________________
२६७
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५०] तदैव दैवतो जातस्तस्य जातरदः सुतः । तं जातमात्रमानिन्ये मुनीनां नमनाय सः ॥३॥ आक्रान्तनिखिलक्षोणिकान्तमुद्घान्तपौरुषम् । मुनयो भाविनं भूपं तमाख्यद्दन्तलक्षणैः ॥४॥ अयं भूपत्वलाभेन मा भून्नरकभागिति । ग्राव्णाऽघर्षच्छिशोर्दन्तान् पीडामगणयंश्चणी ॥५॥ पात्रान्तरितराज्यश्रीरयं पालयिता भुवम् । ख्यातं मुनिवरैरेभिरदश्च रदघर्षणात् ॥६॥ सूनोश्चाणक्य इत्यस्य नाम व्यरचयच्चणीः । श्रावकः सोऽप्यभूद्भरिविद्यानद्यालिसागरः ॥७॥ स कुलीनस्य विप्रस्य कन्यामेकामुपायत । कदाचिद् भ्रातुरुद्वाहे पितृगेहं ययौ च सा ॥८॥ भूरिभूषणभाराभिस्त्रपुकुण्डलमण्डना । स्वसृभिः श्रीमदूढाभिरगूढं हस्यते स्म सा ॥९॥ लीना विवाहनिर्वाहं यावदावासकोणके । तस्थौ निरुपमानं साऽपमानं दधती हृदि ॥१०॥ गताऽथ श्वशुरावासं निश्वासं बिभ्रती बहुम् । रुदती सेयमेकान्ते कान्तेनेति न्यगद्यत ॥११॥ करोषि रोषिता केन वदनं तन्वि ! नन्विदम् । इदानीमिन्दुना तुल्यं दृग्जलैः सज्जकज्जलैः ॥१२॥ 10 जल्पसङ्कल्पितो येनापमानस्तव मानिनि ! । विश्राम्यामि प्रिये ! तस्य प्राणेषूपक्रमश्रमात् ॥१३॥ श्रीभाजि स्वसृलोकेऽहं दारिद्रयेणाऽपमानिता । तस्य प्राणेषु विश्राम्य यदि विश्राम्यसि प्रिय ! ॥१४॥ इत्युक्ते कान्तया जातवित्तार्जनमनोरथः । स ययौ पाटलीपुत्रं नन्दभूपालपालितम् ॥१५॥ दत्ते दानं सदानन्दो नन्दो विप्रकुलेऽतुलम् । इति विज्ञाय राज्ञः स प्रविवेश निकेतनम् ॥१६॥ तत्राऽऽसनेषु दत्तेषु स स्थितः प्रथमासने । सदा भद्रासनं नन्द एवाऽलङ्कुरुते स्म यत् ॥१७॥ 15 इहैतः सह नन्देन तदोचे नन्दनन्दनः । नृपस्य श्रियमाक्रम्य न्यषीदत् क इह द्विजः ॥१८॥ ऊचे काचन चाणक्यं साम्नाऽथ नृपदासिका । भोः ! प्रसीद निषीदास्मिन् द्वितीयस्मिन् द्विजासने ॥१९।। स्थास्यतीह मदीयोऽसौ कमण्डलुरिति ब्रुवन् । न्यधात् कमण्डलुं सोऽत्र नामुञ्चत् प्राच्यमासनम् ॥२०॥ इत्थं तृतीये दण्डं च तुरीये जपमालिकाम् । उत्थाप्यमानः सोऽमुञ्चद् ब्रह्मसूत्रं च पञ्चमे ॥२१॥ ऊचेऽथ चेटी धृष्टोऽयमहो नोझेन्नृपासनम् । विशेष एष पीठानि शेषाण्यपि रुणद्धि यत् ॥२२॥ 20 शक्यः कारयितुं किञ्चिन्न साम्ना कथमप्यसौ । व्यालशुण्डालवद्दण्डसाध्यो हा दुष्टधीद्विजः ॥२३।। एवं विचार्य चाणक्यश्चरणेनाहतस्तया । उत्तस्थौ कोपशोणाक्षो दण्डदून इवोरगः ॥२४॥ नन्दमुत्कन्दयिष्यामि सपुत्रपशुबान्धवम् । इति प्रतिज्ञां चाणक्यश्चक्रे लोकस्य पश्यतः ॥२५॥ नगरान्निर्जगामाऽथ दवानल इव ज्वलन् । त्रस्यल्लोकविमुक्ताध्वा कोपचण्डश्चणिप्रसूः ॥२६॥ पात्रान्तरधरित्रीशो भविष्यामीति स स्मरन् । सम्भ्रमी बम्भ्रमीति स्म पश्यन् राज्योचितं नरम् ॥२७॥ 25 पदे पदेऽपमानं स स्मारं स्मारं रुषा ज्वलन् । अल्पीचक्रे भुवं गच्छन् ग्रामाद् ग्रामं पुरात्पुरम् ॥२८॥ अवात्सुनन्दभूमीन्दोर्यत्र बहिणपोषकाः । तं ग्राममेष भिक्षायै प्रवाड्वेषोऽन्यदाऽविशत् ॥२९॥
१. क्रमात् - KH । २. पृथग् भूपति - AI टि. 1. क्षोणिकान्तः - भूपः, आक्रान्ताः निखिलाः क्षोणिकान्ता: येन सः, तम् । 2. दुष्टहस्ती इव ।