SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ५३४ दशविधं वैयावृत्त्यं दशविधश्च विनयः नवतरदीक्षिताः शिक्षार्हाः शैक्षाः, ग्लाना-ज्वरादिरोगाक्रान्ताः, साधवः स्थविराः, समनोज्ञाएकसामाचारीसमाचरणपराः, सङ्घः-श्रमणश्रमणीश्रमणोपासकश्रमणोपासिकासमुदायः, बहूनां गच्छानामेकजातीयानां समूहः कुलं-चान्द्रादि, गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः, कुलसमुदायो गणः-कोटिकादिः, एषामेवाचार्यादीनामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिभिर्धर्मसाधनैरुपग्रहशुश्रुषाभेषजक्रियाकान्ताररोगोपसर्गेषु परिपालनमेवमादि वैयावृत्त्यम्।' विनीयतेऽष्टप्रकारं कर्म येनेति विनयः । यदाह पुष्पमालायां तद्वृत्तौ च - 'जम्हा विणयइ कम्म, अट्ठविहं चाउरंतमोक्खाए। तम्हा उ वयंति विऊ, विणओत्ति विलीणसंसारा ॥४०२॥ (छाया- यस्माद् विनयति कर्म, अष्टविधं चातुरन्तमोक्षाय । तस्मात्तु वदन्ति विदः, विनय इति विलीनसंसाराः ॥४०२।।) वृत्तिः - यस्माद्विनयति-स्फेटयति अष्टप्रकारं कर्म तस्माद्विलीनसंसारा:-तीर्थकरगणधरा एनं विनयं वदन्ति, किमर्थं पुनरसौ तत् कर्म विनयतीत्याह-चत्वारोऽन्ता नारकादिगतिलक्षणा यस्यासौ चतुरन्तः संसारस्तस्य मोक्ष:-अपगमस्तदर्थमिति गाथार्थः ॥४०२॥' स विनयो विषयभेदाद् दशधा । तद्यथा १ अर्हतः, २ सिद्धस्य, ३ चैत्यस्य, ४ श्रुतस्य, ५ धर्मस्य, ६ साधुवर्गस्य, ७ आचार्यस्य, ८ उपाध्यायस्य, ९ प्रवचनस्य १० दर्शनस्य च । यदुक्तं हरिभद्रसूरिसूत्रित-सम्यक्त्वसप्ततौ सङ्घतिलकाचार्यविरचिततद्वृत्तौ च - 'तृतीयं विनयद्वारमाह - अरहंत सिद्ध चेइय सुए य धम्मे य साहुवग्गे य। आयरिय उवज्झाए पवयणे दंसणे विणओ ॥१७॥ (छाया- अर्हत्सु सिद्धेषु चैत्येषु श्रुते च धर्मे च साधुवर्गे च । आचार्येषु उपाध्यायेषु प्रवचने दर्शने विनयः ॥१७॥) वृत्तिः - अत्र विभक्तिलोपादर्हत्सु सिद्धेषु चैत्येषु श्रुते धर्मे साधुवगर्गे आचार्येषूपाध्यायेषु प्रवचने दर्शने विनयो दशप्रकारो भवति, चकाराः समुच्चयार्थाः, विनय इति कोऽर्थः ? विनीयतेऽपनीयते विलीयते वा ज्ञानावरणाद्यष्टविधं कर्म येन स विनय इत्या
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy