________________
७९१
सप्तदशविधानि मरणानि (छाया- अविरतमरणं बालं मरणं विरतानां पण्डितं ब्रुवते ।
जानीहि बालपण्डितमरणं पुनः देशविरतानाम् ॥२२२॥) वृत्तिः - विरमणं विरतं-हिंसाऽनृतादेरुपरमणं न विद्यते तद् येषां तेऽमी अविरताः तेषां मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दृशां वा मरणमविरतमरणंबालमरणमिति ब्रुवत इति सम्बन्धः, तथा विरतानां सर्वसावधनिवृत्तिमभ्युपगतानां मरणं पण्डितमिति प्रक्रमात्पण्डितमरणम्, "बिंति'त्ति बुवते तीर्थकरगणधरादयः, जानीहि बालपण्डितमरणमिति मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषं द्योतयति, देशात् सर्वविषयापेक्षया स्थूलप्राणिव्यपरोपणादेविरता देशविरतास्तेषामिति गाथार्थः ॥२२२॥
एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयितुमाह -
मणपज्जवोहिनाणी सुअमइनाणी मरंति जे समणा ।
छउमत्थमरणमेयं केवलिमरणं तु केवलिणो ॥२२३॥ (छाया- मनःपर्यवावधिज्ञानिनः श्रुतमतिज्ञानिनः नियन्ते ये श्रमणाः ।
छद्मस्थमरणेतत् केवलिमरणं तु केवलिनः ॥२२३।।) वृत्तिः - मनःपर्यवज्ञानिनोऽवधिज्ञानिनश्च, ज्ञानिशब्दस्य प्रत्येकमभिसम्बन्धात्, श्रुतज्ञानिनो मतिज्ञानिनश्च म्रियन्ते प्राणांस्त्यजन्ति ये श्रमणाः तपस्विनः छादयन्ति छद्मानिज्ञानावरणादीनि तेषु तिष्ठन्तीति छद्मस्थाः तेषां मरणं छद्मस्थमरणमेतत्, इह च प्रथमतो मनःपर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण एव तदुपजायत इति स्वामिकृतप्राधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं स्वधियैव हेतुरभिधेयः, केवलिमरणं तु ये केवलिनः-उत्पन्नकेवलाः सकलकर्मपुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशः प्राग्वदिति गाथार्थः ॥२२३॥ साम्प्रतं वैहायसगृध्रपृष्ठमरणे अभिधातुमाह -
गिद्धाइभक्खणं गिद्धपिट्ठ उब्बंधणाइ वेहासं ।
एए दुन्निवि मरणा कारणजाए अणुण्णाया ॥२२४॥ (छाया- गृध्रादिभक्षणं गृध्रस्पृष्टं उद्बन्धनादि वैहायसम् ।
एते द्वेऽपि मरणे कारणजातेऽनुज्ञाते ॥२२४॥)