________________
षोडशविधाः कषायाः
४९५ क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसम्पदिति सूत्रार्थः ॥३७॥ अवमने त्विहलोक एवापायमाह -
'कोह' त्ति सूत्रं, क्रोधः प्रीतिं प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मित्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशनः, तत्त्वतस्त्रयाणामपि तद्भावभावित्वादिति सूत्रार्थः ॥३८॥ यत एवमतः -
"उवसमेण'त्ति सूत्रं, उपशमेन शान्तिरूपेण हन्यात् क्रोधम्, उदयनिरोधोदयप्राप्ताफलीकरणेन, एवं मानं मार्दवेन अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन - अशठतया जयेत् उदयनिरोधादिनैव, एवं लोभं संतोषतः निःस्पृहत्वेन जयेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ॥३९॥ क्रोधादीनामेव परलोकापायमाह -
'कोहो 'त्ति सूत्रं, क्रोधश्च मानश्चानिगृहीतौ - उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ च वृद्धि गच्छन्तौ, चत्वार एते क्रोधादयः कृत्स्नाः सम्पूर्णाः कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्य पुनर्जन्मतरोरिति सूत्रार्थः ॥४०॥'
गुरुः षोडशकषायाँस्त्यजति । एवं षट्त्रिंशद्गुणगणकलितो गुरुरजितो भवतु ॥११॥
इति दशमी षट्विशिका समाप्तिमिता ।
कृत्स्नकर्मक्षयान्मोक्षो, जन्ममृत्यादिवर्जितः । सर्वबाधाविनिर्मुक्त, एकान्तसुखसङ्गतः ॥
બધા કર્મોનો ક્ષય થવાથી, જન્મ-મૃત્યુ વગેરે રહિત, બધી બાધા વિનાનો, એકાંત સુખથી યુક્ત એવો મોક્ષ થાય છે. आत्मशुद्धौ गुणा हेतु-र्न दीक्षा नैव काननम् । प्रापाऽऽदार्शगृहस्थोऽपि, केवलं भरतेश्वरः ॥
આત્માની શુદ્ધિ કરવામાં ગુણો કારણ છે, દીક્ષા અને જંગલ કારણ નથી. ભરત ચક્રવર્તી અરિસાઘરમાં રહીને પણ કેવળજ્ઞાન પામ્યા.