________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - २७८-२८३ ]
देवाण देवलोए, जं सोक्खं तं नरो सुभणिओ वि ।
न भणइ वाससएण वि, जस्स वि जीहासयं होज्जा ॥ २७८ ॥
देवानां देवलोके यत् सौख्यं तत् नरः सुभणितोऽपि वाग्म्यपि, न भणति वर्षशतेनाऽपि यस्याऽपि जिह्वाशतं भवेदपरिमेयत्वात्तस्येति ॥२७८॥ नरकेषु व्यतिरेकमाह
नरएसु जाई अइकक्खडाई दुक्खाइं परमतिक्खाई । को वन्नेही ताई ?, जीवंतो वासकोडी वि ॥ २७९॥
नरकेषु यानि अतिकर्कशानि शरीरापेक्षया परुषाणि, दुःखानि परमतीक्ष्णानि चित्तापेक्षया तीव्राणि, को वर्णयिष्यति तानि जीवन् वर्षकोटीमपि तेषामसङ्ख्येयत्वाद् वाचां च क्रमवर्त्तित्वादिति ॥२७९॥ तथापि दिग्मात्रमाह
कक्खडदाहं सामलि - असिवण- वेयरणि-पहरणसएहिं । जा जायणाउ पाविंति नारया तं अहम्मफलं ॥२८० ॥
कर्कशदाहं तीव्राग्निना, शाल्मली - असिवन - वैतरणी-प्रहरणशतैर्हेतुभिर्या यातनाः पीडाः प्राप्नुवन्ति । नारका नरकेषु जाता जन्तवः । तत् अधर्मफलं पापकार्यमिति ॥ २८०॥ संसारे चान्यत्र न सुखमस्तीत्याह
तिरिया कसंकुसारा-निवायवहबंधमारणसयाइं ।
न वि इह पाविता, परत्थ जइ नियमिता हुंता ॥ २८९ ॥
४०३
आजीवसंकिलेसो, सुक्खं तुच्छं उवद्दवा बहुया ।
नीजण सणा विय, अणिट्ठवासो य माणुस्से ॥ २८२॥
चारगनिरोहवहबंध - रोगधणहरणमरणवसणाई । मणसंतावो अयसो, विग्गोवणा य माणुस्से ॥ २८३॥
5
तिर्यञ्चः कशा—लता, अङ्कुशः – सृणिः, आरा – प्राजनकान्तर्वर्त्तिनी, तासां निपातो, वधो-लगुडादिभिः, बन्धो–रज्ज्वादिभिः, मारणं - प्राणच्यावनं तेषां द्वन्द्वे कशाङ्कुशारानिपातवधबन्धमारणानां शतानि । नैव इह प्राप्स्यन् परत्राऽन्यजन्मनि यदि नियमिता विरतिभाजनं धर्मवन्तोऽभविष्यन् तेषां पापफलत्वादिति ॥ २८१ ॥ 20
मर्त्यभवस्वरूपमाह—
१. वाचं च - C वाचमक्रम.... A ।
10
15
आजीवं प्राणधारणं यावत् सङ्क्लेशश्चित्तविबाधेति समासः । सौख्यं वैषयिकं तुच्छं स्वल्पं निसारं च, उपद्रवा बाह्या आभ्यन्तराश्च बहवः । नीचजनशिष्टनापि च नीचजनात् प्राकृतलोकात् शिष्टना - आक्रोशनं 25 चेत्यर्थः । अनिष्टवासश्चानभिप्रेतस्थाने कुतश्चिद्धेतोर्वासश्च, मानुष्ये मनुष्यभवे सम्भवन्तीति ॥२८२॥
किञ्च