________________
प्रशस्तिः
त्रिसप्ततितमे पट्टे, महावीरजिनेशितुः । अभवन् श्रीतपागच्छे, विजयानन्दसूरयः ॥१॥ तच्छिष्या अभवन्श्रीमत्-कमलाभिधसूरयः । कमलमिव निर्लेपाः, विषयेभ्यश्च संसृतेः ॥२॥ कर्मविदारणे वीरा, वीरविजयवाचकाः । शिष्या आनन्दसूरीणां, जाता वैराग्यवासिताः ॥३॥ ज्योतिःशास्त्रस्य निष्णाताः, धर्मदानपरायणाः । तच्छिष्याः दानसूरीशाः, सञ्जाता गुणभूषिताः ॥४॥ विजयप्रेमसूरीशा, अभवन्प्रेमनिर्भराः । तत्पट्टाम्बरभास्वन्तः, विशुद्धब्रह्मचारिणः ॥५॥ भुवनभानुसूरीशा, तच्चरणाब्जषट्पदाः । शिबिराद्यप्रणेतारः, जाता न्यायविशारदाः ॥६॥ पद्मविजयपन्यास-वराः समतासागराः । समजायन्त तच्छिष्याः, तदीयलघुबान्धवाः ॥७॥ श्रीजयघोषसूरीशा, गच्छं सम्प्रति बिभ्रति । भुवनभानुसूरीश-शिष्याः सिद्धान्तभास्कराः ॥८॥ . श्रीहेमचन्द्रसूरीशाः, तदीयाज्ञानुसारिणः । पद्मविजयसच्छिष्याः, प्रभावयन्ति शासनम् ॥९॥ तदीयशिष्यलेशेन, मुनिना रत्नबोधिना । एतस्य कुलकस्यैषा, वृत्तिर्दृब्धा सुबोधदा ॥१०॥