SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ८५२ एकविंशतिः शबलाः स्थानं वा नैषेधिकं वा चेतयन् कायोत्सर्ग स्वाध्यायभूमि वा कुर्वन्नित्यर्थः, १५ एवमाकुट्ट्या सस्निग्धसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, कोला-घुणाः तेषामावासः १६ अन्यस्मिंश्च तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७ आकुट्ट्या मूलकन्दादि भुञ्जानः १८ अन्तः संवत्सरस्य दशोदकलेपान् कुर्वन् १९ तथाऽन्तः संवत्सरस्य दश मायास्थानानि च २० तथा अभीक्ष्णं-पौनःपुन्येन शीतोदकलक्षणं यद्विकट-जलं तेन व्यापारितो-व्याप्तो यः पाणिः हस्तः स तथा तेनाशनं प्रगृह्य भुञ्जानः शबलः इत्येकविंशतितमः २१ ।' श्रमणप्रतिक्रमणसूत्रवृत्तौ त्वेते एव शबलाः प्रकारान्तरेण प्रतिपादिताः, तथाहि - 'एकविंशतिभिः शबलैः शबलं चित्रलं शबलचारित्रनिमित्तत्वात् करकादयः क्रियाविशेषाः शबला भण्यन्ते । तथाचोक्तं - 'अवराहमि पयणुए जेण उ मूलं न वच्चई साहू । सबलित्ति तं चरित्तं तम्हा सबलेत्ति णं बिन्ति ॥१॥' (छाया- अपराधे प्रतनुके येन तु मूलं न व्रजति साधुः । शबलयति स चारित्रं तस्मात् शबलमिति तं ब्रुवन्ति ॥१॥) तानि च शबलस्थानानि हस्तकादीनि - 'तं जह उ हत्थकम्मं कुव्वंते १ मेहुणं च सेवंते २।। राइं च भुंजमाणे ३ आहाकम्मं च भुंजन्ते ४ ॥१॥ तत्तो य रायपिण्डं ५ कीयं ६ पामिच्च ७ मभिहडं ८ छेज्ज ९ । भुंजते सबले उ पच्चक्खियभिक्ख भुञ्जइ य १० ॥२॥ छम्मासब्भन्तरओ गणा गणं सङ्कम करेंते य ११ । मासब्भन्तर तिन्नि य दगलेवाओ करेमाणे ॥३॥ मासब्भन्तरऊ वा माइट्ठाणाइ तिन्नि कुणमाणे १२ । पाणाइवायट्टि कुव्वंते १३, मुसं वयंते य १४ ॥४॥ गिण्हते य अदिन्नं आउट्टि १५ तहा अणन्तरहियाए । पुढवीए ठाणसेज्जं णिसीहियं वावि चेएइ १६ ॥५॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy