________________
560
अत्र चैवं प्रकारान्तरेण वासनाद्वयोव्रतयोरूर्खपङ्क्तिस्थापना. अत्र च “यथा स्वमन्त्यं मुक्त्वा तानुपर्युपरि निक्षिपेत्,” इति पूर्वोक्तवचनात् अङ्कक्षेपसंभवो नास्तीति तथैव स्थिता, तथा च एकयोगे द्वौ भङ्गो, द्विकयोगश्चैकः, तत्र द्वयोरेकयोगयोः प्रत्येकं षट् भङ्गा इति द्वादश दिकयोगस्य
षत्रिंशदिति अष्टचत्वारिंशदिति । विवक्षितव्रताळेभ्य, एक न्यूनाङ्कसंख्यया । एवं मुहुः कृते शेषभङ्गसंकलनाऽऽप्यते ॥ ८०४ ॥ व्रतेषु च द्वादशसु, वारानेकादशे तकि । कृते पूर्वोदिता सर्वभङ्गसंकलना स्फुटा ॥८०५॥ त्रिकाल्या गुणने त्वेषां, भङ्गकानां भवन्त्यमी । कोटीशतान्येकचत्वारिंशच्चोपरि कोटयः ॥ ८०६ ॥ द्विपञ्चाशत्तथालक्षणाण्यष्टात्रिंशदथोपरि । एकषष्टिः सहस्राणि, षड्भिर्युक्ता च षट्शती ॥ ८०७ ॥
एवं च वक्ष्यमाणैकविंशतिभङ्गीनवभङ्ग्यैकोनपञ्चाशद्भङ्गीभङ्गकानामपि त्रिकाल्या गुणनं
न्याय्यमेव प्रतीमः, सप्तचत्वारिंशशतभङ्ग्यामेव त्रिकाल्याः प्रविष्टत्वादिति ज्ञेयं । एते व्रतानां भङ्गास्तु, षड्भङ्ग्यैव प्रदर्शिताः । एकविंशत्यादिभिस्तु, भङ्गैः स्युरतिभूरयः ॥ ८०८ ॥ तथाहिएकविंशतिरेकस्मिन्, ये भङ्गास्तान् व्रतद्धये । द्वाविंशतिगुणान् कृत्वा, क्षिप्यतेऽत्रैकविंशतिः ॥ ८०९ ॥ वारानेकादशैवं च, कृते द्रुतमवाप्यते । सर्वसंख्या भङ्गकानां, व्रतेषु द्वादशस्वपि ॥ ८१० ॥ सा चेयं-१२८५५००२६३१०४९२१५ अंकाः सप्तदश. एकव्रतस्य ये भङ्गा, नव ते दशभिर्हताः । नवान्विताश्च सर्वाग्रं, वार एकादशे भवेत् ॥ ८११ ॥ तच्चैदं-९९९९९९९९९९९९ अंकाः द्वादश. एकव्रतस्याथैकोनपञ्चाशद्भङ्गका हि ये । ते पञ्चाशद्गुणा एकोनपञ्चाशद्युता मुहुः ॥ ८१२ ॥ एकादशे वारे सर्वाग्रं चैवं–२४४१४०६२४९९९९९९९९९९९९ अड़ा एकविंशतिः. सप्तचत्वारिंशदाढ्यं, शतमेकव्रतस्य ये । भङ्गकास्तेऽष्टचत्वारिंशदाढ्यशतताडिताः ॥ ८१३ ॥ सप्तचत्वारिंशदाढ्यशतोपेताः कृता मुहुः । भवन्त्येकादशे वारे, सर्वेऽपि व्रतभङ्गकाः ॥ ८१४ ॥
ते चैवं-११०४४३६०७७१९६११५३३३५६९५७६९५ अङ्काः सप्तविंशतिः ।
एतेषु षड्भङ्ग्यादिषु स्थानेषु यथाक्रममागता द्वादशापि राशय उपर्यधोभावेनं व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिमास्तृणन्तीति. एता: पञ्चापि खण्डदेवकुलिका इति व्यपदिश्यन्त इति ज्ञेयं । तत्र षड्भङ्ग्याखण्डदेवकुलिकस्थापना ।
श्रावकपदनिरुक्तं चैवं – अवाप्तदृष्टयादिविशुद्धिसंपत्- परं समाचारमनुप्रभातम् । श्रुणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः॥ श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु