________________
पन्नसूचीचतुष्टयात्मिका उपरितनाधस्तनखण्डकरहिता षोडशखण्डकसल्या प्रतररज्जूः सम्पद्यते, तथा प्रतर एव सूच्या गुणितो दैर्येण . विष्कम्भतः पिण्डतश्च समसङ्ख्यखण्डकोपेता सर्वतश्चतुरस्रा घनरज्जूः, दैादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव घनस्येह रूढत्वात् , प्रतररज्जूश्व दीर्घ विष्कम्भाभ्यामेव समानपिण्डस्तस्यैकखण्डकमात्रत्वादिति भावः, एषा च घनरज्जूश्चतुःषष्टिखण्डकात्मिका, पूर्वोक्तसूच्याऽनन्तरोदितषोडशखण्डकप्रमिते प्रतरे गुणिते एतावतामेव खण्डकानां भावात् , स्थापना च-प्रागुक्तषोडशखण्डकात्मकप्रतरस्योपरि त्रीन वारान् षोडश षोडश खण्डकानि दत्त्वा भावनीया, तथा च दैर्घ्य विष्कम्भपिण्डैस्तुल्योऽयमापद्यत इति, उक्तं च-"सूई रज्जू चउहिँ उ खंडगेहिं सोलसहिं पयररज्जू य । चउसहिखंडगेहिं घणरज्जू होइ विन्नेया ॥ १॥” ततो द्वादशोत्तरपञ्चशतरूपस्याधोलोकखण्डकराशेः प्रतररज्ज्वानयनाय षोडशमिर्भागे हृते द्वात्रिंशत्प्रतररज्जवो भवन्ति, तथा उपरि-ऊर्द्ध लोके एकोनविंशतिः प्रतररज्जवः, चतुरुत्तरशतत्रयस्य षोडशभिभोगहारे एकोनविंशतेरेव लभ्यमानत्वात् , तथा सर्वपिण्डेन-अधोलोकोर्द्धलोकसम्बन्धिसर्वरज्जूमीलनेन एकपञ्चाशत्प्रतररजवो भवन्तीति ॥ ९१२ ॥ साम्प्रतं घनरज्जूसङ्ख्यां प्रतिपिपादयिषुः प्रथमं तावल्लोकघनीकरणमाह-'दाहिण' गाहा 'हेटाओ' गाहा, ऊर्द्धलोके त्रसनाड्या दक्षिणपार्श्ववर्तिनी ये द्वे खण्डे-ब्रह्मलोकमध्यादधस्तनमुपरितनं च खण्डं ते परिगृह्य विपरीते च विधाय-अधस्तनभागमुपरितनं उपरितनं च चाधः कृत्वेत्यर्थः, वामपार्श्वे सन्दध्यात्-संयोजयेत् , ततस्ते द्वे खण्डे रज्जूविस्तृतया त्रसनाड्या युते सर्वत्र विस्तरतस्तिस्रो रजवो जाताः ऊधिश्वोच्छ्रयेण सप्त रजवः इत्यूर्द्धलोकसंवर्तनं, 'हेढाउ'त्ति अधस्ताद्-अधोलोके पुनस्रसनाडीतो वामभागवर्ति खण्डं बुद्ध्या गृहीत्वा दक्षिणपार्श्वे विपरीतं कृत्वा स्थापयेत् , तत उपस्तिनसंवर्तितोड़लोकरूपं खण्डं त्रिरज्जूविस्तीर्ण संवर्तिताधोलोकखण्डस्य वामे स्थाने-वामपाघे सङ्घातयेत्, इयमत्र भावना-इह स्वरूपतस्तावल्लोक ऊर्ध्वाधश्चतुर्दशरज्जूप्रमाणः अधस्ताद्विस्तरतो देशोनसप्तरज्जूप्रमाणः तिर्यग्लोकमध्यभागे एकरज्जूः ब्रह्मलोकमध्ये पञ्चरज्जूः उपरि च लोकान्ते एकरज्जूः शेषस्थानेषु पुनरनियतविस्तरः, एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य घनीकरणाय प्रथममुपरितनलोकार्ध संवर्त्यते तथाहि-सर्वत्रैकरज्जूविस्तीर्णायावसनाड्या दक्षिणभागवर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च ये द्वे खण्डे कूर्पराकारसंस्थिते ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जूविस्तीर्णे देशोनार्धचतुष्टयरज्जूच्छये ते बुद्धिकल्पनया समादाय सनाड्या एवोत्तरपार्श्वे वैपरीत्येन सङ्घात्येते, एवं चोपरितनं लोकाध त्रिरज्जूविस्तारं देशोनसप्तरज्जूच्छ्रयं, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जूप्रमाणमन्यत्र त्वनियतबाहल्यं जायते, ततोऽधोलोके च त्रसनाड्या दक्षिणभागवर्यधोलोकखण्डमधोभागे देशोनत्रिरज्जूविस्तारं क्रमेण हीयमानविस्तरं तावद्यावदुपरिष्टाद्रज्वसङ्ख्येय. भागविष्कम्भं समधिकसप्तरज्जूच्छ्रयं बुद्ध्या परिगृह्य त्रसनाड्या एवोत्तरपार्श्वे ऊ धोभागविपर्यासेन संयोजयेत् , एवं च कृतेऽधस्तनं लोकाध देशोनचतूरज्जूविस्तारं सातिरेकसप्तरज्जूच्छ्रयं बाहल्यतोऽप्यधः क्वचित्किञ्चिदूनसप्तरज्जूमानं अन्यत्र त्वनियतबाहल्यं जयाते, तत उपरितनमर्ध बुद्ध्या गृहीत्वाऽधस्तनस्यार्धस्योत्तरपार्श्वे सङ्घात्यते, तथा च सति कचित्सातिरेकसप्तरज्जूच्छ्रयः क्वचिच्च देशोनसप्तरज्जूच्छ्रयः विस्तरतस्तु देशोनसप्तरज्जूप्रमाणो घनो जातः, ततः सप्तरज्जूनामुपरि यदधिकं तत्परिगृह्य उत्तरपार्श्वे ऊधि आयतं सवात्यते, ततो विस्तरतोऽपि परिपूर्णाः सप्त रजवो भवन्ति, तथा सङ्घातितोपरितनखण्डस्य बाहल्यं कचित्पञ्च रजवः अधस्तनखण्डस्य तु बाहल्यं अधस्ताद्यथासम्भवं देशोनाः सप्त रजवः, तत उपरितनखण्डबाहल्यादेशोनरज्जूद्वयमत्रातिरिच्यते इत्यस्मादतिरिच्यमानबाहल्यादर्ध गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत् कियत्यपि प्रदेशे किञ्चिदूनाः षट् रजवो भवन्ति, व्यवहारतस्तु सर्वमप्येतचतुरस्त्रीकृतनभःखण्डं सप्तरज्जूप्रमाणमुच्यते, व्यवहारनयो हि किश्चिन्यूनसप्तहस्तादिप्रमाणमपि पटाविवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्टं बाहल्यादिधर्म परिपूर्णेऽपि वस्तुनि व्यवस्यति स्थूलदृष्टित्वादिति भावः, अत एव तन्मतेनैवात्र सप्तरज्जूबाहल्यता सर्वगताऽवगन्तव्या, आयामविष्कम्भाभ्यामपि यत्र देशोनसप्तरज्जूप्रमाणमिदं व्यवहारतस्तत्रापि प्रत्येकं सप्तरज्जूप्रमाणता दृश्या, तदेवं व्यवहारनयमतेनायामविष्कम्भबाहल्यैः प्रत्येकं सप्तरज्जूप्रमाणो घनो जायते, एतञ्च पट्टिकादौ लिखित्वा भावनीयमिति ॥ ९१३ ॥९१४ ॥ इदानीं घनीकृतस्य लोकस्य रज्जूसख्यां प्रतिपादयितुमाह-'तिष्णि' इत्यादि, सर्वस्मिन्नपि चतुर्दशरज्ज्वात्मके लोके घनीकृते त्रिचत्वारिंशदुत्तराणि त्रीणि शतानि रज्जूनां भवन्ति, अथ घनीकरणे कीहक्संस्थानो लोकः सम्पद्यते', त. त्राह-'चउरंसं होइ जयं' चतुरस्र-सर्वतः समचतुरस्रं जगत्-लोको भवति, संवर्तितं सदिति शेषः, इयं च त्रिचत्वारिंशदुत्तरशतत्रयलक्षणा रज्जूसया सप्तानां घनेन 'समत्रिराशिहतिर्घन' इतिवचनादन्योऽन्यं त्रिस्ताडनेन जायते, एतदुक्तं भवति-संवर्तितस्य लोकस्यायामविष्कम्भबाहल्यानां प्रत्येकं सप्तरज्जूमानत्वात् सप्त सप्तकेन गुण्यन्ते जाता एकोनपञ्चाशत् साऽपि पुनः सप्तकेन गुण्यते जातानि त्रीणि शतानि त्रिचत्वारिंशानीति, एतच्च व्यवहारमाश्रित्योक्तं, निश्चयतस्तु एकोनचत्वारिंशदधिकशतद्वयसङ्ख्यानामेव धनरज्जूनां सम्भवात् , तथाहि-षट्पञ्चाशत्सङ्ख्यास्वपि पतिषु 'तिरियं चउरो दोसुं' इत्यादिगाथाकथितानि चतुरादीनि प्रतरखण्डकानि एकैकपक्तिगतानि पृथक्पृथग्वय॑न्ते, 'सदृशद्विराशिघातो वर्ग इतिवचनात् चतुष्कादयोऽकाश्चतुष्कादिभिरेव गुण्यन्ते इत्यर्थः, जाताः षोडशादयोऽङ्काः, तेषां च सर्वमीलने पञ्चदशसहस्राः षण्णवत्यधिके च द्वे शते खण्डकानां भवन्ति, अस्य च राशेर्धनरज्जूसमानयनाय चतुःषष्ट्या भागो हियते, ततो जायते एकोनचत्वारिंशदधिकद्विशतसङ्ख्या एव धनरज्जव इति, उक्तं च-'अह उवरिं छप्पन्ना पयरपञ्चक्खदिट्ठखंडाणं । वगं कुणह पिहु पिहु संजोगे तिजयगणियपयं ॥ १ ॥ सहसेगारस दुसया बत्तीसहिया अहंमि खंडाणं । समदीह
180