________________
5
10
15
20
25
१३४
[ कणिकासमन्विता उपदेशमाला । गाथा - ३४-३५ ] पुनः पुनानो गतिभिर्जगतीं जगतां गुरुः । कदाचिदेत्य कौशाम्बीमारामे समवासरत् ॥२॥ ततस्तृतीयपौरुष्यां दिवाकरनिशाकरौ । समं स्वस्वविमानाभ्यां जिनेन्दुं नन्तुमीयतुः ॥३॥ तौ विनम्य जिनाधीशं समुपाविशतां पुरः । सुधोर्मिमधुरं पातुः पातुकामौ वचः शुचि ॥४॥ रवेर्विमानतेजोभिः पूरिते परितोऽम्बरे । न कोपि रात्रेः समयं समायान्तमबुध्यत ॥५॥
कालं विचिन्त्य चैतन्याच्चन्दना तु प्रवर्त्तिनी । स्वमाश्रयमगान्नाऽऽगात् दिनभ्रान्त्या मृगावती ॥६॥ तयोश्च गतयोर्नत्वा जिनं दिननिशाकृतोः । अकस्मात्कश्मलीभूतसर्वाशाऽजनि शर्वरी ॥७॥
मत्वा कालविलम्बं तं सत्यशीला मृगावती । स्वमाश्रयं गतवती भीतभीता द्रुतं द्रुतम् ॥८॥
तां वीक्ष्य चन्दनाऽवोचच्चारुशीले ! मृगावति ! । युक्तं नक्तं बहिः स्थातुं किमुज्ज्वलकुले ! तव ? ॥९॥ अचैतन्यादिदं जज्ञे स्खलितं क्षम्यतां मम । इदं वदन्ती पदयोश्चन्दनायाः पपात सा ॥१०॥ तस्यां चरणलग्नायां संवाहनकलाजुषि । आसदच्चन्दना निद्रां तदा संस्तरणस्थिता ॥११॥ कालातिचारदोषेण स्वं निन्दन्ती मृगावती । तदाप केवलज्ञानं घातिकमघघातिनी ॥१२॥ उद्दधार धरापीठे विलुठन्तं मृगावती । तदानीं सुखसुप्तायाश्चन्दनायाः कराम्बुजम् ॥१३॥ प्रबुध्य चन्दनाऽवोचत् किमचालि करो मम । जगौ मृगावती भीमभुजङ्गमभयादिति ॥१४॥ आचष्ट चन्दना दृष्टस्तते ध्वान्ते कथं फणी । दीप्तेन केवलज्ञानदीपेनेति जगाद सा ॥ १५ ॥ केवल्याशातनीं धिग् मामित्यारब्धस्वनिन्दना । चन्दनाऽप्यासदत्सद्यः केवलज्ञानसम्पदम् ॥१६॥ इति मृगावतीकथानकम् ॥
तथा च सूत्रम्
पडिवज्जिऊण दोसे, नियए सम्मं च पायवडियाए । तो कर मिगावईए, उप्पन्नं केवलं नाणं ॥ ३४॥
प्रतिपद्य अनुमन्य दोषान् निजकान् सम्यक्त्रिकरणशुद्धया चशब्दादपुनः करणाङ्गीकारपूर्वं पादपतिताया गुरोरात्मनिवेदनार्थं चरणप्रणतायाः, ततः किलेति परोक्षाप्तोपदेशसूचकः, मृगावत्या उत्पन्नं केवलज्ञानमिति गाथार्थः ॥३४॥ छद्मस्थानामपि कषायजयो गुणायैवेत्याह
किं सक्का वोत्तुं जे, सरागधम्मम्मि कोइ अकसाओ ।
जो धज्ज धणियं, दुव्वयणुज्जालिए स मुणी ॥३५॥
किं सक्क त्ति प्राकृतत्वात् शक्यं; वक्तुं जे त्ति वाक्यार्थकर्मत्ववाचको यदित्यर्थः, तेन यत् सरागधर्मे सकषायसंयमे कोऽप्यकषायोऽविद्यमानकषाय इति यः पुनः कश्चिन्महात्मा धारयेदनुदयोदयप्राप्तवैफल्याभ्यां
१. जैनं - B, A I २. समायात - C ।
टि. 1. उपयोगात् । 2. तते ध्वान्ते - गाढान्धकारे ।