SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पिहुव्वेहाण रज्जुचउरंसमाणेण ॥ २ ॥ चत्तारि सहस्साई चउसट्ठिजुआई उड़लोगम्मि । पनरससहस्स दुसयं छण्णउयं जायमुभएसिं ॥ ३ ॥ चउसट्ठीऍ विहत्तं उणयाला दो सया हविजेवं । लोए घणरज्जूणं तिरियं चउरोति गाह्त्थो ॥४॥" अथोड़लोके यावत्स खण्डकेषु यावन्तो देवलोका भवन्तीत्येतदाह-'छसु' इत्यादि, रुचकसमाद् शूभागादुपरिमुखेषु षट्सु खण्डकेषु, सार्धरज्जूप्रमाणे क्षेत्रे इत्यर्थः, द्विकं-सौधर्मेशानलक्षणं देवलोकद्वयं भवति, ततोऽप्युपरितनेषु चतुर्यु खण्डकेषु-रज्जूमाने क्षेत्रे सनत्कुमारमाहेन्द्ररूपं देवलोकद्विकं भवति, ततोऽप्युपरि दशसु खण्डकेषु-अर्धतृतीयरज्जूप्रमिते क्षेत्रे भवन्ति ब्रह्मलोकलान्तकशुक्रसहस्रारतरूपाश्चत्वारो देवलोकाः, तदनु चतुर्यु खण्डकेषु-रज्जूपरिच्छिन्ने क्षेत्रे आनतप्राणतारणाच्युतनामकानां देवलोकानां चतुष्कं भवति, ततः सर्वोपरिवर्तिनि खण्डकचतुष्टये-अन्तिमरज्जो नवप्रैवेयकविजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तरविमानानि सिद्धिक्षेत्रं च भवंतीति ॥९१६॥ सम्प्रति रज्जूस्वरूपमाह-'सयंभु' इत्यादि, सकलद्वीपपयोधिपर्यन्तवर्तिनः स्वयम्भूरमणाभिधानजलनिधेः 'पुरिम'त्ति पूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्तः एतावत्प्रयाणा रज्जूरवगतज्या, अनेन च रज्जूगानेनोग्यतो लोकचतुर्दशरज्जूप्रमाणो भवतीति १४३ ॥ ९१७ ॥ इदानीं 'सन्नाओ तिन्नि'त्ति चतुश्चत्वारिंशं शततमं द्वारमाह-- सन्नाउ तिन्नि पढमेऽत्थ दीहकालोवरसिया नाम । तह हेउवायदिट्ठीबाउवएसा तदियराओ ॥ ९१८ ।। एयं करेमि एयं कयं मए इसमहं करिस्सामि । सो दीहकालसन्नी जो इय तिकालसन्नधरो ॥ ९१९ ॥ जे उण संचिंतेउं इटाणिहेसु विसयवत्थूसुं । वत्तंति नियत्तंति य सदेहपरिपालणाहे ॥ ९२० ॥ पाएण संपइचिय कालंति न यापि दीहकालंमि वापराली निचेठा हुँति हु असनी ॥ ९२१ ॥ सम्मदिट्टी सन्नी संते नाणे खओवसमिए य । अस्सन्नी मिच्छत्तमि दिहिवा. ओवएसेणं ॥ ९२२॥ संज्ञानं संज्ञा ज्ञानमित्यर्थः, सा त्रिभेदा 'पढमेत्थ'त्ति प्रथमा-आद्या अत्र-एतासु तिसृषु संज्ञासु मध्ये दीर्घकालोपदेशिकी नाम, दीर्घकालमतीतानागतवस्तुविषयत्वेनोपदेशः-कथनं यस्याः सा दीर्घकालोपदेशी सैव दीर्घकालोपदेशिका, तथा तदितरे-द्वितीयतृतीये हेतुवाददृष्टिवादोपदेशे, उपदेशशब्दस्य प्रत्येकममिसम्बन्धात् हेतुवादोपदेशा द्वितीया सज्ञा दृष्टिवादोपदेशा च तृतीयेत्यर्थः, तत्र हेतुः कारणं निमित्तमित्यनर्थान्तरं तस्य वदनं वादस्तद्विषय उपदेशः-प्ररूपणा यस्यां सा हेतुवादोपदेशा, तथा दृष्टि:-दर्शनं सम्यक्त्वं तस्य वदनं-वादो दृष्टीनां वादो दृष्टिवादः तद्विषय उपदेश:-प्ररूपणं यस्यां सा दृष्टिवादोपदेशेति ॥ ९१८ ॥ अथ दीर्घकालोपदेशसंज्ञायाः स्वरूपं प्रतिपिपादयिषुस्तया संज्ञिनमेवाह-'एयं' इत्यादि, एतत्करोम्यहं एतत्कृतं मया एतत्करिष्याम्यहं इत्येवं यस्त्रिकालविषयां वर्तमानातीतानागतकालत्रयवर्तिवस्तुविषयां संज्ञा-मनोविज्ञानं धारयति स दीर्घकालसंज्ञी, दीर्घकाला-दीर्घकालोपदेशा संज्ञाऽस्यास्तीतिकृत्वा, स च गर्भजस्तिर्यक् मनुष्यो वा देवो नारकश्च मनःपर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविषयविमर्शादिसम्भवात् , एष च प्रायः सर्वमप्यर्थ स्फुटरूपमुपलभते, तथाहि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैषोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति तथाविधस्त्रिकालविषयो विमर्शः सोऽसंज्ञीति सामर्थ्याल्लभ्यते, स च सम्मूच्छिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, स हि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थ जानाति, तथाहि-संशिपञ्चेन्द्रियापेक्षया सम्मूछिमपञ्चेन्द्रियोऽस्फुटमर्थ जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः ततोऽप्यस्फुटतरं त्रीन्द्रियः ततोऽप्यस्फुटतमं द्वीन्द्रियः ततोऽप्यत्यस्फुटतममेकेन्द्रियः तस्य प्रायो मनोद्रव्यासम्भवात् , केवलमव्यक्तमेव किश्चिदतीवाल्पतरं मनो द्रष्टव्यं यद्वशादाहारादिसंज्ञा अव्यक्तरूपाः प्रादुष्ष्यन्तीति १ ॥ ९१९ ॥ साम्प्रतं हेतुवादोपदेशसंज्ञया संज्ञिनमसंशिनं चाह-'जे उण' गाहा, 'पाएण' गाहा, ये पुनः सश्चिन्त्य सच्चिन्त्येष्टानिष्टेषु-छायातपाहारादिषु विषयवस्तुषु मध्ये स्वदेहपरिपालनातोरिष्टेषु वर्तन्ते अनिष्टेभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च साम्प्रतकाल एव, न चापि नैव दीर्घकाले अतीतानागतलक्षणे, प्रायोप्रहणात् केचिदतीतानागतकालावलम्बिनोऽपि नातिदीर्घकालानुसारिणः ते द्वीन्द्रियादयो हेतुवादोपदेशसंज्ञया संझिनो विज्ञेयाः, अत्र च निश्चेष्टा:-धर्माद्यमितापेऽपि तन्निराकरणाय प्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंज्ञिनो भवन्ति, इदमुक्तं भवति-यो बुद्धिपूर्वकं स्वदेहपरिपालनार्थमिष्टेष्वाहारादिषु वस्तुषु प्रवर्तते अनिष्टेभ्यश्च निवर्तते स हेतूपदेशसंज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहि-इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसश्चिन्तनं न मनोव्यापारमन्तरेण सम्भवति, मनसा च पर्यालोचनं संज्ञा, सा च द्वीन्द्रियादेरपि विद्यते, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् , ततो द्वीन्द्रियादिरपि हेतूपदेशसंज्ञया संज्ञी लभ्यते, नवरमस्य सश्चिन्तनं प्रायो वर्तमानकालविषयं, न भूतभविष्यद्वि. षयमिति नायं दीर्घकालोपदेशेन संज्ञी, यस्य पुनर्नास्त्यभिसन्धारणपूर्विका प्रवृत्तिनिवृत्तिशक्तिः स प्राणी हेतुवादोपदेशेनाप्यसंज्ञी लभ्यते, स च पृथिव्यादिरेकेन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात् , या अपि च आहारादिका दश संज्ञाः पृथिव्यादीनामप्यत्र वक्ष्यन्ते प्रज्ञापनायामपि च प्रतिपादितास्ता अप्यत्यन्तमव्यक्तरूपा मोहोदयजन्यत्वादशोभनाश्चेति न तदपेक्षयाऽपि तेषां संज्ञित्वव्यपदेशः, न हि लोकेऽपि कार्षापणमात्रास्तित्वेन धनवानुच्यते न चाविशिष्टेन मूर्तिमात्रेण रूपवानिति, अन्यत्रापि हेतुवादोपदेशसंज्ञित्वमाश्रित्योक्तं-"कृमिकीटपतङ्गाद्याः समनस्का जङ्गमाश्चतुर्भेदाः । अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः॥१॥" 181
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy