SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं अहँ नमः ॥ __ऐं नमः ॥ धरणेन्द्र-पद्मावतीपरिपूजित-सर्ववाञ्छित मोक्षफलप्रदायक-श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ श्रीमद्-आत्म-कमल-वीर-दान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः ॥ आचार्यवर्यश्रीउदयप्रभसूरिविरचितकर्णिकानामकविशेषवृत्तिसमन्विता चरमतीर्थाधिराजश्रीमहावीरप्रभुहस्तदीक्षितश्रीधर्मदासगणिविरचिता ॥ उपदेशमाला ॥ ॐ नमः परमब्रह्मणे ॥ चिदानन्दाय ऋषभस्वामिने भरताय च । श्रीगौतमसुधर्माभ्यां श्रीगी गुरवे नमः ॥ अर्हस्तनोतु भुवनाद्भुतकल्पवृक्षः, श्रेयःफलं निबिडबोधसुमप्रसूतम् । यस्यांऽह्रिपीठमभितः पतितप्रेसूनपुञ्जायते त्रिजगतामपि राजलक्ष्मीः ॥१॥ [वसन्ततिलकावृत्तम्] देवः स वः शतमखप्रमुखामरौघ-क्लुप्तप्रथः प्रथमतीर्थपतिः पुनातु । मुक्तिक्रमो न किल केवल एव लोके, भुक्तिक्रमोऽपि यदुपक्रममेव भाति ॥२॥ [वसन्ततिलकावृत्तम्] 10 चिन्तातीतफलप्रदः स दिशतु श्रेयो युगादिप्रभु-भैंजुर्जन्मनि यस्य कल्पतरवः सर्वेऽप्युपादानताम् । नेत्थंचेत्कथमन्यथावसुमतीमस्मिन्नलकति,त्रैलोक्यैकगुरौनगोचरममीजग्मुर्जगच्चक्षुषाम्॥३॥[शा०] तुङ्गेभभीममसितीव्रतरेण कर्मवातं व्रतेन विनिपाद्य भवाटवीषु । मुक्तावलिश्रियमशिश्रियदात्मना यः, श्रेयःश्रियामतनुतां तनुतां स वीरः ॥४॥[वसन्ततिलकावृत्तम् ] लीलासञ्चरणं च नूपुररणत्कारश्रियं च स्वयं, बोद्ध साधु निषेव्यते कविकुलोत्तंसेन हंसेन या। 15 किञ्जल्कग्रसनप्रसक्तमनसस्तस्यैव हेतोः करे, कुर्वाणा कमलं सतां भवतु सा ब्राह्मी परब्रह्मणे॥५॥[शा०] जीयाद् विजयसेनस्य प्रभोः प्रातिभदर्पणः । प्रतिबिम्बितमात्मानं यत्र पश्यति भारती ॥६॥ १. मूलम० K, L, C । २. प्रसूनप्रायाः सुरासुरनराधिपसम्पदोऽपि L, K | ३. क्लृप्तः प्रथ: ।। ४. ०मेष K, L, KH, BI ५. ०मश्रिय H, KH | ६. ०दात्मनो KH | ७. खगकुलोतंसेन H, B, KHI टि. * अयं श्लोक: KH, B, A प्रतिषु । 1. विस्तारितकीर्तिः । 2. मुक्तानाम् सिद्धानां या आवलिः तस्यां श्री: ताम् । 3. प्रतिभा अण् स्वार्थे, प्रातिभ एव दर्पणः । -
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy