________________
707
इति क्षेत्रलोकः ॥ दिष्टलोकेऽथ कालस्य, युक्तिव्यक्तिर्मतद्धये । ऋतूनां वर्णनं षण्णां, निक्षेपा: कालगोचराः ॥ ५२ ॥ समयावलिकाक्षुल्लभवादिपरिकीर्तनम् । घटीमुहूर्त्तदिवसपक्षमासादिशंसनम् ॥ ५३॥ सूर्यर्तुचन्द्रनक्षत्राभिवर्द्धिताह्वयाः क्रमात् । मासा वर्षाण्यथैतेषामुपपत्त्यादिवर्णनम् ॥ ५४॥ युगस्यादिर्युगे मासळयनानि दिनानि च । अधिमासावमरात्रावृत्तयो विषुवन्ति च ॥ ५५ ॥ करणान्यत्वयनादेनक्षत्रानयनं विधोः । रवेश्च करणान्येषां, बवादिकरणाण्यपि ॥ ५६ ॥ पौरुष्यादिपरीमाणं, तस्मात्तिथ्यादिनिश्चयः । सर्गेऽष्टाविंशतितमे, इत्यादि युगवर्णनम् ॥ ५७ ॥ युगोत्प्रभृत्यब्दशतसहसादिक्रमेण च । शीर्षप्रहेलिकान्तांकस्वरूपप्रतिपादनम् ॥ ५८ ॥ अरत्रयस्याद्यस्यावसर्पिण्यां वर्णनं स्थितेः । कल्पद्रुयुग्मिलोकादेरेकोनत्रिंश आदृतम् ॥ ५९॥ अर्हतां पद्धतिः सर्वा, निर्वाणावधि जन्मतः । उक्ता त्रिंशत्तमे सर्गे, एकत्रिंशे ततः पुनः ॥ ६ ॥ चक्रिदिग्विजय: सम्पन्निधिरत्नादिरस्य च । सामान्यत: शार्डिसीरिप्रतिविष्ण्वादिकीर्तनम् ॥ ६१ ॥ सर्ग द्वात्रिंशित्तमेऽथ, सङ्केपात्प्राग्भवादितः । जिनानां वृषभादीनां, चरित्रस्य निरूपणं ॥ ६२ ॥ एतस्यामवसर्पिण्यां, वर्णनं जातजन्मनाम् । त्रयस्त्रिंशे चक्रिविष्णुबलदेवादिसन्नृणाम् ॥ ६३ ॥ अरस्य पञ्चमस्याथ, स्वरूपेण निरूपणम् । अरेऽस्मिन् पञ्चमे ये, चोदयास्तत्सूरयश्च ये ॥६४॥ तेषां नामानि सर्वाग्रमाचार्यादिमहात्मनाम् । ख्याता ततोऽरके षष्ठे, धर्मोछेदादिका स्थितिः ॥६५॥ गिरेः शत्रुञ्जयस्याथ, वृद्धिहान्यादिशंसनम् । बिलवासिजनावस्थोत्सर्पिण्यां च तथोत्क्रमात् ॥६६॥ षण्णामराणां पर्यायवृद्ध्याख्यानं यथाक्रमम् । एतदुत्सर्पिणीभाविजिनचक्र्यादीकीर्तनम् ॥ ६ ॥ इत्यादिकं चतुर्तिस्त्रशे, सगै सर्वं निरूपितम् । पञ्चत्रिंशेऽथ पुद्गलपरावर्त्तश्चतुर्विधः ॥ ६८॥ औदारिकादिका कार्मणान्ता या वर्गणाऽष्टधा । अनुभागस्पर्द्धकानि, कर्मणां परमाणुषु ॥ ६९ ॥ एषां स्वरूपं मानं चातीतानागतकालयोः । सम्पूर्णो दिष्टलोकोऽयमित्यादिपरिकीर्तने ॥७॥
इति दिष्टलोकः ॥ भावलोकेऽथ भावानां, षण्णां सम्यग्निरूपणम् । सर्गे षट्त्रिंश इत्येवं, भावलोकः समर्थितः ॥ ७१ ॥
इति भावलोकः ॥ एभिर्विचारैर्मणिरत्नसारैः, पूर्ण सुवर्णोद्यदलङ्कृतिश्च ।
समौक्तिकश्रीविबुधादृतोऽयं, ग्रन्थोऽस्तु सिद्ध्य्यै जिनराजकोशः ॥ ७२ ॥ अनाभोगो भूयान्न सदनुभवः शास्त्रविभवो, न सामग्री तादृग् न पटुघना वाक्यरचना । श्रियं सत्यप्येवं यदयमभजद् ग्रन्थनृपतिः, कृती हेतुस्तत्रोल्लसति सुमनः कोविदकृपा ॥७३॥