________________
४६५
नवकल्पविहारः
सूत्रार्थस्थिरीकरणं, अतिशयार्थानां भवति उपलम्भः । अतिशयितश्रुतधराणां, प्रलोकने विहरतः ॥२१४५।। निष्क्रमणप्रवेशादिषु, आचार्याणां च बहुप्रकाराणाम् । सामाचारीकुशलः, जायते गणसम्प्रवेशेन ॥२१४६॥ साधूनां सुखविहारः, निरवद्यः यत्र सुलभवृत्तिश्च ।
तत् क्षेत्रं विहरन्, ज्ञास्यति आराधनायोग्यम् ॥२१४७॥) पुष्पमालायां तद्वृत्तौ चाविहारदोषा इत्थं प्रदर्शिताः -
'पडिबंधो लहुयत्तं, न जणुवयारो न देसविन्नाणं ।
नाणाईण अवड्डी, दोसा अविहारपक्खम्मि ॥२०६॥ (छाया- प्रतिबन्धो लघुत्वं, न जनोपकारो न देशविज्ञानम् ।
ज्ञानादीनामवृद्धिः, दोषा अविहारपक्षे ॥२०६॥) वृत्तिः - प्रभूतकालमेकत्रावस्थाने प्रतिबन्धः श्रावकादिषु जायते, निर्गतिका अस्मदेकशरणा एवैते वराका इत्याद्यनादेयवाक्यतादिनिबन्धनं लघुत्वं लोकमध्ये भवति, न चैकत्र तिष्ठतां नानादेशस्थितजनस्य सम्यक्त्वप्राप्त्याद्युपकारः सम्पद्यते, नापि बहुदेशसम्बन्धिभाषासमाचारादीनां विज्ञानं भवति, तदपरिज्ञाने च तदुत्पन्नशिष्यप्रतिबोधानुवृत्त्यादिकं कर्तुं न शक्यते, नानादेशेषु विहरतामपि प्रचुरबहुश्रुतदर्शनेन शिष्यप्राप्त्यादिना च ज्ञानदर्शनचारित्रवृद्धिर्भवति, एकत्रावस्थाने तु तदवृद्धिरेव जायत इत्यादयोऽविहारपक्षे दोषाः, ततः पुष्टावलम्बनमन्तरेण शठतामवलम्ब्य नैकत्रावस्थितिः कार्येति गाथार्थः ॥२०६॥'
गुरुर्नवकल्पविहारं करोति । एवं षट्त्रिंशद्गुणसम्पदाढ्यो गुरुः परमं प्रकर्षं प्राप्नोतु ॥९॥
इत्यष्टमी षट्रिशिका समाप्तिमगमत् ।
धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरिउं ॥
ધીર પુરુષે પણ મારવાનું છે, કાયર પુરુષે પણ અવશ્ય કરવાનું છે. તેથી અવશ્ય મરવાનું હોવાથી ધીરપણામાં મરવું સારું છે.