SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ यतया जिनवरैरिति ।। ७७० ॥ विहारश्चतुर्विधो भवति, द्रन्यतः क्षेत्रतः कालतो भावतश्च, एतदेवाह-'दबओ'इत्यादि, द्रव्यतश्चक्षुषा प्रेक्षते मार्गस्थितान् जीवानिति शेषः, क्षेत्रतो युगमात्रं क्षेत्रं, युग-यूपं चतुर्हस्तप्रमाणं तत्प्रमाणां भूमिं निरीक्षेत, अत्यासन्नस्य दृष्टस्यापि कस्यचिज्जीवादे रक्षितुमशक्यत्वात् (प्रन्थानं ८०००) युगमात्राच परतः लक्ष्णजीवादेष्टुमप्यशक्यत्वादिति युगमात्रग्रहणं, कालतो यावत्कालं मुहूर्णप्रहरादिकं 'रीएजत्ति गच्छेत् , भावतश्च उपयुक्तः-सम्यगुपयोगपर इति १०३॥ ७७१ ॥ rammmmmmmmmmmmmmmmm ॥ इति श्रीप्रवचनसारोद्धारवृत्तौ पूर्वभागः ॥ Ennammmmmmmmmmmmmaaannn साम्प्रतं 'अप्पडिबद्धविहारो'त्ति चतुरुत्तरशतमं द्वारमाह अप्पडिबद्धो अ सया गुरूवएसेण सवभावसुं । मासाइविहारेणं विहरेज जहोचियं नियमा ॥७७२ ॥ मुत्तूण मासकप्पं अन्नो सुत्तमि नत्थि उ विहारो । ता कहमाइग्गहणं कज्जे ऊणाइभावेणं ॥ ७७३ ॥ कालाइदोसओ जइ न दवओ एस कीरए नियमा । भावेण तहवि कीरह संथारगवच्चयाईहिं ॥ ७७४ ॥ काऊण (कम्हिपि) मासकप्पं तत्थेव ठियाण तीस मग्गसिरे । सालंबणाण जिट्ठोग्गहो य छम्मासिओ होइ ॥ ७७५ ॥ अह अस्थि पयवियारो चउपाडिवयंमि होइ निग्गमणं । अहवावि अनितस्स आरोवण सुत्तनिहि ॥ ७७६ ॥ एगक्खेत्तनिवासी कालाइकंतचारिणो जइवि । तहवि हु विसुद्धचरणा विसुद्धआलंवणा जेण ॥ ७७७ ॥ सालंबणो पडतो अत्ताणं दुग्गमवि धारह। इय सालबणसेवी धारेइजई असढभावं ॥७७८॥ काहं अछित्तिं अदुवा अहिस्सं, तवोवहाणेसु य उजमिस्सं । गणं व नीइसु य सारइस्सं, सालंबसेवी समुवेइ मोक्खं ॥७७९॥ 'अप्पडिबद्धो'इत्यादि गाथाऽष्टकं, अप्रतिबद्धश्च सदा-सर्वकालममिष्वङ्गरहित इत्यर्थः गुरूपदेशेन हेतुभूतेन, केत्याह-सर्वभावेषुद्रव्यादिषु, तत्र द्रव्ये-श्रावकादौ क्षेत्रे-निर्वातवसत्यादौ काले-शरदादौ भावे-शरीरोपचयादौ अप्रतिबद्धः, किमित्याह-मासादिविहारेण सिद्धान्तप्रसिद्धेन विहरेत्-विहारं कुर्यात् , यथोचितं-संहननाद्यौचित्येन नियमाद्-अवश्यंभावत इति, एतदुक्तं भवति-द्रव्यादिप्रतिबद्धः सुखलिप्सुतया तावदेकत्र न तिष्ठेत् , किं तर्हि ?, पुष्टालम्बनेन, मासकल्पादिना विहारोऽपि च द्रव्याद्यप्रतिबद्धस्यैव सफलः, यदि पुनरमुकं नगरादिकं गत्वा तत्र महर्द्धिकान् बहून् वा श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायापरस्य ते भक्ता ने भवन्तीत्यादिद्रव्यप्रतिबन्धेन तथा निर्वातवसत्यादिजनितरत्युत्पादकममुकं क्षेत्रं इदं तु न तथाविधमित्यादिक्षेत्रप्रतिबन्धेन तथा परिपकसुरभिशाल्यादिशस्यदर्शनादिरमणीयोऽयं विहरतां शरत्कालादिरित्यादिकालप्रतिबन्धेन तथा स्निग्धमधुराबाहारादिलाभेन तत्र गतस्य मम शरीरपुष्ट्यादि सुखं भविष्यति अत्र तु न तत्सम्पद्यते अपरं चैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका भणिष्यन्ति अमुकं तु शिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एव, तस्मादवस्थानं विहारो वा द्रव्याद्यप्रतिबद्धस्यैव साधक इति ॥ ७७२ ॥ अथ पराभिप्रायमाशय परिहारमाह-मुत्तूणे त्यादि, मुक्त्वा-विहाय मासकल्पं-मासविहारमन्यः सूत्रे-मूलागमे तुशब्दस्य एवकारार्थत्वान्नास्त्येव विहारस्तथाऽश्रवणात् , तत् कथं-कस्मादादिग्रहणमनन्तरगाथायां ?, तत्राह'कजेत्ति कार्ये तथाविधे सति न्यूनादिभावेन-न्यूनाधिकभावात्कारणादादिग्रहणं, अयमाशयः-साधुमिस्तावन्मासकल्पेनैव मुख्यतो विहारः कार्यः, कारणवशतः पुनः कदाचिदपूर्णेऽपि मासे विहारः क्रियते कदाचित्त्वाधिक्येनापि क्रियते इत्येतदर्थमादिग्रहणं कृतं ॥ ७७३ ॥ एतदेव प्रकटीकुर्वन्नाह-'कालाई'त्यादि, कालादिदोषतः क्रियते-कालक्षेत्रद्रव्यभावदोषानाश्रित्य, तत्र कालदोषो-दुर्मिक्षादिः क्षेत्रदोषः-संयमाननुगुणत्वादिः द्रव्यदोषो-भक्तपानादीनां शरीराननुकूलता भावदोषो-ग्लानत्वज्ञानादिहान्यादिः, यद्यपि 'न' नैव 'द्रव्यतो' बहिवृत्त्या 'एष मासकल्पः क्रियते' विधीयते, तथापि 'नियमाद' अवश्यंतया 'भावेन' भावतः क्रियते एकस्थानस्थितैरपि यतिभिः, कथमिति चेत्तत्राह-संथारगवञ्चयाईहिं' संस्तारकव्यत्ययादिभिः-शयनभूमिपरावर्तनप्रभृतिमिः, आदिशब्दाद 150
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy