________________
६३८
दशविधं प्रायश्चित्तम् उद्धरणं शल्यस्य, मर्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः ॥१४२१॥
'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झउ लहुंति चिट्ठा वारिज्जइ' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा - परिस्पन्दनादिलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य व्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः ॥१४२२॥
_ 'रोहेइ वणं छठे' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्यं मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषितं 'तत्तियमित्तं'ति तावन्मात्रं छिद्यते, सप्तमे शल्य उद्धृते किं ?-पूतिमांसादीति गाथार्थः ॥१४२३।।
'तहविय अठाये 'ति तथापि च 'अट्ठायमाणे 'त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रष्का रुम्फ)कैवापि क्रियते, तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥१४२४॥
एवं तावद् द्रव्यव्रणस्तच्चिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते -
'मूलुत्तरगुणरूवस्स' गाहा, इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणाःप्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधाःगोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः-सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः ॥१॥ (प्र०)
साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र -
'भिक्खायरियाइ' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव-आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः २, एवं सर्वत्र योज्यं 'बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौ हा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः ॥१४२५॥ __ शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा( मनाक्) गतः अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं भक्तादि