SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सप्तदशी षट्विशिका अथ सप्तदशी षट्विशिकामाहमूलम् - चउदगुणठाणनिउणो, चउदसपडिरूवपमुहगुणकलिओ। अट्ठसुहुमोवएसी, छत्तीसगुणो गुरू जयउ ॥१८॥ छाया - चतुर्दशगुणस्थाननिपुणः, चतुर्दशप्रतिरूपप्रमुखगुणकलितः । अष्टसूक्ष्मोपदेशी, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१८॥ प्रेमीया वृत्तिः - चतुर्दशगुणस्थाननिपुणः, चतुर्दशसु गुणस्थानेषु निपुणः, चतुर्दशानां गुणस्थानानां स्वरूपं स्वयं सम्यग्वेत्ति परेभ्यश्च सम्यक्प्रतिपादयतीत्यर्थः, तथा चतुर्दशप्रतिरूपप्रमुखगुणकलित:-चतुर्दशभिः प्रतिरूपादिभिर्गुणैः समलङ्कृतः, तथा अष्टसूक्ष्मोपदेशी - अष्टौ सूक्ष्माणि सुलूपदिशति, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः । ___ भावार्थस्त्वयम् - गुणस्थानानि-शुद्धिप्रकर्षाशुद्ध्यपकर्षकृतज्ञानादिगुणस्वरूपभेदरूपाणि । उक्तञ्च षडशीतिनामचतुर्थकर्मग्रन्थवृत्तौ - 'गुणाः - ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानं-पुनरेतेषां शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः तिष्ठन्ति गुणा अस्मिन्निति कृत्वा, गुणानां स्थानानि गुणस्थानानि-परमपदप्रासादशिखरारोहणसोपानकल्पानि ॥१॥' ___तानि चतुर्दश । तद्यथा - १ मिथ्यादृष्टिगुणस्थानं, २ सास्वादनसम्यग्दृष्टिगुणस्थानं, ३ सम्यग्मिथ्यादृष्टिगुणस्थानं, ४ अविरतसम्यग्दृष्टिगुणस्थानं, ५ देशविरतिगुणस्थानं, ६ प्रमत्तसंयतगुणस्थानं, ७ अप्रमत्तसंयतगुणस्थानं, ८ अपूर्वकरणगुणस्थानं, ९ अनिवृत्तिबादरसम्परायगुणस्थानं, १० सूक्ष्मसम्परायगुणस्थानं, ११ उपशान्तकषायवीतरागच्छद्मस्थगुणस्थानं, १२ क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं, १३ सयोगिकेवलि
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy