________________
४५४
नव तत्त्वानि पुण्यपापरहितानां सप्तानां तत्त्वानां स्वरूपमेवं प्रोक्तं तत्त्वार्थाधिगमसूत्रभाष्यवृत्तौ -
'जीवा औपशमिकादिभावान्विताः साकारानाकारप्रत्ययलाञ्छना शब्दादिविषयपरिच्छेदिनोऽतीतानागतवर्तमानेषु समानकर्तृकक्रियाः तत्फलभुजः अमूर्तस्वभावाः । एभिरेव धर्मैवियुता अजीवाः धर्मादयश्चत्वारोऽस्तिकायाः । आसूयते यैर्गृह्यते कर्म त आस्रवाः शुभाशुभकर्मादानहेतव इत्यर्थः । बन्धो नाम तैरास्रवैर्हेतुभिरात्तस्य कर्मण आत्मना सह संयोगः प्रकृत्यादिविशेषितः । तेषामेवास्रवाणां यो निरोधः-स्थगनं गुप्त्यादिभिः स संवरः । कर्मणां तु विपाकात् तपसा वा यः शाटः सा निर्जरा । ज्ञानशमवीर्यदर्शनात्यन्तिकैकान्तिकाबाधनिरुपमसुखात्मन आत्मनः स्वात्मन्यवस्थानं मोक्षः ।...॥१/४॥'
अत्र पुण्यपापयोर्बन्धेऽन्तर्भावान्न भेदेनोपादानं कृतम् । पुण्यं शुभकर्मरूपम् पापमशुभकर्मरूपम् ।
गुरुर्नव तत्त्वानि सम्यग्जानाति ।
ब्रह्मचर्यस्य-अब्रह्मासेवननिवृत्तेः गुप्तयः - परिरक्षणोपाया इति ब्रह्मचर्यगुप्तयः । ता नव। तद्यथा - १ स्त्रीपशुपण्डकविवर्जितवसत्यासेवनं, २ स्त्रीकथात्यागः, ३ स्त्रीनिषद्योपवेशनत्यागः, ४ स्त्र्यङ्गोपाङ्गेक्षणत्यागः, ५ कुड्यन्तरत्यागः, ६ पूर्वक्रीडितास्मरणं, ७ प्रणीताहारत्यागः, ८ अतिमात्राहारत्यागः ९ विभूषात्यागश्च । यदाह आवश्यकनियुक्तिवृत्तौ -
'वसहि कह निसिजिदिय कुटुंतरपुव्वकीलियपणीए ।
अइमायाहारविभूसणा य नव बंभगुत्तीओ ॥ (छाया- वसतिः कथा निषेद्येन्द्रियं कुड्यान्तरं पूर्वक्रीडितं प्रणीतम् ।
अतिमात्राहारः विभूषणा च नव ब्रह्मगुप्तयः ॥) वृत्तिः - ब्रह्मचारिणा तद्गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनीनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं, न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्त्तव्यं, न प्रणीतं भोक्तव्यं,