________________
भवति, वर्षासु-वर्षाकाले पुनः कालस्यांतिस्निग्धत्वात्प्रासुकीभूतमपि जलं भूयः प्रहरत्रयाद्र्द्ध सचित्तीभवति, तदूर्द्धमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवतीति ।। ८८२ ॥ १३६॥ इदानी 'तेरिच्छिमाणवीओ देवीओ तिरियमणयदेवाणं । जग्गुणाओ जत्तियमेत्ताहिगाउ'त्ति सप्तत्रिंशदुत्तरशततमं द्वारमाह
तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयवा । सत्तावीसगुणा पुण मणुयाणं तयहिया चेव ॥ ८८३ ॥ बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ पन्नत्ता जिणेहिं जियराग
दोसेहिं ।। ८८४ ॥ त्रिगुणात्रिभी रूपैरधिकाश्च तिरश्चां पुंवे दिनां स्त्रियो ज्ञातव्याः, कोऽर्थः ?-असत्कल्पनया सर्वेभ्यस्तिर्यग्योनिकपुरुषेभ्यः प्रत्येकं तिस्रस्तिस्रस्तिर्यकत्रियो दीयन्ते तिस्रश्च तिर्यस्त्रिय उद्धरन्ति ततो न तद्योग्यस्तिर्यग्योनिकः पुमान प्राप्यत इति, एवमुत्तरत्रापि भावना कार्या, तथा मनुष्याणां स्त्रियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः तदधिकाश्व-सप्तविंशतिरूपाधिकाः, तथा देवपुरुषेभ्यो देवत्रियो द्वात्रिंशद्गणा द्वात्रिंशद्रूपाधिकाश्च प्रज्ञप्ताः-कथिता जिनैर्जितरागद्वेषैरिति ॥ ८८३ ॥ ८८४ ॥ १३७ ॥ इदानीं 'अच्छेरयाण दसगं'ति अष्टत्रिंशदुत्तरशततमं द्वारमाह
उवसग्ग १ गम्भहरणं २ इत्थीतित्थं ३ अभाविया परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसूराणं ६॥ ८८५॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ ८ य अट्ठसयसिद्धा ९। अस्संजयाण पूया १० दसवि अणंतेण कालेणं ॥ ८८६ ॥ सिरिरिसहसीयलेसुं एकेक मल्लिनेमिनाहे य । वीरजिणिंदे पंच उ एगं सबेसु पाएणं ॥८८७॥ रिसहे अहियसयं सिद्धं सीयलजिणंमि हरिवंसो। नेमिजिणेऽवरकंकागमणं कण्हस्स संपन्नं ॥ ८८८॥ इत्थीतित्थं मल्ली पूया असंजयाण नवमजिणे।
अवसेसा अच्छेरा वीरजिणिंदस्स तित्थंमि ॥ ८८९॥ आ-विस्मयतश्चर्यन्ते-अवगम्यन्ते जनैरित्याश्चर्याणि-अद्भुतानि, तानि च उपसर्गादीनि दश, तत्रोपसृज्यते-क्षिप्यते बाध्यते प्राणी धर्मादिभिरित्युपसर्गाः-सुरनरादिकृतोपद्रवाः, ते च योजनशतमिते क्षेत्रे प्रशमितदुर्वाग्वैरमारिविड्वरदुर्भिक्षाद्युपद्रवोद्रेकस्यापि वरेण्यपुण्यापणस्यापि तीर्थकरस्यापि भगवतः श्रीमहावीरस्य छद्मस्थकाले केवलिकाले च नरामरतिर्यकृताः समभवन् , इदं च किल न जातुचिद् जातपूर्व, तीर्थकरा हि निखिलनरामरतिरश्चां सत्कारस्थानमेव, नोपसर्गभाजनं, अनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति १ । तथा गर्भस्य-स्त्रीकुक्षिसमुद्भूतसत्त्वस्य संहरणं-अन्यस्त्रीकुक्षौ सक्रामणं गर्भसंहरणं, एतञ्च तीर्थङ्करमुद्दिश्याभूतपूर्वमस्यामवसर्पिण्यां भगवतः श्रीमहावीरस्य जातं, तथाहि-श्रीमहावीरजीवो मरीचिभवे समुपार्जितनीचैर्गोत्रकर्मा प्राणतकल्पपुष्पोत्तरविमानाश्युत्वा ब्राह्मणकुण्डप्रामे ऋषभदत्तापरनामधेयसोमिलद्विजदयिताया देवानन्दायाः कुक्षावाषाढशुक्लषष्ठयामवातरत्, इतश्च व्यशीतिदिनेषु समतिक्रान्तेषु सौधर्माधिपतिरुपयुक्तावधिर्न तीर्थकृतः कदाचनापि नीचैःकुलेषु जायन्ते इति विमृश्य भुवनगुरुभक्तिभरभावितमनाः पदात्यनीकाधिपतिं हरिणेगमेषिमादिक्षत्-यथैष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशतस्तुच्छकुले जातः तदयमितः संहृत्य क्षत्रियकुण्डग्रामे प्रसिद्धसिद्धार्थपार्थिवपल्यात्रिशलादेव्याः कुक्षौ स्थाप्यतामिति, ततः स हरिणेगमेषिस्तथेति प्रतिपद्याश्वयुक्कृष्णत्रयोदशीदिवसे रात्रौ प्रथमप्रहरद्वयमध्ये देवानन्दाभिधानब्राह्मण्युदरात् त्रिशलादेव्याः कुक्षौ भगवन्तं संहृतवान् , एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति २। तथा स्त्री-योषित्तस्यास्तीर्थकरत्वेनोत्पन्नायास्तीर्थ-द्वादशाङ्ग सङ्घो वा स्त्रीतीर्थ, तीर्थ हि त्रिभुवनातिशायिनिरुपमानमहिमानः पुरुषा एव प्रवर्तयन्ति, इह त्ववसर्पिण्यां कुम्भकनृपतिपुच्या महयमिधानया एकोनविंशतितमतीर्थकरत्वेनोत्पन्नया तीर्थ प्रवर्तितं, तथाहि-इहैव जम्बूद्वीपे द्वीपेऽपरविदेहे सलिलावतीविजये वीतशोकायां नगर्या महाबलो नाम भूपतिरभूत् , स च सुचिरपरिपालितराज्यः षशिर्बालमित्रैः सममाईतं धर्ममाकर्ण्य वरधर्ममुनीन्द्रसमीपे प्रवव्राज, तैश्च सप्तभिरपि यदेकस्तपः करिष्यति तदन्यैरपि कर्तव्यमिति प्रतिज्ञाय समं चतुर्थादितपश्चक्रे, अन्यदा च महाबलमुनिस्तेभ्यो विशिष्टतरफलेप्सया पारणकदिने पादोऽध मे दुष्यति शिरोऽद्य मे दुष्यति दुष्यत्युदरमद्य मे नास्ति मेऽद्य क्षुदित्यादिव्यपदेशेन मायया तान् वञ्चयित्वा तपश्चक्रे, तेन च मायामिश्रेण तपसा स्त्रीवेदकर्म अर्हद्वात्सल्यादिमिः विंशतिस्थानस्तीर्थकृन्नामकर्म च बद्धा पर्यन्तसमये समयोक्ताराधनया विपद्य वैजयन्तविमानेषु सुरः समुत्पेदे, ततळयुत्वा च मिथिलानगर्या कुम्भाभिधवसुधाधिपतेः पल्याः प्रभावत्याःप्राग्जन्मकृतमायासमुपार्जितस्त्रीवेदकर्मवशतो मल्लयभिधाना पुत्री समभवत् , क्रमेण . च प्राप्तयौवना यथाविधि प्रव्रज्यां प्रतिपद्य केवलज्ञानमुपागमत् , अष्टमहाप्रातिहार्यप्रभृतितीर्थकरसमृद्धिसंशोभिता च तीर्थ प्रवर्तयामासेति, अस्यापि भावस्यानन्तकालजातत्वादाश्चर्यतेति ३ । तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणस्थितश्रोतृलोकाः, श्रूयते हि भगवतः श्रीवर्धमानस्वामिनो जृम्भिकपामादहिः समुत्पन्ननिःसपत्नकेवलालोकस्य तत्कालसमायातसङ्ख्यातीतसुरविसरविरचितसुचारुसमवसरणस्य भूरिभक्तिकुतूहलाकुलितमिलितापरिमितामरनरतिरश्चां स्वस्वभाषानुसारिणा सजलजलधरध्वानानुकारिणाऽतिमनोहारिणा महाध्वनिना धर्मकथां कुर्वाणस्यापि न केनचिद्विरतिः प्रतिपन्ना, केवलं प्रथमसमवसरणेऽवश्यमेव तीर्थकृद्भिः कर्तव्या धर्मदेशनेति स्थितिपरिपालनायैव धर्मकथा बभूव, न चैतत्तीर्थकरस्य कस्यापि भूतपूर्वमित्याश्चर्य ४ । तथा कृष्णस्य-नवमवासुदेवस्यापरककाभिधाना नगरी
171