________________
यावत्कदाचिच्चतुर्थ कदाचित् षष्ठं कदाचिदष्टमं एवं दशमद्वादशादीन्यपि करोति, पारणकं च सर्वकामगुणितेनोद्गमादिशुद्धनाहारेण विधत्ते, ततः परमन्यानि चत्वारि वर्षाणि उक्तप्रकारेण विचित्रतपांसि करोति विकृतिनियूंहितानि-विकृतिरहितानि, किमुक्तं भवति ?-विचित्रं तपः कृत्वा पारणके निर्विकृतिकं भुते उत्कृष्टरसवर्ज च, ततः परतोऽन्ये द्वे च वर्षे एकान्तरितमाचाम्लं करोति, एकान्तरं चतुर्थ कृत्वा आचाम्लेन पारयतीत्यर्थः, एवमेतानि दश वर्षाणि गतानि, एकादशस्य तु वर्षस्याद्यान् षण्मासान् 'नातिविकृष्टं' नातिगाढं तपः करोति, नातिविकृष्टं नाम तपश्चतुर्थ षष्ठं वाऽवसेयं नाष्टमादिकं, पारणके तु परिमितं-किश्चिदूनोदरतासम्पन्नमाचाम्लं करोति, ततः परमपरान् षण्मासान् विकृष्ट-अष्टमदशमद्वादशादिकं तपःकर्म भवति, पारणके तु मा शीघ्रमेव मरणं यासिषमितिकृत्वा परि आचाम्लं करोति, न पुनरूनोदरतयेति, द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः । उक्तं च निशीथचूर्णी-“दुवालसमं वरिसं निरंतरं हायमाणं उसिणोदएण आयंबिलं करेइ, तं कोडिसहियं भवइ, जेणायंबिलस्स कोडी कोडीए मिलई"त्ति । चतुर्थ कृत्वा आचाम्लेन पारयति, पुनश्चतुर्थ विधायाचाम्लेनैव पारयतीत्यादीन्यपि बहूनि मतान्तराणि द्वादशस्य वर्षस्य विषये वीक्ष्यन्ते, परं प्रन्थगौरवभयानात्र लिखितानीति । इह च द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैककवलहान्या तावदूनोदरतां करोति यावदेक कवलमाहारयति, ततः शेषेषु दिनेषु क्रमश एकेन सिक्थेनोनमेकं कवलमाहारयति द्वाभ्यां सिक्थाभ्यां त्रिभिः सिक्थैरेवं यावदन्ते एकमेव सिक्थं भुङ्के, यथा दीपे समकालं तैलवर्तिक्षयो भवति तथा शरीरायुषोरपि समकं भयः स्यादिति हेतोः, अपरं चेह द्वादशस्य वर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरितं तैलगण्डूषं चिरकालमसौ मुखे धारयति, ततः खेलमल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति, यदि पुनस्तैलगण्डूषविधानं न कार्यते तदा रूक्षत्वात्तेन मुखयत्रमीलनसम्भवे पर्यतसमये नमस्कारमुचारयितुं न शक्कोतीति, तदेवमनयाऽऽनुपूर्व्या-क्रमेण द्वादशवार्षिकीमुत्कृष्टां संलेखनां कृत्वा गिरिकन्दरां च गत्वा उपलक्षणमेतत् अन्यदपि षटकायोपमर्दरहितं विविक्तं स्थानं गत्वा पादपोपगमनं, वाशब्दाद्भक्तपरिझामिगिनीमरणं वा प्रपद्यते, मध्यमा तु संलेखना पूर्वोक्तप्रकारेण द्वादशमिर्मासैः जघन्या च द्वादशमिः पक्षैः परिभावनीया, वर्षस्थाने मासान् पक्षांश्च स्थापयित्वा तपोविधिः प्रागिव निरवशेष उभयत्रापि भावनीय इति भावः ॥ ८७५ ॥ ८७६ ॥ ८७७ ॥ १३४ ॥ इदानीं 'वसहेण वसहिगहणं ति पंचत्रिंशदुत्तरशततमं द्वारमाह
नयराइएसु घेप्पइ वसही पुत्वामुहं ठविय वसहं । वामकडीह निविडं दीहीकअग्गिमेकपयं ॥ ८७८॥ सिंगक्खोडे कलहो ठाणं पुण नेव होइ चलणेसु । अहिठाणे पोहरोगो पुच्छंमि फेडणं जाण ॥ ८७९ ।। मुहमूलंमि य चारी सिरे य कउहे य पूयसकारो । खंधे पट्ठीय भरो पु
टॅमि य धायओ वसहो॥ ८८०॥ नगरप्रामादिषु पूर्वाभिमुखं वामकट्या-वामपार्श्वेण निविष्टं-उपविष्टं दीर्घाकृतामिमैकपाद-आयतीकृताप्रतनैकतरचरणं वृषभं-बलीबर्द स्थापयित्वा-निवेश्य वसतिर्गृह्यते, अयमर्थः-यावन्मानं क्षेत्रं वसिमाकान्तं भवति तावत्सर्वमपि वामपार्बोपविष्टपूर्वाभिमुखवृषभरूपं बुद्ध्या परिकलय प्रशस्तेषु प्रदेशेषु साधुभिर्वसतिोिति ॥ ८७८ ॥ इत्थं च क्षेत्रे वृषभरूपे कल्पिते कुत्रावयवे वसतिः क्रियमाणा किम्फला भवति?, तत्राह-सिंगे'त्यादि, शृङ्गप्रदेशे यदि वसतिं करोति तदा निरन्तरं वतिनां कलहो भवति, तथा स्थानं अवस्थितिः पुननैव भवति चरणेषु-पादप्रदेशेषु क्रियमाणायां वसतौ, तथाऽधिष्ठाने-अपानप्रदेशे वसतौ क्रियमाणायां मुनीनां उदररोगो भवति, तथा पुच्छे-पुच्छप्रदेशे क्रियमाणायां वसतौ स्फेटनं-अपनयनं वसतेर्जानीहि, तथा मुखमुले वसतौ क्रियमाणायां 'चारित्ति भोजनसम्पत्तिः साधूनां भव्या भवति, तथा शिरसि-शृङ्गयोर्मध्ये ककुदे वा-अंशकूटप्रदेशे वसतिकरणे पूजा-प्रवरवस्त्रपात्रादिप्रदानलक्षणा सत्कारश्च-अभ्युत्थानादिरूपो तिनां भवति, तथा स्कन्धप्रदेशे पृष्ठप्रदेशे च वसतौ सत्यां भरो भवति-साधुमिरितस्तत आगच्छद्भिर्वसतिराकुला भनति, तथा 'पोट्टमि यत्ति उदरदेशे वसतौ विधीयमानायां ध्रातः-तृप्तो भवति वृषभो-वृषभकल्पो भवति गृहीतवसतिनिवासी यतिजन इति ॥ ८७९ ॥ ८८० ॥ १३५ ॥ इदानीं 'उसिणस्स फासुयस्सवि जलस्स सचित्तया कालो' इति षट्त्रिंशदुत्तरशततमं द्वारमाह
उसिणोदगं तिदंडुक्कलियं फासुयजलंति जइकप्पं । नवरि गिलाणाइकए पहरतिगोवरिवि धरियवं ॥ ८८१ ॥ जायइ सचित्तया से गिम्हमि पहरपंचगस्सुवरि । चउपहरोवरि सिसिरे वासासु
पुणो तिपहरुवरि ॥८८२॥ त्रिभिर्दण्डैः-उत्कालैरुत्कालितं-आवृत्तं यदुष्णोदकं तथा यत्प्रासुकं-खकायपरकायशस्रोपहतत्वेनाचित्तीभूतं जलं तदेव यतीनां कल्प्यं-ग्रहीतुमुचितं, इह किल प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते तृतीये तु सर्वोऽप्यप्कायोऽचित्तो भवतीति त्रिदण्डग्रहणं, इदं च सर्वमपि प्रहरत्रयमध्य एवोपभोक्तव्यं, प्रहरत्रयादूर्द्ध पुनः कालातिक्रान्तदोषसम्भवेनोपभोगानहत्वान्न धारणीयं, नवरं-केवलं ग्लानादिकृते-लानवृद्धादीनामर्थाय प्रहरत्रिकादप्यूर्द्ध धर्तव्यमिति ॥ ८८१॥ 'जाये'त्यादि, जायते-भवति सचित्तता 'से'त्ति तस्य उष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे' उष्णकाले प्रहरपञ्चकस्योपरिप्रहरपञ्चकादूर्द्ध, कालस्यातिरूक्षत्वाच्चिरेणैव जीवसंसक्तिसद्भावात् , तथा शिशिरे-शीतकाले कालस्य निग्धत्वात्प्रहरचतुष्टयादूई सचित्तता
170