SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशत्तमी षट्त्रिशिका अथैकोनत्रिंशत्तमीं षट्त्रिंशिकामाह मूलम् - अडवीसलद्धिपयडण पडणो लोए तहा पयासंतो । अडविहपभावगत्तं, छत्तीसगुणो गुरू जयउ ॥३०॥ - छाया - अष्टाविंशतिलब्धिप्रकटन-प्रवणो लोके तथा प्रकाशयन् । अष्टविधप्रभावकत्वं, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३०॥ - प्रेमीया वृत्तिः • लोके - जनसमुदाये, अष्टाविंशतिलब्धिप्रकटनप्रवणः अष्टाविंशतिविधानां लब्धीनां - ऋद्धिविशेषाणां प्रकटने-प्रदर्शने प्रवणः निपुण इति अष्टाविंशतिलब्धिप्रकटनप्रवणः, तथा समुच्चये, अष्टविधप्रभावकत्वं - अष्टविधं प्रभावकत्वं, प्रकाशयन् - प्रदर्शयन् इति षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः । भावार्थस्त्वयम् - लब्धिः शुभपरिणामात्तपःप्रभावाच्च जायमान ऋद्धिविशेषः । साऽष्टाविंशतिविधा । तद्यथा १ आमशौषधिलब्धिः, २ विप्रुडौषधिलब्धिः, ३ खेलौषधिलब्धिः, ४ जल्लोषधिलब्धिः, ५ सर्वौषधिलब्धिः, ६ सम्भिन्नश्रोतोलब्धिः, ७ अवधिलब्धिः, ८ ऋजुमतिलब्धि:, ९ विपुलमतिलब्धिः, १० चारणलब्धि:, ११ आशीविषलब्धिः, १२ केवलिलब्धि:, १३ गणधरलब्धिः, १४ पूर्वधरलब्धिः, १५ अर्हल्लब्धिः, १६ चक्रवर्त्तिलब्धिः, १७ बलदेवलब्धिः, १८ वासुदेवलब्धिः, १९ क्षीरमधुसर्पिरास्रवलब्धिः, २० कोष्ठकबुद्धिलब्धिः, २१ पदानुसारिलब्धि:, २२ बीजबुद्धिलब्धिः, २३ तेजोलेश्यालब्धिः, २४ आहारकलब्धिः, २५ शीतलेश्यालब्धिः, २६ वैक्रियदेहलब्धिः, २७ अक्षीणमहानसलब्धिः, २८ पुलाकलब्धिश्च । यदाह प्रवचनसारोद्धारे तद्वृत्तौ च - —
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy