SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ४९४ षोडशविधाः कषायाः निवर्तते साऽनन्तानुबन्धिनी मायेत्यर्थः ४। तथा लोभो हरिद्रारागसमानः सज्वलनः, यथा वाससि हरिद्रारागः सूर्यातपस्पर्शादिमात्रादेव निवर्तते तथाऽयमपीत्यर्थः १। कष्टनिवर्तनीयो वस्त्रविलग्नप्रदीपादिखञ्जनसमानः प्रत्याख्यानावरणलोभः २। कष्टतरापनेयो वस्त्रलग्ननिबिडकर्दमसमानोऽप्रत्याख्यानावरणलोभः ३। कृमिरागरक्तपट्टसूत्ररागसमानः कथमप्यपनेतुमशक्योऽनन्तानुबन्धी लोभ ४ इति ॥२०॥' चतुर्णा कषायाणां अपाया हननोपायाश्चैवं प्रतिपादिता दशवैकालिकसूत्रवृत्त्योः - 'कोहं माणं च मायं च, लोभं च पाववड्डणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥३७॥ कोहो पीइं पणासेइ, माणो विणयनासणो। माया मित्ताणि नासेइ, लोभो सव्वविणासणो ॥३८॥ उवसमेण हणे कोहं, माणं मद्दवया जिणे। मायं चज्जवभावेण, लोभं संतोसओ जिणे ॥३९॥ कोहो अमाणो अ अणिग्गहीआ, माया अलोभो अपवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाइं पुणब्भवस्स ॥४०॥ (छाया- क्रोधं मानं च मायां च, लोभं च पापवर्धनम् । वमेत् चतुरो दोषांस्तु, इच्छन् हितमात्मनः ॥३७॥ क्रोधः प्रीतिं प्रणाशयति, मानो विनयनाशनः । माया मित्राणि नाशयति, लोभः सर्वविनाशनः ॥३८॥ उपशमेन हन्यात् क्रोधं, मानं माईवेन जयेत् । मायां चार्जवभावेन, लोभं सन्तोषत: जयेत् ॥३९॥ क्रोधश्च मानश्च अनिगृहीताः, माया च लोभश्च प्रवर्द्धमाना । चत्वार एते कृष्णाः (कृत्स्नाः) कषायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥४०॥) वृत्तिः - तदुपायमाह - 'कोहं' गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्द्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो दोषान् एतानेव
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy