________________
६५०
द्वादश भिक्षुप्रतिमाः (छाया- एकत्वभावनां तथा गुर्वादिषु दृष्ट्यादिपरिहारात् ।
भावयति निर्ममत्वः तत्त्वं हृदये कृत्वा ॥१४०२॥ एक: आत्मा सांयोगिकं तु शेषं अस्य प्रायेण ।
दुःखनिमित्तं सर्वं हितश्च मध्यस्थभावः स ॥१४०३।।) बलतुलना तु द्विविधा-शारीरमानसबलभेदात्, तत्र शारीरबलं कायोत्सर्गकरणसामर्थ्य मानसबलं तु धृतिरिति, आह च -
'इह एगत्तसमेओ सारीरं माणसं च दुविहंपि ।
भावइ बलं महप्पा उस्सग्गधिइसरूवं तु ॥१४०६॥' (पञ्चवस्तुकः) (छाया- इह एकत्वसमेतः शारीरं मानसं च द्विविधमपि ।
भावयति बलं महात्मा उत्सर्गधृतिस्वरूपं तु ॥१४०६।।) इदं चाभ्यासाद्भवति, आह च -
"एमेव य देहबलं अभिक्खआसेवणाएँ तं होइ।
लंखगमल्ले उवमा आसकिसोरे व जोगविएत्ति ॥१॥' (छाया- एवमेव च देहबलं अभीक्ष्णमासेवनया तद् भवति ।
लङगमल्लः उपमा अश्वकिशोरः वा योगविदिति ॥१॥) कथं भावितात्मेति ?, आह - सम्यग्-यथाऽऽगमं, अनुज्ञात इत्येतस्य चेदं विशेषणं, तथा गुरुणा-आचार्येण अनुज्ञातः - अनुमतः, अथ गुरुरेव प्रतिपत्ता तदा व्यवस्थापिताचार्येण गच्छेन वेति ॥४॥
गच्छ एव-साधुसमुदायमध्य एव तिष्ठन् निर्मातः-प्रतिमाकल्पपरिकर्मणि आहारादिविषये परिनिष्ठितः, आह च -
'पडिमाकप्पियतुल्लो गच्छे च्चिय कुणइ दुविह परिकम्मं ।
आहारोवहिमाइसु तहेव पडिवज्जए कप्पं ॥१४११॥' (पञ्चवस्तुकः) (छाया- प्रतिमाकल्पिकतुल्यो गच्छे एव करोति द्विविधं परिकर्म ।
आहारोपध्यादिषु तथैव प्रतिपद्यते कल्पम् ॥१४११॥) आहारादिप्रतिकर्म दर्शयिष्यते, प्रतिकर्मपरिमाणं चैवं-आसामाद्यासु सप्तसु या यावत्परिमाणा तस्यास्तत्प्रमाणमेव प्रतिकर्म, तथा वर्षासु नैताः प्रतिपद्यते न च प्रतिकर्म करोति,