________________
३९४
चतुर्विधा बुद्धिः विमर्श करोषि, न मम, वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्शे तु यूयमिति । विमृश्यकारिणो वैनयिकी बुद्धिः १ । ६५॥ ____ करिसग'त्ति अत्रोदाहरणं - कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं खातं खातवान्, ततः प्रातरलक्षितस्तस्मिन्नेव गृहे समागत्य जनेभ्यः प्रशंसामाकर्णयति, तत्रैकः कर्षकोऽब्रवीत् - किं नाम शिक्षितस्य दुष्करत्वं ?, यद्येन सदैवाभ्यस्तं कर्म स तत्प्रकर्षप्राप्तं करोति नात्र विस्मयः, ततः स तस्कर एतद्वाक्यममर्षवैश्वानरसन्धुक्षणसममाकर्ण्य जज्वाल कोपेन, ततः पृष्टवान् कमपि पुरुषं - कोऽयं कस्य वा सत्क इति ?, ज्ञात्वा च तमन्यदा क्षुरिकामाकृष्य गतः क्षेत्रे तस्य पार्वे, रे ! मारयामि त्वां सम्प्रति, तेनोक्तं - किमिति ?, सोऽब्रवीत् - त्वया तदानीं न मम खातं प्रशंसितमितिकृत्वा, सोऽब्रवीत्-सत्यमेतत्, यो यस्मिन् कर्मणि सदैवाभ्यासपरः स तद्विषये प्रकर्षवान् भवति, तत्राहमेव दृष्टान्तः, तथाहि - अमून् मुद्गान् हस्तगतान् यदि भणसि तर्हि सर्वानप्यधोमुखान् पातयामि यद्वा ऊर्ध्वमुखान् अथवा पार्श्वस्थितानिति, ततः सोऽधिकतरं विस्मितचेताः प्राह - पातय सर्वानप्यधोमुखानिति, विस्तारितो भूमौ पटः, पातिताः सर्वेऽप्यधोमुखा मुद्गाः, जातो महान् विस्मयश्चौरस्य, प्रशंसितं भूयो भूयस्तस्य कौशलमहो विज्ञानमहो विज्ञानमिति, वदति चोरो - यदि नाधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वामहममारयिष्यमिति । कर्षकस्य चौरस्य च कर्मजा बुद्धिः ॥७०॥
'वइर' त्ति वज्रस्वामिनो बालभावेऽपि वर्तमानस्य मातरमवगणय्य सङ्घबहुमानकरणं सा पारिणामिकी बुद्धिः १५ ॥७३॥'
गुरुश्चतुर्विधाभिर्बुद्धिभिः समृद्धो भवति । एवं षट्त्रिंशद्गुणगणमण्डितो गुरुरजेयो भवतु ॥७॥
इति षष्ठी षट्रिशिका समाप्ता ।
+ सम्मट्ठिी जीवो गच्छइ, नियमा विमाणवासीसु। जइ न विगयसम्मत्तो, अहव न बद्धाउओ पुव्वं ॥
સમ્યગુદષ્ટિ જીવ અવશ્ય વૈમાનિક દેવલોકમાં જાય જો તેનું સમ્યકત્વ જતું ન રહ્યું હોય તો અથવા તેણે પૂર્વે આયુષ્ય બાંધેલું ન હોય તો.