________________
७९०
सप्तदशविधानि मरणानि (छाया- एतत् सशल्यमरणं मृत्वा महाभये दुरन्ते ।।
सुचिरं भ्रमन्ति जीवा दीर्घ संसारकान्तारे ॥२२०॥) वृत्तिः - एतद् उक्तस्वरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः, सुब्ब्यत्ययाद्वा एतेन-सशल्यमरणेन मृत्वा त्यक्त्वा प्राणान्, के ?-जीवा इति सम्बन्धः, किम् ?-सुचिरं भ्रमन्ति बहुकालं पर्यटन्ति, क्व ?-संसारः कान्तारमिवातिगहनतया संसारकान्तारः तस्मिन्निति सण्टङ्कः, कीदृशि ?-महद्भयं यस्मिन् तन्महाभयं तस्मिन्, तथा दुःखेनान्त:पर्यन्तो यस्य तदुरन्तं तस्मिन्, तथा दीर्घ अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्त्तव्यमेवेति भाव इति गाथार्थः ॥२२०॥ तद्भवमरणमाह -
मोत्तुं अकम्मभूमगनरतिरिए सुरगणे अ नेइए।
सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥२२१॥ (छाया- मुक्त्वा अकर्मभूमिजनरतिस्श्चः सुरगणांश्च नैरयिकान् ।
शेषाणां जीवानां तद्भवमरणं तु केषाञ्चित् ॥२२१॥) वृत्तिः - मुक्त्वा अपहाय, कान् ?- 'अकम्मभूमगनरतिरिए'त्ति सूत्रत्वात् अकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादिषूत्पन्नतया नरतिर्यञ्चश्च अकर्मभूमिजनरतिर्यञ्चस्तान्, तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा सुरगणांश्च सुरनिकायान्, किमुक्तं भवति ?चतुनिकायवतिनोऽपि देवान्, निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि चशब्दानुवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, शेषाणाम् एतदुद्धरितानां कर्मभूमिजनरतिरश्चां जीवानां प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् भवे वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषख्यापकः, असङ्ख्येयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि नं सर्वेषां, किन्तु केषाञ्चित् तद्भवोत्पादानुरूपमेवायु:कम्र्मोपचिन्वतामिति गाथार्थः ॥२२१॥ अत्रान्तरे प्रत्यन्तरेषु 'मोत्तूण
ओहिमरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते । सम्प्रति बालपण्डितमिश्रमरणस्वरूपमाह -
अविरयमरणं बालं मरणं विरयाण पंडियं बिति । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥२२२॥