________________
दनमिव शेषशरीरावयवपरिपालनाय क्रियते तच्छेदाईत्वाच्छेदः ७, 'मूल'त्ति यस्मिन् समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भूयो महाव्रतारोपणं तन्मूलाईत्वान्मूलं ८, येन पुनः प्रतिसेवितेन उत्थापनाया अप्ययोग्यः सन् कश्चित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्ण भवति पश्चाच्च चीर्णतपास्तद्दोषोपरतौ व्रतेषु स्थाप्यते तदनवस्थाईत्वादनवस्थितप्रायश्चित्तं, यद्वा यथोक्तं तपो यावन्न कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यते इत्यनवस्थाप्यः तस्य भावोऽनवस्थाप्यता ९, 'पारंचिए चेव'त्ति 'अंचू गतौ' यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमञ्चति तत्पाराञ्चितं, पाराञ्चितमहति तदहतीति (पा०५-१-६३) सूत्रेण डः पाराश्चितं, यद्वा पारं-अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति-च्छतीत्येवंशीलं पाराश्चि तदेव पाराश्चिकमिति १० ॥ ७५० ॥ अथैतानि स्वयमेव व्याचष्टे-'आलोजई' इत्यादिगाथाषट्कम् , कार्येण-अवश्यकरणीयेन मिक्षाग्रहणादिना हस्तशतात्परत:-ऊर्द्ध यद्गमनमुपलक्षणत्वादागमनादि च तदालोचर्हस्य गुरोः पुरत आलोच्यते-वचसा प्रकटीक्रियते, इयमत्र भावना-गुरुमापृच्छय गुरुणाऽनुज्ञातः सन् स्वयोग्यमिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोब्छनादि यदिवा आचार्योपाध्यायस्थविरबालग्लानशैक्षकक्षपकासमर्थप्रायोग्यवस्त्रपात्रभक्तपानौषधादि गृहीत्वा समागतो यद्वा उच्चारभूमेर्विहाराद्वा समागतः अथवा चैत्यवन्दननिमित्तं पूर्वगृहीतपीठफलकादिप्रत्यर्पणनिमित्तं वा बहुश्रुतापूर्वसंविमानां वंदनप्रत्ययं वा संशयव्यवच्छेदाय वा श्राद्धस्वज्ञात्यवसन्नविहाराणां श्रद्धावृद्ध्यर्थ वा साधर्मिकाणां वा संयमोत्साहनिमित्तं हस्तशतात्परं दूरमासन्नं वा गत्वा समागतो यथाविधि गुरुसमक्षमालोचयतीति, इयं चालोचना गमनागमनादिष्ववश्यकर्तव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तस्य यतेद्रष्टव्या, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् , केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् , आह-यानि नामावश्यकर्तव्यानि गमनादीनि तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तस्य किमालोचनया ?, तामन्तरेणापि तस्य शुद्धत्वात् , यथासूत्रं प्रवृत्तेः, सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुध्वन्तीति तच्छुद्धिनिमित्तमालोचना १। तथा समितिप्रमुखाणां सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सति मिथ्याकरणे-अन्यथाकरणे प्रतिक्रमणं-मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तं क्रियते, तत्र समितयः पञ्च, तद्यथा-ईर्यासमिति षासमितिरेषणासमितिरादानभाण्डमात्रनिक्षेपणासमितिरुचारप्रश्रवणखेलसिङ्घानजल्लपारिष्ठापनिकासमितिश्च, प्रमुखग्रहणाद्प्त्यादिपरिग्रहः, गुप्तयश्च तिस्रस्तद्यथा-मनोगुप्तिर्वचनगुप्तिः कायगुप्तिश्च, इयमत्र भावना-सहसाकारतोऽनाभोगतो वा र्यायां यदि कथां कथयन् ब्रजेत् भाषायामपि यदि गृहस्थभाषया ढडरस्वरेण वा भाषेत एषणायां भक्तपानगवेषणवेलायामनुपयुक्तो भाण्डोपकरणस्यादाने निक्षेपे वा अप्रमार्जयिता अप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापयिता न च हिंसादोषमापन्नः तथा यदि मनसा दुश्चिन्तितं स्यात् वचसा दुर्भाषितं कायेन दुश्चेष्टितं तथा यदि कन्दर्पो वा हासो वा स्त्रीभक्तचौरजनपदकथा वा तथा क्रोधमानमायालोभेषु गमनं विषयेषु वा शब्दरूपरसगन्धस्पर्शलक्षणेष्वभिष्वङ्गः सहसाऽनाभोगतो वा कृतः स्यात्तत एतेषु सर्वेषु स्थानेषु आचार्यादिषु च मनसा प्रद्वेषादिकरणे वाचाअन्तरभाषादिकृतौ कायेन पुरोगमनादौ तथा इच्छामिथ्यातथाकारादिप्रशस्तयोगाकरणे च मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तमिति २ । तथा शब्दादिषु-शब्दरूपप्रभृतिष्विष्टानिष्टविषयेषु 'रागादिविरचनं' रागस्य-अभिष्वङ्गलक्षणस्य आदिग्रहणाद् द्वेषस्य-अप्रीतिलक्षणस्य मनोमात्रेण करणं गुरूणां पुरतः 'साहिति कथयित्वा यद्दीयते मि. ध्यादुष्कृतमेतत्प्रायश्चित्तं मिश्रमिति भणितं, इयमत्र भावना-नानाप्रकारान् शब्दादीन् विषयान् इन्द्रियविषयीभूताननुभूय कस्यचिदेवं संशयः स्याद् यथा शब्दादिषु विषयेषु रागद्वेषौ गतो वा न वेति, ततस्तस्मिन् संशयविषये मिश्रं-पूर्व गुरूणां पुरत आलोचनं तदनन्तरं गुरुसमादेशेन मिथ्यादुष्कृतदानमित्येवंरूपं प्रायश्चित्तं भावतः प्रतिपद्यते, यदि हि निश्चितं भवति यथा अमुकेषु शब्दादिषु विषयेषु राग द्वेषं वा गत इति, तत्र तपोऽई प्रायश्चित्तं, अथैवं निश्चयो-न गतो राग द्वेषं वा, तत्र स शुद्ध एव न प्रायश्चित्तविषयः ३। तथाऽनेषणीये-अशुद्धे अशनादिके-अशनपानखादिमस्खादिमरूपे सकलौधिकौपग्रहिकलक्षणे च वस्तुनि गृहीते सति परित्यागः कार्यः, इदमुक्तं भवति-सम्यगुपयुक्तेन केनापि साधुना भक्तपानादिकं गृहीतं पश्चात्कथमप्यप्रासुकमनेषणीयं वा ज्ञातं तत्र प्रायश्चित्तं तस्य गृहीतस्य भक्तपानादेः परित्यागः, उपलक्षणमेतत् तेन एतदपि द्रष्टव्यं-अशठभावेन गिरिराहुमेघमहिकारजःसमावृते सवितरि उद्गतबुद्ध्या अनस्तमितबुद्ध्या वा गृहीतमशनादिकं पश्चाद् ज्ञातमनुद्गते अस्तमिते वा सूर्ये गृहीतं तथा प्रथमपौरुष्यां गृहीत्वा चतुर्थीमपि पौरुषी यावद् धृतमशनादि शठभावेनाशठभावेन वा अर्धयोजनातिक्रमणेन नीतमानीतं वाऽशनादि तत्र विवेक एव प्रायश्चित्तमिति, शठाशठयोश्चेदं लक्षणं -इन्द्रियविकथामायाक्रीडादिभिः कुर्वन् शठः ग्लानसागारिकास्थण्डिलभयादिकारणतोऽशठः ४, तथा दुःस्वप्नप्रमुखे दृष्टे सति तद्विशोधनाय क्रियते कायोत्सर्गः, तत्र दुःस्वप्नः-प्राणातिपातादिसावद्यबहुलः, प्रमुखग्रहणाद्गमनागमननौसंतरणादिपरिग्रहः, एतेषु विषये कायोत्सर्गलक्षणं प्रायश्चित्तमिति भावः, उक्तं च "गमणागमणवियारे सुत्ते वा सुमिणदसणे राओ। नावा नइसंतारे पायच्छित्तं विउस्सग्गो॥१॥" [गमनागमनयोर्विचारे सूत्रे वा स्वप्नदर्शने रात्रौ । नावा नदीसंतरणे प्रायश्चित्तं व्युत्सर्गः ॥ १॥] अत्र 'सुत्चे वत्ति सूत्रे -सूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रस्थापनप्रतिक्रमणश्रुतस्कन्धाङ्गपरिवर्तनादिष्वविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः ५।वा समुचये, तथा पृथिव्यादिविघट्टने-सचित्तपृथिवीकायादिसट्टने निर्विकृतिकादिकः षण्मासावसानस्तपोविशेषो दीयते छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा, एतत्तपोलक्षणं प्रायश्चित्तमिति ६। तथा तपसा दुर्दमस्य-विशोधयितुमशक्यस्य मुनेः क्रियते पर्यायव्यवच्छेदः
146