________________
141
पिशाचास्तत्र सहजसुरुपाः सौम्यदर्शनाः । रत्नाभरणवद्ग्रीवाहस्ताः षोडशधा मताः ॥ ३० ॥ कुष्माण्डा: पटका जोषाः, अह्निका: कालका अपि । चोक्षाऽचोक्षमहाकालास्तथा वनपिशाचकाः ॥ ३१ ॥ तूष्णीकास्तालमुखरपिशाचा देहसंज्ञकाः । विदेहाश्च महादेहास्तथाऽधस्तारका इति ॥३२॥ सुरूपप्रतिरूपातिरूपा भूतोत्तमा इति । स्कन्दिकाक्षा महावेगा, महास्कन्दिकसंज्ञकाः ॥ ३३ ॥ आकाशकाः प्रतिच्छन्ना, भूता नवविधा अमी । सौम्याननाः सुरूपाश्च नानाभक्तिविलेपनाः ।। ३४ ।। मानोन्मानप्रमाणोपपन्नदेहा विशेषतः । रक्तपाणिपादतलतालु जिह्वौष्ठपाणिजाः ॥ ३५ ॥ किरीटधारिणो नानारत्नात्मकविभूषणाः । यक्षास्त्रयोदशविधा, गम्भीराः प्रियदर्शनाः ॥ ३६ ॥ पूर्णमाणिश्वेतहरिसुमनोव्यतिपाकतः । भद्राः स्युः सर्वतोभद्रा:, सुभद्रा अष्टमा: स्मृताः ॥ ३७ ॥ यक्षोत्तमा रूपयक्षा, धनाहारा धनाधिपाः । मनुष्ययक्षा इत्येवं, सर्वेऽप्येते त्रयोदश ॥ ३८ ॥ करालरक्तलम्बौष्ठास्तपनीयविभूषणाः । राक्षसाः सप्तधा प्रोक्तास्तेऽमी भीषणदर्शनाः ॥ ३९ ॥ विघ्ना भीममहाभीमास्तथा राक्षसराक्षसाः । परे विनायका ब्रह्मराक्षसा जलराक्षसाः ॥ ४० ॥ मुखेष्वधिकरुपाढ्या:, किन्नरा दीप्रमौलयः । दशधा किन्नरा रुपशालिनो हृदयङ्गमाः ॥ ४१ ॥ रतिप्रिया रतिश्रेष्ठाः, किंपुरुषा मनोरमाः । अनिन्दिताः किंपुरुषोत्तमाश्च किन्नरोत्तमाः ॥ ४२ ॥ मुखोरुबाहूद्यद्रूपाश्चित्रस्रगनुलेपनाः । दश किंपुरुषास्ते सत्पुरुषाः पुरुषोत्तमाः ॥ ४३ ॥ यशस्वन्तो महादेवा, मरुन्मेरुप्रभा इति । महातिपुरुषाः किंच, पुरुषाः पुरुसर्षभाः ॥ ४४ ॥ महोरगा दशविधा, भुजगा भोगशालिनः । महाकाया अतिकाया, भास्वन्तः स्कन्धशालिनः ॥ ४५ ॥ महेश्वक्षा मेरुकान्ता, महावेगा मनोरमाः । सर्वेऽप्यमी महावेगा, महाङ्गाश्चित्रभूषणाः ॥ ४६ ॥ गन्धर्वा द्वादशविधा:, सुस्वराः प्रियदर्शनाः । सुरूपा मौलिमुकुटधरा हारविभूषणाः ॥ ४७ ॥ हाहाहूहूतुम्बरवो, नारदा ऋषिवादिकाः । भूतवादिककादम्बा, महाकादम्बरैवताः ॥ ४८ ॥ विश्वावसुगीतरतिसद्गीतयशसस्तथा । सप्ताशीतिरिमे सर्वे, तृतीयाङ्गेऽष्ट ते त्वमी ॥ ४९ ॥ “अणपन्नी पणपन्नी, इसिवाई भूअवाइए चेव । कंदी य महाकंदी, कोहंडे चेव पयए य” ॥ तथा–अन्नपानवस्त्रवेश्मशय्यापुष्पफलोभये । येऽल्पानल्पत्वसरसविरसत्वादिकारकाः ॥ ५० ॥ अन्नादिजृम्भकस्तेऽष्टौ, स्युर्विद्याजृम्भकाः परे । ये त्वन्नाद्यविभागेन, जृम्भन्तेऽव्यक्तजृम्भकाः ।। ५१ । विचित्रचित्रयमकवैताढ्यकाञ्चनादिषु । वसन्ति शैलेषु दशाप्यमी पल्योपमायुषः ॥ ५२ ॥ नित्यं प्रमुदिताः क्रीडापराः सुरतसेविन: । स्वच्छन्दचारित्वादेते, जृम्भन्त इति जृम्भकाः ॥ ५३॥ कुद्धानेतांश्च यः पश्येत्, सोऽयशोऽनर्थमाप्नुयात् । तुष्टान् पश्येन् यशोवियां, विन्ते वज्रमुनीन्द्रवत् ॥ ५४ ॥ शापानुग्रहशीलत्वमेषां शक्तिश्च तादृशी । अयमर्थः पञ्चमाङ्गे, शते प्रोक्तश्चतुर्दशे ॥ ५५ ॥