________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
सुस्थितैमिथुनैरित्थं परितः परिवारितः । बभौ त्रिभुवनस्वामी तदानङ्ग इवाङ्गवान् ॥४०५॥ अथैकतः कृतोत्तालतालमानानुगामिभिः । मृदङ्गपणवातोद्यवेणुवीणादिनिःस्वनैः ॥४०६॥ कीर्णकर्णसुधावर्षं यतिमानलयान्वितम् । भावहस्तकदृक्कारी चारुनृत्तमनोहरम् ॥४०७॥ ग्रामरागोज्ज्वलस्फीतगीतप्रीतजगज्जनम् । सङ्गीतकं दृशा तत्र प्रीत्यात्यर्थं कृतार्थयन् ॥४०८॥ अन्यतः प्रमदोद्दामप्रमदाजनचच्चरीः । परतः पौरलोकानामापानकमहोत्सवम् ॥४०९॥ अपरत्रापि लोलाक्षीर्दोलान्दोलनखेलिनी: । पश्यन् प्रमुदितः स्वामी चिन्तयामासिवानिति ॥४१०॥ पञ्च०कुल० ॥ किं कदापि मया क्वापि सुखमीदृक्षमीक्षितम् । ददर्श विमृशन्नेवमवधिज्ञानतः प्रभुः ॥४११॥ आत्मनैवानुभूतं यत्पुरा वैषयिकं सुखम् । अनुत्तरविमानान्तस्त्रिदिवेषूत्तरोत्तरम् ॥४१२॥ युग्मम् ॥ विभुर्विभावयामास स्वभावं भविनां ततः । जानन्तोऽपि हि मोहेन जीयन्ते हन्त जन्तवः ॥४१३॥ यदनन्तभवाभ्यस्तं सुखं विषयसम्भवम् । अपूर्वमिव मन्यन्ते बुभुक्षव इवाशनम् ॥४१४॥ दुःखहेतुषु तत्त्वेन सुखेच्छा विषयेषु या । सापि मोहस्य माहात्म्यं सुधाबुद्धिर्विषेष्विव ॥४१५।। अर्थ्यमानोऽपि नोपैति नोपेतोऽप्यवतिष्ठते । स्थितोऽपि न सुखं दत्ते मत्तेभो विषयव्रजः ॥४१६॥ मलमूत्रादिपात्रेषु गात्रेषु मनुजन्मनाम् । सचेतसामसावस्तु वस्तुतः कैव काम्यता ॥४१७॥ अस्थिखण्डेषु दन्तेषु कुन्दसुन्दरतामतिम् । मलक्षेत्रेषु नेत्रेषु नीलोत्पलदलभ्रमम् ॥४१८॥ श्लेष्मादिदोषवृक्षाणां कानने वनितानने । सुधांशुबुद्धि बध्नन्ति धिगमी मोहमोहिताः ॥४१९॥ युग्मम् ॥ 15 किं चात्र चक्रिशक्राद्यैरप्यनाक्रान्तविक्रमे । नित्यमत्यन्तमुद्युक्ते मृत्यौ स्वैरिणि वैरिणि ॥४२०॥ जरायां रूपसर्वस्वहरायामस्खलद्गतौ । यौवनं वनवद् भस्मीकुर्वत्यां पलितच्छलात् ॥४२१॥ अशेषसुखसन्तानकाननाशनिसन्निभे । विविधव्याधिसम्बन्धे बाधामाधातुमुद्धते ॥४२२॥ विभवे विघ्नसङ्घातघातसम्पातकातरे । उत्पातवातनि तपताकाञ्चलचञ्चले ॥४२३॥ संसारचारकक्षिप्तो महामोहतमोहतः । ध्वस्ताऽऽलोकः कथं लोकः क्रीडारसवशंवदः ॥४२४॥ पञ्चभिः कुल० ॥ 20 ततः संसारकाराऽन्तर्निवासं प्रति सम्प्रति । विरज्य युज्यते मुक्तेरध्वन्यध्वन्यतैव मे ॥४२५॥ तदा पदान्तिकप्राप्तैर्नत्वा लोकान्तिकैः सुरैः । समयज्ञोऽपि कल्पज्ञैर्व्यज्ञप्यत जगत्पतिः ॥४२६।। "राज्यवत् प्रथमं नाथ ! धर्मतीर्थं प्रवर्त्तय । कृतिन् ! कृत्यं जगज्जन्तुहितं स्मर जितस्मरः" ॥४२७॥ इति विज्ञप्य यातेषु तदा तेषु जगत्पतिः । सानन्दो नन्दनोद्यानादासदत् सदने सदः ॥४२८॥ अथाऽऽकार्य तदा हर्षभरतो भरतं सुतम् । समं समेतसामन्तबाहुबल्यादिनन्दनैः ॥४२९॥
25 आदिदेश विभुर्वत्स ! भव राज्यधुरन्धरः । भावयन्तो वयं तोषं ग्रहीष्यामो हि संयमम् ॥४३०॥
१. मुद्यते D । २. 'ततः' इति L | टि. 1. सदः - सभाम् ।