SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ 363 पश्चिमायां च नागाख्यं तन्नागामररक्षितम् । उत्तरस्यां सुवर्णाख्यं सुबर्णसुररक्षितम् ॥ १७९ ॥ योजनानि षोडशैतदेकैकं द्वारमुच्छ्रितम् । योजनान्यष्टविस्तीर्णं, प्रवेशे तावदेव च ॥ १८० ॥ प्रतिद्वारमथैकैकः, पुरतो मुखमण्डपः । चैत्यस्य यो मुखे द्वारे, पट्टशालासमो मतः ॥ १८१ ॥ तस्यापि पुरतः प्रेक्षामण्डपः श्रीभिरद्भुतः । प्रेक्षा प्रेक्षणकं तस्मै, गृहरूपः स मण्डपः ॥ १८२ ॥ योजनानां शतं दीर्घी, पञ्चाशत्तानि विस्तृतौ । योजनानि षोडशोच्चौ त्रिभिद्धरिर्मनोरमौ ॥ तथोक्तं जीवाभिगमवृत्तौ — “ मुखमण्डपानां प्रत्येकं प्रत्येकं त्रिदिशं - तिसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन त्रीणि द्वाराणि,” जीवाभिगमसूत्रादर्शे तु 'तेसि णं मुहमंडवाणं चउद्दिसिं चत्तारि दारा पण्णत्ता' इति दृश्यते । १८३ ॥ प्रेक्षामण्डपमध्ये च, वज्ररत्नविनिर्मितः । एकैकोऽक्षाटकस्तस्य, मध्येऽस्ति मणिपीठिका ॥ १८४ ॥ योजनान्यष्ट विस्तीर्णायता चत्वारि चोच्छ्रिता । उपर्यस्याश्चेन्द्रयोग्यं सिंहासनमनुत्तरम् ॥ १८५ ॥ सिंहासनस्य तस्योर्ध्वं दृष्यं विजयनामकम् । वितानरूपं तद्रत्नवस्त्रमत्यन्तनिर्मलम् ॥ १८६ ॥ मुक्तादामालम्बनाय, मध्येऽस्य वाज्रिकोऽङ्कुशः । तस्मिन्मुक्तादामकुम्भप्रमाणमौक्तिकाञ्चितम् ॥ १८७ ॥ तच्च स्वार्द्धाच्चत्वमानैर्मुक्तादामभिरञ्चितम् । चतुर्दिशमर्द्धकुम्भप्रमाणमौक्तिकान्वितैः ॥ १८८ ॥ तथाऽऽह स्थानाङ्गे – “तेसु णं वइरामएसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा प०, तेणं कुंभिक्का मुत्तादामा पत्तेयं पत्तेयं तदद्धुच्चत्तप्पमाणमित्तेहिं चउहिं अद्धकुंभिदेहिं मुत्तादाहिं सव्वतो समंता संपरिक्खित्ता, ” एतट्टीकापि - “ कुंभो मुक्ताफलानां परिमाणतया विद्यते, येषु तानि कुंमिकानि मुक्तादामानि - मुक्तामाला:, कुंभप्रमाणं च - 'दो असती पसई, दो पसइउ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलवा पत्थो, चत्तारि पत्था आढ्यं चत्तारि आढ्या दोणो, सट्ठी आढयाइं जहन्नो कुंभो, असीइं मज्झिमो, सयमुक्मोसो त्ति 'तदद्ध'त्ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदर्द्धाच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः, 'अद्धकुंभिहिं'ति मुक्ताफलार्द्धकुम्भवद्भिरिति । ” ततः प्रेक्षामण्डपाग्रे, प्रत्येकं मणीपीठिका । उच्छ्रिता योजनान्यष्टौ षोडशायतविस्तृता ॥ १८९ ॥ चैत्यस्तूपस्तदुपरि, स योजनानि षोडश । आयतो विस्तृतस्तुङ्गः, सातिरेकाणि षोडश ॥ १९० ॥ मणिपीठिकाश्चतस्रः, स्तूपस्यास्य चतुर्दिशम् । योजनान्यष्ट विस्तीर्णायताश्चत्वारि चोच्छ्रिताः ॥ १९१ ॥ इति जीवाभिगमवृत्तौ ॥ तासामुपरि च स्तूपाभिमुख्याः श्रीमदर्हताम् । जयन्ति प्रतिमाञ्चञ्चन्मरीचिनिचयाञ्चिताः ॥ १९२ ॥ चैत्यस्तूपात्परा तस्माद्विभाति मणिपीठिका । विष्कम्भायामतः स्तूपपीठिकासन्निभैव सा ॥ १९३ ॥ १ जीवाभिगमे सूत्रस्य वृत्तेश्च भिन्नभिन्ना आदर्शाः इति स्पष्टं व्याख्याविलोककानां ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy