________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-४८]
१५३ इत्युक्त्वाऽनिच्छतोऽप्यस्य श्रावकोऽसौ तपस्विनः । अक्षालयत्पदौ लिप्ताववलिप्तं च मानसम् ॥१५१॥ जलेनोष्णेन तत्पादपादुकाक्षालनं तथा । स चकार यथा तस्थौ लेपलेशोऽपि न क्वचित् ॥१५२॥ प्रतिपत्त्या महत्याऽथ श्रावकस्तमभोजयत् । पादान् ममर्द कार्येण गर्दभस्य जनार्दनः ॥१५३॥ तल्लेपलोपं सम्भाव्य विगोपकभयाकुलः । भुञ्जानो भोजनास्वादमजानान्न स तापसः ॥१५४॥ तापसोऽथ सरित्तीरं ययौ जनितभोजनः । वृतोऽभितो जनैरम्भस्तम्भदर्शनकौतुकात् ॥१५५॥
5 कोऽपि लेपलवोऽद्यापि स्यादिति ध्यानतोऽल्पधीः । प्रागिव प्रविवेशाऽयं सरित्तीरे ममज्ज च ॥१५६।। धिक् केतवेन केनाऽपि सरितं तरताऽमुना । विप्रलब्धा वयं दध्युरित्थं मिथ्यादृशोऽप्यथ ॥१५७।। प्रहासतुमुलोत्ताले दत्तताले जने ततः । अयं तत्राऽऽययौ सूरिः श्रुताकूपारपारगः ॥१५८॥ जने जनयितुं जैनदर्शनस्य प्रभावनाम् । निम्नगायामयं योगमयं माहात्म्यमक्षिपत् ॥१५९॥ प्रयच्छ पुत्रि ! पन्थानं परं तटमटामि ते । इति वाचाऽभ्युवाचाथ नदीमाचार्यपुङ्गवः ॥१६०॥ सखीवत्तटिनीतट्योमिथो मिलितयोस्ततः । ससार सपरीवारः सूरिस्तीरमसौ परम् ॥१६१॥ तं वीक्ष्यातिशयं सर्वे मुक्ता गर्वेण तापसाः । आचार्यपादपर्यन्तमेत्य पर्यव्रजन् मुदा ॥१६२॥ ब्रह्मद्वीपकनामानो ब्रह्मद्वीपाधिवासिनाम् । अन्वये श्रमणास्तेषामभूवन्नागमोदिताः ॥१६३॥ इतोऽपि क्रमतो जज्ञे तत्र वस्त्रिहायणः । साधवो धनगिर्याद्यास्तां महीं व्यहरन्त च ॥१६४॥ प्राप्ते धनगिरौ पुत्रं ग्रहीष्यामीति नित्यधीः । सुनन्दाऽजनि सानन्दा तेष्वायातेषु साधुषु ॥१६५॥ 15 अयाचत महर्षिभ्यः सुनन्दाऽथ स्वनन्दनम् । तेऽप्यमुं नयनानन्दं न ददुर्जगदुस्त्वदः ॥१६६॥ मुनेः ससाक्षिकं दत्तं याचमाना न लज्जसे । विक्रीतस्येव दत्तस्य मितापि स्वामिता कुतः ॥१६७॥ अनालोच्याखिलं गोत्रमज्ञानत्वान्मयार्पितः । न गच्छत्येव वत्सोऽयमित्यूचेऽथ सुनन्दया ॥१६८॥ विवाददक्षयोरेवं पक्षयोरुभयोरपि । लोकोऽभ्यधाद्विधाताऽमुं निर्णयं नयविन्नृपः ॥१६९॥ लोकैः साकं सुनन्दाऽथ मेदिनीन्दोः सदस्यगात् । ययुः समं समस्तेन श्रीसङ्घन च साधवः ॥१७०॥ 20 निषसाद सुनन्दाऽथ वामपक्षेण भूपतेः । दक्षिणेन तु पक्षेण सङ्घभट्टारकोऽखिलः ॥१७१॥ द्वयोर्भाषोत्तरज्ञानादभाषत नृपस्ततः । येनाऽऽहूतः समभ्येति तस्यैवास्तामसौ शिशुः ॥१७२।। तं निर्णयममन्येतामथ पक्षावुभावपि । ऊचतुश्चेदमादौ कः पुत्रमाकारयिष्यति ॥१७३।। स्त्रीपक्षैराचचक्षेऽथ बालोऽयं शमिभिः समम् । चिरसङ्गरसङ्गत्वाद् भविता तगिरि स्थिरः ॥१७४।।
१. सूरिश्चताकू - KH | २. ब्रह्मदीप....- C | ३. र्भाषान्तरज्ञा....- KH |
टि. 1. अम्भसः स्तम्भः जाड्यं अम्भस्तम्भः [धुये धुटि स्वे वा-१/३/४८] इत्यनेन सकारलोपः । 2. अकूपारः सागरः । 3. [२।३।७४] चतुस्त्रे....इत्यनेन नस्य णः । 4. चिरसङ्ग एव रसस्तं गतः प्राप्तः इति चिरसङ्गरसङ्गः तस्य भावः, तस्मात् हेतोः । 5. तेषां गिरायां इत्यर्थः ।