SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अष्टमी षट्त्रिशिका साम्प्रतमष्टमीं षट्त्रिंशिकामाह मूलम् - नवतत्तण्णू नवबं-भगुत्तिगुत्तो नियाणनवरहिओ । नवकप्पकयविहारो, छत्तीसगुणो गुरू जयउ ॥९॥ छाया - नवतत्त्वज्ञो नवब्रह्म - गुप्तिगुप्तो निदाननवरहितः । नवकल्पकृतविहारः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥९॥ नवतत्त्वज्ञः प्रेमीया वृत्तिः नव तत्त्वानि जानातीति, नवब्रह्मचर्यगुप्तिगुप्तः- नवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तः, निदाननवरहितः - नवभिर्निदानै रहितः, नवकल्पकृतविहारः - नवभिः कल्पैर्विहरतीति, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः । - - भावार्थस्त्वयम् – तत्त्वानि - पदार्थाः, तानि नव, तद्यथा १ जीवः, २ अजीवः, ३ पुण्यं, ४ पापं, ५ आस्रवः, ६ संवरः, ७ निर्जरा, ८ बन्धः ९ मोक्षश्च । यदवाचि नवतत्त्वप्रकरणे - 'जीवा - जीवा पुण्णं, पावा-सव संवरो य निज्जरणा । बंधो मुक्खो यता, नवतत्ता हुंति नायव्वा ॥१॥ चउदस चउदस, बायालीसा बासी य हुंति बायाला । सत्तावन्नं बारस, चउ नव भेया कमेणेसिं ॥२॥ ' (छाया - जीवा अजीवाः पुण्यं, पापमाश्रवः संवरश्च निर्जरणा । बन्धो मोक्षश्च तथा, नवतत्त्वानि भवन्ति ज्ञातव्यानि ॥१॥ चतुदर्श चतुर्दश द्वाचत्वारिंशद् द्व्यशीतिश्च भवन्ति द्वाचत्वारिंशत् । सप्तपञ्चाशद् द्वादश, चत्वारो नव भेदाः क्रमेणैषाम् ॥२॥)
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy