________________
६४७
द्वादश भिक्षुप्रतिमाः
प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः ।
ध्यानं उत्सर्गोऽपि चाभ्यन्तरं तपो भवति ॥४८॥) द्वादशभेदभिन्नस्य तपसः स्वरूपं प्रथमषट्विशिकावृत्तौ न्यक्षेण प्रतिपादितमिति तत् ततो ज्ञेयं, नाऽत्र तदर्थं प्रयत्यते ।
गुरुादशविधेषु तप:सु नित्यमुद्युक्तो भवति ।
आगमोक्तविधिना भिक्षणशीलो भिक्षुः-श्रमणः । तस्य प्रतिमा:-अभिग्रहविशेषा इति भिक्षुप्रतिमाः । ता द्वादशविधाः । तद्यथा - १ मासिकी प्रतिमा, २ द्विमासिकी प्रतिमा, ३ त्रिमासिकी प्रतिमा, ४ चतुर्मासिकी प्रतिमा, ५ पञ्चमासिकी प्रतिमा, ६ षण्मासिकी प्रतिमा, ७ सप्तमासिकी प्रतिमा, ८ प्रथमा सप्तरात्रिन्दिना प्रतिमा, ९ द्वितीया सप्तरात्रिन्दिना प्रतिमा, १० तृतीया सप्तरात्रिन्दिना प्रतिमा, ११ अहोरात्रिकी प्रतिमा, १२ एकरात्रिकी प्रतिमा च । यदवाचि पञ्चाशकप्रकरणाष्टादशपञ्चाशके तद्वत्तौ च -
'मासाइ सत्तंता पढमाबिइतइयसत्तराइदिणा ।
अहराइ एगराई भिक्खूपडिमाण बारसगं ॥३॥ (छाया- मासादयः सप्तान्ताः प्रथमद्वितीयतृतीयसप्तरात्रिन्दिनाः ।
अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥३॥) वृत्तिः - 'मासे 'त्यादि, मासादयो-मासप्रभृतयः सप्तान्ताः-सप्तमासावसानाः एकैकमासवृद्ध्या सप्त प्रतिमा भवन्ति, तत्र मासः परिमाणमस्या मासिकी प्रथमा, एवं द्विमासिकी द्वितीया त्रिमासिकी तृतीया यावत्सप्तमासिकी सप्तमी, 'पढमाबिइतइयसत्तराइदिण'त्ति सप्तानामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिदिनानि-रात्रिन्दिवानि यस्यां सा तथा प्रतिमा भवति, तदभिलापश्चैवं-प्रथमसप्तरात्रिन्दिवेत्यादि, एताश्चादितः क्रमेणाष्टमी नवमी दशमी चेति, 'अहराइ'त्ति अहोरात्रं परिमाणमस्या अहोरात्रिकी एकादशी, एका रात्रिर्यस्यां सा एकरात्रिरेकरात्रिकीत्यर्थः द्वादशीत्येवं भिक्षुप्रतिमानामुक्तार्थानां द्वादश परिमाणमस्येति द्वादशकं वृन्दं भवतीति गाथासमासार्थः ॥३॥ यः पुनरेताः प्रतिपद्यते तं गाथात्रयेणाह -
पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो। पडिमाउ भावियप्पा सम्मं गुरुणा अणुण्णाओ ॥४॥