SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ४८० [कर्णिकासमन्विता उपदेशमाला । प्रशस्तिः ।] लोकाग्रोपरि वर्तिनीमभिमुखीं कुर्वीत वीतान्यधीवृत्ति निर्वृतिदेवतां शिवपुरीसाम्राज्यकामः कृती ॥१८॥ तत्त्वोदित्वरसप्तभूमिकमहाप्रासादराजाङ्गणम्, यावद्भाति जगद्गुरोर्भगवतस्तीर्थेशितुः शासनम् । तावच्छ्रावकसाधुधर्मविजयस्तम्भवयालम्बिनी; वृत्तिर्वन्दनमालिका विजयतां तत्रोपदेशस्रजः ॥१९॥ [शार्दूलविक्रीडितवृत्तम्] सेयं पुरे धवलके नृपवीरवीर-मन्त्रीशपुण्यवसतौ वसतौ वसद्भिः । वर्षे ग्रहग्रहरवौ [१२९९] कृतभार्कसङ्ख्यैः [१२२७४] श्लोकैविशेषविवृतिविहिताद्भुतश्रीः ॥२०॥ इत्याचार्यश्रीउदयप्रभदेवसङ्घटितायाम् उपदेशमालायाः कर्णिकायां विशेषवृत्तौ तृतीयः परिवेषः सम्पूर्णः ॥ ग्रन्थाग्रं-३७१४ एतावता च सम्पूर्णा उपदेशमालायाः कर्णिकाख्यविशेषवृत्तिरिति आदितो ग्रन्थाग्रं - १२२७४ सर्वसंख्या ॥ - पुष्पिका :यो राज्यं प्रथमं चकार जलधि कृत्वाऽवधि लीलया, शस्त्रैर्वैरिगणं निहत्य सकलं बाह्यं ततोऽभ्यन्तरम् । मत्वा जेतुमशक्यमेनमधिकैस्तैर्मात्रया साहसी यश्चक्रे वशिनामभूदिह पुरा श्रीनन्नसूरिप्रभुः ॥१॥ [शा०वि०] शुभं भवतु लेखकपाठकयोरनुदिनं भूयात् ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥१॥ लग्नपृष्टिकटिग्रीवा, अधोदृष्टिरधोमुखम् । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥२॥ कल्याणमस्तु ॥ श्रीः ॥ संवत् १४७० वर्षे ज्येष्ठ वदि १० बुधेऽद्येह श्रीस्तम्भतीर्थे महाराजाधिराजमुलतानश्री-अहिम्मदस्यह विजयराज्ये श्रीवृद्धतपापक्षे श्रीजयशेखरसूरिशिष्यश्रीजिनरत्नसूरीणां पठनाय ॥ श्रीरस्तु ॥ १.१२३७४ - A, १२०२७ - KH, १२१६८ - KI टि. 1. तैः शस्त्रैः, किम्भूतैः ? मात्रया अधिकैः = शास्त्रैः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy