SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ 437 तथाहुः-“गो० ! चत्तारि पञ्च तिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अणुपरियट्टित्ता ततो पच्छा सिज्झिहिति जाव अंतं काहिति” भगवतीसूत्रे श० ९ उ० ३३॥ ग्रन्थान्तरे च यद्यस्यानन्ता अपि भवाः श्रुताः। तदा तदनुसारेण, तथा ज्ञेया विवेकिभिः ॥ ३२१ ॥ जिनं विनाऽन्यः कस्तत्त्वं, निशेतुं क्षमतेऽपरः । ततः प्रमाणमुभयं, श्रीवीराज्ञाऽनुसारिणाम् ॥ ३२२ ॥ सत्यप्येवं पञ्चमाङ्गवचो विलुप्य ये जडाः । एकान्तेन भवानस्यानन्तानिश्चिन्वतेऽधुना ॥ ३२३ ॥ कदाग्रहतमश्छन्ननयनास्ते मुधा स्वयम् । भवैरनन्तैर्युज्यन्ते, परानन्तभवाग्रहात् ॥ ३२४ ॥ एवं च“अनन्तासंख्यसंख्येयानुत्सूत्रभाषिणोऽपिहि । परिणामविशेषेण, भवान् भ्राम्यन्ति संसृतौ” ॥ ३२५ ॥ तथोक्तं महानिशीथद्वितीयाध्ययने-“जे णं तित्थगरादीणं महती आसायणं कुज्जा से णं अज्झवसायं पडुच्च जावणं अणंतसंसारियत्तणं लभेज्जा,” यावच्छब्दमर्यादया चात्र संख्याता असंख्याता अपि भवा लभ्यन्त इति ध्येयं । उत्सूत्रभाषिणां ये चानन्तानेव कदाग्रहात् । भवानूचुरूपेक्ष्यं तत्तेषां वातूलचेष्टितम् ॥ ३२६ ॥ अतः परं किल्बिषिकजातीयानामसंभवः । यथाऽऽभियोगिकादीनामच्युतस्वर्गतः परम् ॥ ३२७ ॥ अथोडं लान्तकस्वर्गात्समपक्षं समानदिक् । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ ३२८ ॥ अस्ति स्वर्गो महाशुक्रः. संपूर्णचन्द्रसंस्थितः । चत्वारः प्रतरास्तत्र, प्रतिप्रतरमिन्द्रकम् ॥ ३२९ ॥ आभङ्करं गृद्धिसंज्ञं, केतुश्च गरुलाभिधम् । चतस्रः पङ्क्तयस्त्वेभ्यः, प्राग्वत्पुष्पावकीर्णकाः ॥ ३३०॥ षड्विंशतिः पञ्चचतुस्त्यधिका विंशतिः क्रमात् । प्रतरेषु चतुर्वेषु, प्रतिपक्ति विमानकाः ॥ ३३१ ॥ तत्राद्यप्रतरे पङ्क्तौ, पङ्क्तावष्टैव वृत्तका: । नव च त्रिचतुःकोणाः, सर्वे चतुर्युतं शतम् ॥ ३३२ ॥ द्वितीयप्रतरे व्यसा, नवाष्टाष्टापरे द्विधा । सर्वे शतं तृतीये च, प्रतरेऽष्टाष्ट ते त्रिधा ॥ ३३३ ॥ सर्वे च ते षण्णवतिश्चतुर्थप्रतरे पुन: । अष्टौ त्र्यसाचतुरमा, वृत्ताः सप्त विमानकाः ॥ ३३४ ॥ सर्वे चात्र द्विनवतिः, पातेयाः परिकीर्तिताः । चतुरिन्द्रकयोगेऽत्र, सर्वे स्युः पङ्क्तिवृत्तकाः ॥ ३३५ ॥ अष्टाविंशं शतं पङ्क्तिव्यमाः षट्त्रिंशकं शतम् । द्वात्रिंशं च शतं पक्तिचतुरस्राः प्रकीर्तिताः ॥ ३३६ ॥ एवं पङ्क्तिविमानानां, महाशुक्रे शतत्रयम् । षण्णवत्या समधिकं, शेषाः पुष्पावकीर्णकाः ॥ ३३७ ॥ सहस्राण्येकोनचत्वारिंशदेव च षट्शती । चतुर्युतैव सर्वे च, चत्वारिंशत्सहस्रकाः ॥ ३३८ ॥ आधारतो लान्तकवद्, द्विधाऽमी वर्णतः पुनः । शुक्ला: पीताश्च पूर्वभ्यो, वर्णायुत्कर्षशालिनः ॥ ३३९ ॥ पृथ्वीपिण्डः शतानीह, चतुर्विंशतिरीरितः । योजनानां शतान्यष्टौ, प्रासादाः स्युः समुच्छ्रिताः ॥ ३४० ॥ प्रथमप्रतरे चात्र, देवानां परमा स्थितिः । पादोनानि पञ्चदश, स्युः सागरोपमाण्यथ ॥ ३४१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy