________________
624
लसबैक्रियलब्धीनां, सहस्राण्यष्ट जज्ञिरे । द्वाभ्यां शताभ्यामधिका, त्रिसहस्री च वादिनाम् ॥ ६१२ ॥ यशोनामाद्यगणभृत्पद्माख्या च प्रवर्तिनी । पुरुषोत्तमो विष्णुश्च, सदा चरणसेवकः ॥ ६१३ ॥ दधत्पद्मखड्गपाशानपसव्ये करत्रये । नकुलं फलकं चाक्षसूत्रं वामकरत्रये ॥ ६१४ ॥ पातालयक्षस्त्रिमुखो, रक्तो मकरवाहनः । षड्भुजः कुरुते प्रीतिमनन्तप्रभुसेविनाम् ॥ ६१५ ॥ आदधाना खड्गपाशी, वामेतरकरदये । वामे करद्वये शश्वद्दधाना फलकाङ्कशौ ॥ ६१६ ॥ पद्मासना गौरवर्णा, देव्यकशा चतुर्भुजा । अनन्तप्रभुभक्तानां, दत्तेऽनन्तां सुखश्रियम् ॥ ६१७ ॥
इत्यनंतजित् ॥ भारते भद्दिलपुरे, धातकीखण्डमण्डने । नृपो दृढरथोऽसौ च, गुरोविमलवाहनात् ॥ ६१८ ॥ आदाय संयमं जज्ञे, विजयेऽनुत्तरे सुरः । द्वात्रिंशदर्णवायुष्कस्ततः शून्याख्यनीति ॥ ६१९ ॥ पुरे रत्नपुरे भानोर्नृपस्य तनयोऽभवत् । सुव्रतायाः कुक्षिरत्नं, धर्मनाथो जिनेश्वरः ॥ ६२० ॥ वैशाख्ने सप्तमी शुक्ला, तृतीया माघजोज्ज्वला । माघे त्रयोदशी शुक्ला, तथा पौषस्य पूर्णिमा ॥ ६२१ ॥ ज्येष्ठस्य पञ्चमी शुक्ला, कल्याणकदिनाः प्रभोः । पुष्यं च पञ्चस्वप्येषु, भं राशि: कर्क एव च ॥ ६२२ ॥ अनन्तस्वामिनिर्वाणाच्चतुर्भिः सागरोपमैः । जातो दशाब्दलक्षोनैः, श्रीधर्मो जगदीश्वरः ॥ ६२३ ॥ शिष्यन्ते स्म तदा तुर्यारकस्याम्भोधयस्त्रयः । पञ्चषष्टिश्चाब्दलक्षा, वेदनागसहस्रकाः ॥ ६२४ ॥ स्वयं धर्मस्वभावत्वाद्गर्भस्थे वा भवद्भिभौ । माताऽतिधार्मिकी तस्माद्धर्मनाथ इति स्मृतः ॥ ६२५ ॥ देहोच्छ्रय: पञ्चचत्वारिंशच्चापमितः स्मृतः । वज्रं च लाञ्छनं वर्षलक्षाणि दश जीवितम् ॥ ६२६ ॥ वर्षलक्षद्वयं सार्द्ध, कुमारत्वे व्रतेऽपि च । राज्ये पुनः प्रभुः पञ्चवर्षलक्षाण्यपूरयत् ॥ ६२७ ॥ शिबिका नागदत्ताख्या, छाग्रस्थ्यं मासयोयम् । धर्मसिंहः सौमनसग्रामेऽदादाद्यपारणाम् ॥ ६२८ ॥ ज्ञानावृक्षश्च निर्दिष्टो, दधिपर्ण इति प्रभोः । द्विचत्वारिंशदादिष्टाः, श्रीजिनस्य गणाधिपाः ॥ ६२९ ॥ चतुःषष्टिः सहस्राणि, संयतानां जिनेशितुः । तथा सहस्रा द्वाषष्टिः, साध्वीनां सचतुःशताः ॥ ६३० ॥ चतुस्सहस्राभ्यधिके, द्वे लक्षे श्राद्धपुङवाः । चतुर्लक्षी श्राविकाणां, सहस्रश्च त्रयोदश ॥ ६३१ ॥ शतानि पञ्चचत्वारिंशत्केवलजुषां विभोः । तावन्त्येव शतान्येवं, मनःपर्यायिणामपि ॥ ६३२ ॥ त्रयोऽवधिज्ञानभाजां, सहस्राः षट्शताधिकाः । वर्यवैक्रियलब्धीनां, सहस्रा: सप्त कीर्तिताः ॥ ६३३ ॥ शतानि नव चोक्तानि, सच्चतुर्दशपूर्विणाम् । वादिनां च सहस्र दे, शतैरष्टभिरन्विते ॥ ६३४ ॥ अरिष्टो मुख्यगणभृत्, शिवार्या च प्रवर्तिनी । विष्णुः पुरुषसिंहश्च, नृपश्चरणसेवकः ॥ ६३५ ॥ बीजपूराभयगदास्त्रिषु दक्षिणपाणिषु । गदापद्माक्षनकुलान्, दधरामेषु च त्रिषु ॥ ६३६ ॥ त्रिमुखः किन्नरो यक्षो, रक्ताङ्गः कूर्मवाहन: । षड्भुजोऽभीष्टमाधत्ते, श्रीधर्मप्रभुसेविनाम् ॥ ६३७ ॥