________________
२०४
[कर्णिकासमन्विता उपदेशमाला । गाथा-८७] अतः परं परायत्तवृत्ते गैरलं मम । ग्रहीष्ये चरणं चारु श्रीवीरचरणान्तिके ॥३२॥ इति संवेगभङ्गीभिस्तुङ्गीकृतमना अपि । स मातुरुपरोधेनाऽऽगत्य राजानमानमत् ॥३३॥ आलिङ्ग्य भूभुजाऽङ्गेनोत्सङ्गेऽथ सुतवद्धृतः । घ्रातश्च मूनि सोऽश्रूणि कूणिताऽऽस्योऽमुचत् क्षणात् ॥३४॥ भद्राऽथ भूपमूचेऽस्य देवभूयं गतः पिता । नित्यं दत्ते सभार्यस्य दिव्यमङ्गस्य मण्डनम् ॥३५॥ तन्मनुष्योचितैर्गन्धवासवासःस्रगादिभिः । दूयतेऽसौ मनुष्योऽपि सुतस्तन्मुच्यतां द्रुतम् ॥३६॥ तादृक्षदुःखदेनाऽथ कर्मणेव महीभुजा । विमुक्तः सप्तमीभूमिमूर्ध्वं मुक्तिमिवागमत् ॥३७॥ स्थापितो भद्रया भोक्तुमुपरोधान्नृपस्ततः । सस्नौ स्नानीयपानीयस्नेहचूर्णैरयं रयात् ॥३८॥ स्नातः पपात स्नानाम्बुवाप्यां राज्ञोऽङ्गुलीयकम् । विलोललोचनोऽसौ तद् व्यलोकयदितस्ततः ॥३९॥
भद्राऽऽदेशादथो दास्या क्षिप्ते वाप्या जलेऽन्यतः । तदिङ्गालवदालोकि दीप्ताऽऽभरणमध्यगम् ॥४०॥ 10 किमेतदिति राज्ञाऽथ दासी पृष्टाऽभ्यधादिह । नित्यं मण्डनं निर्माल्यमस्मदीशस्य दृश्यते ॥४१॥
विस्मितः सपरीवारो भूमिभुग् बुभुजे ततः । अर्चितश्चित्रचीरालङ्करणैरालयं ययौ ॥४२॥ इच्छतेऽथ भवाम्भोधेः क्षोभं गोभद्रसूनवे । धर्मघोषमुनि धर्मसुहृदाऽऽगतमाख्यत ॥४३॥ रयादथ रथारूढो गूढोदूढव्रतग्रहः । गत्वा ननाम तं नाम चतुर्ज्ञानमसौ मुनिम् ॥४४॥ कथमन्यो न नाथ: स्यादित्थं पृष्टोऽमुना मुनिः । जगौ ये गृह्णते दीक्षां ते स्युर्विश्वत्रयेश्वराः ॥४५॥ तर्हि मातरमापृच्छ्य ग्रहीष्यामि व्रतं द्रुतम् । इत्युदित्वा मुनि नत्वा शालिभद्रोऽगमद् गृहम् ॥४६॥ नत्वाऽथ सोऽभ्यधाद् भद्रां मातः ! पातकघातकः । धर्मः श्रीधर्मघोषस्य मुखादद्य मया श्रुतः ॥४७॥ भद्राऽभ्यधाद् व्यधाः साधु वत्स ! तस्य पितुः सुतः । क्रीडत्यङ्केषु पङ्कस्य सिंहपोतः कदापि किम् ॥४८॥ स बभाषेऽम्ब ! सेवे तद् व्रतं तृष्णाहरं सरः । सुतस्तस्य नृसिंहस्य भीतो भवदवानलात् ॥४९॥
साऽब्रवीद् वीर ! युक्तोऽसौ व्रतारम्भः परं तव । सुखैकलालितः कष्टं नेह देहः सहिष्यते ॥५०॥ 20 स बभाषे भवन्त्येव पुमांसः सुखमांसलाः । व्रतकष्टाऽसहा मातः ! कातरा न गुणोत्तराः ॥५१॥
भोगाऽऽबन्धं क्रमान्मुञ्च मर्त्यगन्धं सहस्व तत् । इत्यभ्यासवशाद् ग्राह्यं व्रतं पुत्रत्युवाच सा ॥५२॥ प्रतिपद्येति मात्रोक्तमेकामेकां दिने दिने । प्रियामौज्झद् भवाभोगचूलिकां तूलिकां च सः ॥५३॥ कनिष्ठा शालिभद्रस्य स्वसा धन्याह्वयं प्रियम् । स्नपयन्ती पयो नेत्रप्रसृत्याऽपि तदाऽमुचत् ॥५४॥
किं रोदिषीति कान्तेन सा पृष्टाऽभिदधे यतः । व्रतार्थी नाथ ! मभ्राता भोगानुन्मुञ्चति क्रमात् ॥५५॥ 25 सर्वं विमोक्तुं सहसा यस्योल्लासि न साहसम् । हीनसत्त्वः स ते बन्धुरित्याह स हसन्निमाम् ॥५६॥
१. वृत्तै - L, H, B । २. र्भाग्य - KH । ३. कूणिताख्य... P। ४. दीदृश दृश्यते - P। ५. महामुनि:- KH । ६. चूलिकां - D, PI
टि. 1. संकुचितं आस्यं यस्य स । 2. वर्तमानकर्तरिकृदन्तषष्ठ्येकवचनरूपः। 3. नेत्रप्रसृत्याऽपि पयोऽमुचत्, अरुदत् इत्यर्थः ।