________________
दशविधं प्रायश्चित्तम्
___६३७ मा वेदना तु तत उद्धृत्य गालयन्ति शोणितं चतुर्थे । रुह्यतां लघु इति चेष्टा वार्यते पञ्चमे व्रणिनः ॥१४२२॥ रोहयति व्रणं षष्ठे हितमितभोजी अभुञ्जन् वा । तावन्मानं छिद्यते सप्तमे पूतिमांसादि ॥१४२३॥ तथापि च अतिष्ठति गोनसखादितादि रुम्फका वापि । क्रियते तदङ्गछेदः सास्थिकः शेषरक्षार्थम् ॥१४२४॥ मूलोत्तरगुणरूपस्य तायिनः परमचरणपुरुषस्य । अपराधशल्यप्रभवो भावव्रणो भवति ज्ञातव्यः ॥१॥ (प्र०) भिक्षाचर्यादिः शुध्यति अतिचारः कोऽपि विकटनया तु । द्वितीयो असमितोऽस्मीति कथं सहसा अगुप्तो वा ? ॥१४२५।। शब्दादिकेषु राग द्वेषं च मनाक् गतस्तृतीये । ज्ञात्वा अनेषणीयं भक्तादिविगिञ्चना चतुर्थे ॥१४२६॥ उत्सर्गेणाऽपि शुध्यति अतिचारः कोपि कोपि च तपसा ।
तेनापि अशुध्यमानं छेदविशेषा विशोधयन्ति ॥१४२७॥) वृत्तिः - द्विविधो-द्विप्रकार: 'कायंमि वणो 'त्ति चीयत इति कायः-शरीरमित्यर्थः तस्मिन् व्रण:-क्षतलक्षणः द्वैविध्यं दर्शयति-तस्मादुद्भवोऽस्येति तदुद्भवो-गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य-तदुद्भवस्येति गाथार्थः ॥१४१९॥
यद्यस्य यथोद्धियते-उत्तरपरिकर्म क्रियते द्रव्यवण एव तदेतदभिधित्सुराह - 'तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वग्लग्नं, उद्धृत्य 'अवउज्झति सल्लो 'त्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः, 'सल्लो न मलिज्जइ वणो य' न च मृद्यते व्रणः, अल्पत्वात् शल्यस्येति गाथार्थः ॥१४२०॥
प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं -
'लग्गुद्धियंमि' लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ? अदूरगते शल्य इति योगः, मनाग् दृढलग्न इति भावना, अत्र 'मलिज्जइ परं'ति मृद्यते यदि परं व्रण इति