयं, 'एएहिं सुहुमेहिं उद्धारपलिओवमसागरोवमेहिं दीवसमुद्दाणं उद्धारो धिप्पई [एताभ्यां सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपसमुद्राणामुद्धारो गृह्यते] इति वचनात् , बादरोद्धारसागरोपमेण तु न किमपि प्रयोजनं, केवलं बादरे प्ररूपिते सूक्ष्मप्ररूपणा क्रमनिष्पन्नत्वात् सुखकर्तव्या सुखावसेया च भवतीत्यतस्तत्प्ररूपणामात्रं कृतं, एवं बादराद्धाक्षेत्रसागरोपमयोर्बादरपल्योपमत्रये च वाच्यमिति ॥ २८ ॥ अथ बादरं सूक्ष्मं चाद्धासागरोपममाह-'तहे'त्यादि, तथेति समुच्चये अद्धापल्योपमयोर्बादरसूक्ष्मभेदभिन्नयोर्या प्रत्येकं कोटिकोटिर्दशभिर्मुणिता दश कोटिकोटय इत्यर्थः तदेतत्प्रत्येकमेकस्य बादराद्धासागरोपमस्य सूक्ष्माद्धासागरोपमस्य च प्रमाणं भवेत् , भावार्थस्तु उद्धारसागरोपमवदिति ॥ २९ ॥ अथ सूक्ष्माद्धासागरोपमप्रयोजनमाह-सुहमे'त्यादि, सूक्ष्मेणाद्धासागरोपमस्य मानेन-प्रमाणेन सर्वेषां-नारकतिर्यगादिजीवानां कर्मस्थितिकायस्थितिभवस्थितयो भवन्ति ज्ञातव्याः, तत्र कर्मणांज्ञानावरणादीनां स्थितिः-अवस्थानकालस्त्रिंशत्सागरोपमकोटीकोट्यादिरूपः कर्मस्थितिः, कायः-पृथिव्यादिकायोऽत्राभिप्रेतः, ततश्चैकस्मिन् काये पुनः पुनस्तत्रैवोत्पत्त्या स्थितिः असङ्ख्येयोत्सर्पिण्यवसर्पिण्यात्मिका कायस्थितिः भवो-नारकायेकजीवस्य विवक्षितमेकमेव जन्म तत्र स्थितिः-आयुःकर्मानुभवनपरिणतिस्त्रयस्त्रिंशत्सागरोपमादिरूपा भवस्थितिः, एताः कर्मकायभवस्थितयः सूक्ष्माद्धासागरोपमेण प्रमीयन्ते इति भावः ॥ ३० ॥ अथ बादरं सूक्ष्मं च क्षेत्रसागरोपममाह-इहे'त्यादि, इह-अस्मिन् प्रक्रमे बादरक्षेत्रपल्योपमानां दशमिः कोटिकोटिभिर्बादरं क्षेत्रसागरोपमं सूक्ष्मक्षेत्रपल्योपमानां तु दशभिः कोटिकोटिभिः सूक्ष्म क्षेत्रसागरोपममिति तात्पर्यार्थः, अक्षरार्थस्तु पूर्ववदिति॥३शासूक्ष्मक्षेत्रसागरोपमस्य प्रयोजनमाह-एतेणे'त्यादि,एतेन-सूक्ष्मक्षेत्रसागरोपमस्यैव मानेन-प्रमाणेन ज्ञातव्यं, किमित्याहपरिमाणं-सङ्ख्यानं, केषां ?-पृथिव्युदकाग्निवायुवनस्पतित्रसजीवानां, एतच्च प्राचुर्येण दृष्टिवादे प्रतिपादितं सकृदेवान्यत्र सूक्ष्मोद्धाराद्धाक्षेत्रपल्योपमानामप्येतान्येव प्रयोजनानि द्रष्टव्यानीति १५९ ॥ ३२ ॥ इदानीं 'ओसप्पिणि'त्ति षष्ट्यधिकशततमं द्वारमाह
दस कोडाकोडीओ अद्धाअयराण हुंति पुन्नाओ । अवसप्पिणीऍ तीए भाया छच्चेव कालस्स ॥ ३३ ॥ सुसमसुसमा य १ सुसमा २ तइया पुण सुसमदुस्समा ३ होइ। दूसमसुसम चउत्थी ४ दूसम ५ अइदूसमा छट्ठी ६ ॥ ३४ ॥ सुसमसुसमाएँ कालो चत्तारि हवंति कोडिकोडीओ। तिन्नि सुसमाएँ कालो दुन्नि भवे सुसमदुसमाए ॥ ३५ ॥ एका कोडाकोडी बायालीसाएँ जा सहस्सेहिं । वासाण होइ ऊणा दूसमसुसमाइ सो कालो ॥ ३६ ॥ अह दूसमाएँ कालो वासस
हस्साई एकवीसं तु । तावइओ चेव भवे कालो अइदूसमाएवि ॥३७॥ "दसे'त्यादिगाथापञ्चकं, अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान हापयतीत्यवसर्पिणीतस्यां, तरीतुमशक्यानि प्रभूतकालतरणीयत्वादतराणि-सागरोपमाणीत्यर्थःसूक्ष्माद्धासागरोपमाणां सम्पूर्णा दश कोटीकोट्यो भवन्ति, सूक्ष्माद्धासागरोपमाणां दशमिः कोटीकोटीमिनिष्पन्नोऽवसर्पिणीलक्षणः काल विशेषोऽवगन्तव्य इति तात्पर्यार्थः, तस्यां चावसर्पिण्यां कालस्य भागा-विच्छेदाः सुषमसुषमादयः षडेव भवन्ति ॥ ३३ ॥ तानेवाह-'सुसमे'त्यादि, शोभनाः समाः-वर्षाण्यस्यामिति सुषमा अत्यन्तं सुषमा सुषमासुषमा, सर्वथा दुष्षमानुभावरहित एकान्तसुषमारूपोऽवसर्पिण्याः प्रथमो भागः, द्वितीया सुषमा तृतीया पुनः सुषमदुष्षमा भवति, दुष्टाः समा अस्यां सा दुष्षमा सुषमा चासौ दुष्षमा च सुषमदुष्षमा, सुषमानुभावबहुला अल्पदुष्षमानुभावेत्यर्थः, चतुर्थी दुष्षमसुषमा, दुष्षमा चासौ सुषमा च दुष्षमसुषमा, दुष्षमानुभावबहुला अल्पसुषमानुभावेत्यर्थः, पञ्चमी दुषमा, षष्ठी त्वतिशयेन दुष्षमा अतिदुष्षमा, सर्वथा सुषमानुभावरहिता दुष्षमदुष्षमेत्यर्थः ।। ३४॥ अथैतेषामेव सुषमसुषमादीनां षण्णामरकाणां प्रमाणमाह-सुसमसुमें'त्यादि, सुषमसुषमायां काल:-कालप्रमाणं सागरोपमाणां चतस्रः कोटिकोटयो भवन्ति, सुषमायां तिस्रः सागरोपमकोटिकोटयः, सुषमदुष्षमायां द्वे सागरोपमकोटिकोट्यौ, एका-एकसया सागरोपमकोटिकोटिर्द्विचत्वारिंशता वर्षाणां सहस्रैर्या न्यूना भवति स दुष्षमसुषमायाः कालो, द्विचत्वारिंशद्वर्षसहस्रन्यूनैकसागरोपमकोटिकोटिप्रमाणा दुष्षमसुषमेत्यर्थः, अथ दुष्षमायां कालप्रमाणमेकविंशतिवर्षसहस्राणि तावानेव च-दुष्षमाप्रमाण एव भवेत् कालः अतिदुष्षमायामपि, एकविंशतिवर्षसहस्रप्रमाणा दुष्षमदुष्षमापि भवतीति भावः, अस्यां चावसर्पिण्यां शरीरोच्छ्रयायुष्ककल्पवृक्षादिशुभभावानां परतोऽनन्तगुणा परिहानिः, तथाहि-सुषमसुषमायां मनुष्याणां गव्यूतत्रितयं शरीरोच्छ्रयः त्रीणि च पल्योपमान्यायुः शुभपरिणामोऽपि कल्पवृक्षादिरनेकः, सुषमायां द्वे गव्यूते द्वे च पल्योपमे कल्पपादपादिपरिणामश्च शुभो हीनतरः, सुषमदुष्षमायामेकं गव्यूतं एक पल्योपमं हीनतमश्च कल्पवृक्षादिपरिणामः, दुषमसुषमायां पञ्च
204