SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ षोडशी षट्रिशिका साम्प्रतं षोडशी षट्त्रिशिकामाह - मूलम् - बारसभेयंमि तवे, भिक्खूपडिमासु भावणासुं च । निच्चं च उज्जमतो, छत्तीसगुणो गुरू जयउ ॥१७॥ छाया - द्वादशभेदे तपसि, भिक्षुप्रतिमासु भावनासु च । नित्यञ्चोद्यच्छन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१७॥ प्रेमीया वृत्तिः - द्वादशभेदे - द्वादशभेदभिन्ने, तपसि - अनशनादिरूपे, भिक्षुप्रतिमासु - श्रमणस्य द्वादशसु प्रतिमासु, भावनासु - द्वादशविधासु भावनासु, चः समुच्चये, नित्यं - सर्वकालं, उद्यच्छन् - उद्यम कुर्वन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति श्लोकसमुदायार्थः । अवयवार्थस्त्वयम् - तपः - इच्छानिरोधरूपम् । तद् द्वादशविधम् । तद्यथा - १ अनशनं, २ ऊनोदरता, ३ वृत्तिसक्षेपः, ४ रसत्यागः, ५ कायक्लेशः ६ संलीनता चेति बाह्यं तपः, ७ प्रायश्चित्तं, ८ विनयः, ९ वैयावृत्त्यं, १० स्वाध्यायः, ११ ध्यानं १२ उत्सर्गश्चेत्याभ्यन्तरं तपः । यदुक्तं दशवैकालिकनियुक्तौ - 'अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥४७॥ पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ। झाणं उस्सग्गोऽवि अ अब्भितरओ तवो होइ ॥४८॥' (छाया- अनशनमूनोदरता वृत्तिसक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥४७॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy