SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ 405 ग्रैवेयकानुत्तरेषु, विमानेषु तु नाकिनाम् । तादृक्प्रयोजनाभावान्नास्त्येवोत्तरवैक्रियम् ॥ ५३१ ॥ लेश्यात्र तेजोलेश्यैव, भवेद्भवस्वभावत: । द्रव्यतो भावतस्त्वेषां, विवर्त्तन्ते षडप्यमूः ॥ ५३२ ॥ गर्भजा नरतिर्यञ्च, एवोत्पद्यन्त एतयोः । स्वर्गयो परेऽत्रत्या, देवा गच्छन्ति पञ्चसु ॥ ५३३ ॥ गर्भजेषु नृतिर्यक्षु, संख्यातायुष्कशालिषु । पर्याप्तबादरक्षोणी, पाथो वनस्पतिष्वपि ॥ ५३४ ॥ बेधा भवन्ति देव्योऽत्र, काश्चित्कुलाङ्गना इव । सभर्तृकास्तदन्यास्तु, स्वतन्त्रा गणिका इव ॥ ५३५ ॥ आद्ये परिगृहीतानां, स्थितिरुत्कर्षतो भवेत् । पल्योपमानि सप्तैव, पल्योपमं जघन्यतः ॥ ५३६ ॥ तासामीशाननाके तु, नवपल्योपमात्मिका । गरीयसी लघुः पल्योपमं समधिकं स्थितिः ॥ ५३७ ॥ साधारणीनां सौधर्म, विमाना: सुरयोषिताम् । षड् लक्षाणि द्वितीये तु, लक्षाश्चतस्र एव ते ॥ ५३८ ॥ साधारणसुरस्त्रीणां, सौधर्मे स्याद्गुरुः स्थितिः । पल्योपमानि पञ्चाशत्, पल्योपमं जघन्यतः ॥ ५३९ ॥ आसामीशाने तु पञ्चपञ्चाशत्परमा स्थितिः । पल्योपमानि हीना तु, पल्यं किञ्चन साधिकम् ॥ ५४० ॥ यासां सौधर्मेऽथ साधारणदिव्यमृगीदृशाम् । स्थिति: पल्योपमेकं, ता: स्तोकद्युतिवैभवाः ॥ ५४१ ॥ सौधर्मनाकिनामेव, तादृक्पण्याङ्गनादिवत् । भोग्या न तूपरितनस्वर्गिणां प्रायशः खलु ॥ ५४२ ॥ यासां त्वेकादिसमयाधिकपल्योपमादिका । स्थिति: क्रमादर्द्धमाना, दशपल्योपमावधि ॥ ५४३ ॥ सनत्कुमारदेवानां, भोग्यास्ता नोर्ध्ववर्तिनाम् । दशभ्यश्च परं पल्योपमेभ्य: समयादिभिः ॥ ५४४ ॥ स्थिति: समधिका यावत्पल्योपमानि विंशतिः । यासां ता ब्रह्मदेवानां, भोग्या नोपरिवर्तिनाम् ॥ ५४५ ॥ समयाद्यधिका पल्योपमेभ्यो विंशतः परम् । यासां स्थितिः स्याद्देवीनां, त्रिंशत्पल्योपमावधिः ॥ ५४६ ॥ शुक्रदेवोपभोग्यास्तास्त्रिंशत्पल्योपमोपरि । समयाद्यधिका चत्वारिंशत्पल्योपमावधिः ॥ ५४७ ॥ यासां स्थितिस्ता भोग्याः स्युरानतस्वर्गवासिनाम् । पल्योपमेभ्यश्चत्वारिंशतश्च समयादिभिः ॥ ५४८ ॥ वर्द्धमाना क्रमात्पञ्चाशत्पल्यावधिका स्थितिः । यासां ता: परिभोग्या: स्युरारणस्वर्गवर्तिनाम् ॥ ५४९ ॥ ईशानेऽप्येवमधिकपल्योपमस्थितिस्पृशः । देव्यस्तदासिनामेव, देवानां यान्ति भोग्यताम् ॥ ५५० ॥ ततः समधिकात्पल्योपमाच्च समयादिभिः । वर्धमाना स्थिति: पञ्चदशपल्योपमावधिः ॥ ५५१ ॥ यासां माहेन्द्रदेवानां, भोग्यास्ताः सुरयोषितः । पल्योपमेभ्योऽथ पञ्चदशभ्यः समनन्तरम् ॥ ५५२ ॥ समयाद्यधिका पल्योपमानि पञ्चविंशतिम् । यावद्यासां स्थिति ग्यास्ता लान्तकसुधाभुजाम् ॥ ५५३ ॥ पल्योपमेभ्योऽथ पञ्चविंशतिः समनन्तरम् । समयाद्यधिका पञ्चत्रिंशत्पल्योपमावधिः ॥ ५५४ ॥ यासां स्थिति: सहनारदेवभोग्या भवन्ति ताः । ततः परं पञ्चचत्वारिंशत्पल्योपमावधिः ॥ ५५५ ॥ स्थितिर्यासां तास्तु भोग्या:, प्राणतस्वर्गसद्मनाम् । ततोऽग्रे पञ्चपञ्चाशत्पल्योपमावधिः स्थितिः ॥ ५५६ ॥ यासां ता अच्युतस्वर्गदेवानां यान्ति भोग्यताम् । नाधस्तनानां निःस्वानां, समृद्धा गणिका इव ॥ ५५७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy