________________
अधुना चतुर्दशीं षट्त्रिशिकामाह
मूलम् - एगार सड्डपडिमा, बारसवय तेरकिरियठाणे य । सम्मं उवएसंतो, छत्तीसगुणो गुरू जयउ ॥ १५ ॥
छाया
चतुर्दशी षट्त्रिशिका
-
एकादश श्राद्धप्रतिमा, द्वादशव्रतानि त्रयोदशक्रियास्थानानि च । सम्यगुपदिशन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१५॥
प्रेमीया वृत्तिः - एकादश श्राद्धप्रतिमाः - श्रावकाणामेकादश प्रतिमाः, द्वादशव्रतानि श्रावकाणां द्वादश व्रतानि, त्रयोदशक्रियास्थानानि - त्रयोदश क्रियास्थानानि, चः समुच्चये, सम्यग् - सुष्ठु, उपदिशन् - प्रतिपादयन् इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षिप्तार्थः ।
-
विस्तृतार्थस्त्वयम् - श्राद्धाः - श्रावकाः, तेषां प्रतिमाः अभिग्रहविशेषा इति श्राद्धप्रतिमाः । ता एकादश । तद्यथा १ दर्शनप्रतिमा, २ व्रतप्रतिमा, ३ सामायिकप्रतिमा, ४ पौषधप्रतिमा, ५ प्रतिमाप्रतिमा, ६ अब्रह्मवर्जनप्रतिमा, ७ सचित्तवर्जनप्रतिमा, ८ आरम्भवर्जनप्रतिमा, ९ प्रैषवर्जनप्रतिमा, १० उद्दिष्टवर्जनप्रतिमा ११ श्रमणभूतप्रतिमा च । यदवाचि प्रवचनसारोद्धारे तद्वृत्तौ च
-
'इदानीं सड्डपडिमाओ 'त्ति त्रिपञ्चाशदधिकशततमं द्वारमा
-
-
दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ । आरंभ ८ पेस ९ उद्दिट्ठ वज्जए १० समणभूए ११ य ॥९८०॥
जस्संखा जा पडिमा तस्संखा तीऍ हुंति मासावि । कीरंतीसुवि कज्जाउ तासु पुव्वुत्तकिरिया उ ॥९८१ ॥