________________
दशविधा एषणादोषाः
८१३ खण्डादिकणादियुतं उन्मिश्रं परिणतं न यत् प्रासुकम् । मध्वादिविलिप्तेन करादिना ददाति तद् लिप्तम् ॥९६।। छर्दयता च दत्तं छतिमिति भवन्ति दोषा द्विचत्वारिंशत् ।
गृहियतिउभयप्रभवा उद्गमादयस्तथा क्रमशः ॥९७१) अवचूर्णिः - अथ गवेषणाया दश दोषाः प्ररूप्यन्ते -
दोषाणामाधाकर्मादीनां शङ्कायां पिण्डग्रहणे शङ्कितग्रहणे शङ्कितं स्यात्, अस्य चत्वारो भङ्गाः, तद्यथा - शङ्कितग्रहणं शङ्कितभोगः १ अशङ्कितग्रहणं शङ्कितभोगः २ शङ्कितग्रहणमशङ्कितभोगः ३ निःशङ्कितग्रहणं निःशङ्कितभोगः ४ । अथ म्रक्षितं, म्रक्षितं द्वेधासचित्ताचित्तयोर्मधूदकादिवस्तुनोर्योगात्, संसृष्टं सचित्तम्रक्षितं यत् करादि तत् प्रक्षितमित्यर्थः, तथा त्रसस्थावरेषु स्थापितं अचित्तमपि प्रासुकमपि निक्षिप्तं भवति तत्, तत्र त्रसा द्वीन्द्रियादयः स्थावरा एकेन्द्रियादयः तैर्युक्ते अचित्तेऽपि ॥१२॥
अथ पिहिताख्यं दूषणं निरूपयति -
तत्र सचित्ताचित्ताभ्यां स्थगितं-आच्छादितं, एतच्चतुर्भङ्ग, तद्यथा-सचित्तेन सचित्तं पिहितं १ अचित्तेन सचित्तं २ सचित्तेन अचित्तं ३ अचित्तेन अचित्तमिति ४, तत्र भङ्गत्रयमशुद्धं, चतुर्थे भने गुरुलघुरूपाश्चत्वारो भङ्गास्तेऽपि पिण्डविशुद्धेर्जेयाः, ग्रन्थगौरवभयान्नेह लिखिताः, अथ संहृताख्यदोषमाह-तत् संहृताख्यं यत् पृथ्वीकायादौ भाजने अयोग्यं दानानुचितं मृत्तिकाजलतुषादि दातुमनभिप्रेतं वा करोटिकादेर्भाजनादपरेण रिक्तीकृतमातृकेणैव ददाति-देयं वस्तु साधुभ्यो यच्छति, गृहस्थ इति शेषः ॥९३॥
अथ दायकाख्यदूषणं गाथायुग्मेन निरूपयति -
तत्र यदि दातर्गतमेवंविधेन वक्ष्यमाणेन दत्तं तद्दायकाख्यमित्यर्थः, केन ?-निगडितादिना, निगडितो-लोहमयादिपादबन्धनादितः कम्पमानाङ्गः पादुकारूढः-काष्ठादिमयोपानच्चटितः तैः, तथा बालस्थविरान्धपण्डकमत्तकुब्जकखञ्जज्वरितैरपि, तद्यथाबालोऽव्यक्तो वा षष्टिकान्तर्वर्ती, स्थविरो वृद्धः, स च सप्ततेर्वर्षाणामुपरि, अन्धो दृष्टिरहितः, पण्डगो नपुंसको, मत्तो मदिराविह्वलः, कूणिकः-कुब्जः, खञ्जः-चरणरहितः, ज्वरितोरोगवान्, तैः ॥९॥
तथा उदूखलमुशलाभ्यां या सचित्तं श्लक्ष्णयति खण्डीकरोति तया दीयमानं न गृह्यते,