________________
२०६
[कर्णिकासमन्विता उपदेशमाला । गाथा-८७] स्थालं समर्प्य बालस्य सखण्डघृतपायसम् । केनाऽपि हेतुनाऽयासीत् प्रतिवेशिगृहाय सा ॥८३॥ तदैव दैवतः कश्चिन्मुनिर्मासमुपोषितः । प्राप्तः पारयितुं तत्र बालं तारयितुं च तम् ॥८४॥ स दध्यौ साध्वभूत् साधुर्भाग्यैरागाद् गृहं मम । दरिद्रस्येव कल्पद्रुरन्धस्येव सुधाञ्जनम् ॥८५।। अहो ! पात्रमहो ! वित्तमहो ! चित्तमिदं त्रयम् । दुर्लभं मन्दभाग्यानां ममोद्भूतमहो अहम् ॥८६॥ इति प्रफुल्लपुलकः स्थालमुत्पाट्य हृष्टहृत् । स ददौ पायसं साधुरग्रहीत्तदनुग्रही ॥८७॥ गतश्च स यतिर्धन्या सम्प्राप्ता च गृहान्तरात् । ददौ भुक्तमनेनेति पुनः पुत्राय पायसम् ।।८८॥ . बुभुक्षया स बुभुजे तदाऽऽकण्ठमकुण्ठया । रजन्यां तदजीर्णेन स्मृतसाधुर्मृतः सुधीः ॥८९।। स तद्दानप्रभावेन शालिभद्रो भवानभूत् । सा ते मातेह वीक्ष्य त्वां वात्सल्यात् प्रत्यलाभयत् ॥१०॥
दनाऽथ पारणं कृत्वा नाथमापृच्छ्य सात्त्विको । शालिभद्रश्च धन्यश्च गतौ वैभारभूभृतम् ॥११॥ 10 प्रत्युपेक्ष्य ततस्तत्र सुपवित्रे शिलातले । ताभ्यामनशनं भेजे पादपोपगमाभिधम् ॥९२॥
एत्य भद्राऽथ तीर्थेशं नत्वाऽपृच्छन्मुनी क्व नु । तौ शालिभद्रधन्यौ किं भिक्षार्थमपि नाऽऽगतौ ॥१३॥ तद्वृत्ते प्रभुणोक्तेऽथ दु:खं मनसि बिभ्रती । वैभाराद्रिं ययौ भद्रा श्रेणिकश्चावनीविभुः ॥१४॥ वीक्ष्य शैलशिलामूनि तदुत्कीर्णाविवाऽथ तौ । भद्रा रुरोद सुतरां रोदयन्त्युपलानपि ॥१५॥ स्वमप्यस्वमिवावासं प्राप्तोऽपि स्वल्पभाग्यया । मयाद्य वत्स ! न ज्ञातः प्रमादेन क्षमस्व तत् ॥१६॥ मुक्तामपि कदाप्येष दृष्टो मां प्रीणयिष्यति । एषोऽपि भक्तुमारब्धस्त्वया मेऽद्य मनोरथः ॥९७॥ वीर ! निर्वाहयारब्धं किन्त्वेवं पृच्छ्यसेऽधुना । त्वं तल्पतूलिकाशायिन् ! शिलातल्पे कथं स्थितः ? ॥१८॥ इत्या" तां नृपः स्माह मूढे ! हर्षेऽपि रोदिषि । ईदृक्चरित्रो यत्पुत्रः सैषा त्वं स्त्रीषु देवता ॥१९॥ इत्यादिवादिना राजगृहेन्द्रेण प्रबोधिता । नत्वा यती ययौ सद्म भद्राऽपि श्रेणिकोऽपि च ॥१०॥ शुद्धध्यानेन सिद्धिं तौ यान्तौ प्रस्खल्य मृत्युना । नीतौ सर्वार्थसिद्धाख्ये विमानेऽथ महामुनी ॥१०१॥
इति शालिभद्रकथानकम् ॥ अथ गाथार्थः-मणय उत्तमग्रावभेदा वज्रादयः, कनकं स्वर्ण, रत्नानि चर्मकम्बलादीनि, धनं चतुष्पदादिस्वापतेयं तैः पूरिते भवने गृहे, शालिभद्रोऽपि एवंविधविषयसामग्रीसम्पूर्णोऽपि मनागपि दुःखाभावादसम्भाव्यवैराग्य इत्यपिशब्दार्थः । अन्यः किल ममापि स्वामिक इति हेतोर्जातो विगतकामो विषयान् प्रति निरभिलाषो बभूवेति ॥८५॥ 25 इत्थं च चेतसि चिन्तितवान्–न कुर्वन्ति ये तपोऽनशनादिकं, संयमं च पृथिव्यादिरक्षणात्मकं, ते
पुरुषास्तुल्यपाणिपादानां समपुरुषाणां दृश्यैरवयवैर्निविशेषाणाम् अवश्यं निश्चितं प्रेष्यत्वमुपयान्ति किङ्करत्वं प्राप्नुवन्तीति ॥८६॥
१. महात्रयं - KH | २. कंठया - P| ३. वाच्छल्यात् - P| ४. दृष्टौ - P। ५.सैका: P, KH | सैकास्त्वं स्त्रीश्च K, DI टि. 1. शिलायां उत्कीरें इवेत्यर्थः । 2. स्वापतेयं-वित्तं, धनं इति यावत् ।
15
20