________________
नत्वात्पुंसः प्रतिष्ठायाः । उक्तमपि-" तत्तिअमित्तं जंपह. जत्तिमित्तस्स निक्कयं वहह । तं उरिकवेह भारं, जं अद्धपहेन छंडेह ॥१॥"जातु धनधान्यादिना दातुमशक्तौ शनैः शनैस्तदर्पणस्वीकारादिनोत्तमर्णः सन्तोष्योऽन्यथा विश्वासहान्या व्यवहारभङ्गमसङ्गः । ऋणच्छेदे सर्वशक्त्या यतितव्यं । को हे मूढधीभवद्वयपराभवकारणमृणं क्षणमात्रमपि धारयेत् । यदुक्तं-"धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥॥ तैलाभ्यङ्गमणच्छेदं, कन्यामरणमेव च। एतानि सद्योदुःखानि, परिणामे सुखानि तु ।। २।।" स्वनिवाहाक्षमतया ऋणदानाशक्तेन तूत्तमणेगृहे यथाहेकीकरणादिनापि ऋणमुच्छेद्यमन्यथा भवान्तरे तद्गृहे कर्मकरमहिषषभकरभरासभवेसर तुरगादित्वस्यापि संभवात् । उत्तमर्गेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधैव क्लेशपापक्ष्यादिभावात् । किन्तु “यदा शक्रोषि तदा दद्याः, नो चेदिदं धर्मपदे मे भूयात्" इति वाच्यः, । नतु ऋणसम्बन्धश्चिरं स्थाप्यः, तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोर्मियः सम्बन्धवैरवृद्ध्याद्यापत्तेः । श्रूयते हि श्रेष्ठिभावहस्य ऋणसम्बन्धेन पुत्रभवनादि। यथा दुःस्वमदुर्दोहदादिहेतुर्दुष्टः प्रथमपुत्रो मृत्युयोगोत्पन्नो माढणीसरित्तीरे शुष्कद्रमस्याधस्त्यक्तो रुदित्वा इसित्वा चाह.-"स्वर्णलक्षं मे लभ्यं दत्त, नो चेदोऽन? भावीति"। ततो जन्मोत्सवादिना षष्ठीदिने लक्षपूर्ती स मृतः । एवं द्वितीयस्त्रिलक्षीपूत्तौ मृतः । सुस्वमादिहेतुस्तृतीयपुत्रस्त्वे कोनविंशतिस्वर्णलक्षा मया देया इति वादी जावडिः पित्रोधर्मव्यये तावद्धनं मानयित्वा काश्मीरे नवलक्ष्या ऋषभपुण्डरीकचक्रेश्वरीमूर्तीलोत्वा, दशलक्ष्या च पतिष्ठाप्याष्टादशपोतार्जितासङ्ख्यस्वर्णः शत्रुञ्जये लेप्यमयं बिम्बमुत्थाप्य मम्माणिमणिमयं तत्त्रयं स्थापयामास । ऋणसंबन्धे हि प्रायः कलहानिवृत्तेईरहस्याद्यपि प्रतीतं । तस्मादृणसंबन्धस्तद्भवे एव यथाकथश्चिनिर्वाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः साधर्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः, तत्पाः स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपाङल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् , तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तं । व्युत्सईदनुप्राप्तं तु तत्सङ्घस्यैव धर्मव्ययार्थमप्ये । एवं स्वकीयं गतमपि वित्तवस्तु शस्त्रादिमाप्त्यसंभवे व्युत्सृज्यं, यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्यानन्तभवसत्कं गेहदेहकुटुम्बवित्तशस्त्रादिसर्व पापहेतु विवेकिना व्युत्सर्जनीयमन्यथा तदुत्थदुष्कृतस्यानन्तैरपि भवरनिवृत्तेः । न चैतदनागमिकं पञ्चमाङ्गे पञ्चमशते षष्ठोद्देशके व्याधेन मृगे हते धनुःशरज्यालोहादिजीवानामपि हिंसादिक्रियाया उक्तत्वात् । न च कचित्किश्चिद्धनहान्यादिना निर्वेदं यायादनिर्वेदस्यैव श्रियो मूलत्वात् । उच्यते च-"मुव्यवसायिनि कुशले, क्लेशसहिष्णौ समुद्यतारम्भे । नरि पृष्ठतो विलग्ने, यास्यति दुरं कियल्लक्ष्मीः १ ॥१॥" यत्र च धनमय॑ते तत्र किश्चिद्यात्यपि बीजनाशपूर्विकैव हि कर्षकस्यापि धान्यसंपत्तिः । दुर्दैववशाच बहुधनादिहानावपि न दैन्याद्याश्रयेत् , किन्तु धर्मकरणादियथाईतत्मतिक्रियायै प्रयतेत । आह हि-" म्लानोऽपि रोहति तरुः, क्षीणोऽप्युपचीयते पुनश्चन्द्रः। इति विमृशन्तः सन्तः, सन्तप्यन्ते न विपदापि ॥१॥ विपदा सम्पदां चापि, महतामेव संभवः । कृशता पूर्णता चापि, चन्द्र एव न चोडुषु ।। २ ।। विच्छायतां व्रजसि किं? सहकारशाखिन्, यत्फाल्गुनेन सहसापहृता मम श्रीः । प्राप्ते वसन्तसमये तव सा विभूति यो भविष्यतितरामचिरादवश्यम् ॥३॥" अत्र दृष्टान्तोऽयम्-"पत्तने श्रीमालनागराजश्रेष्ठी कोटीध्वजः, प्रिया मेलादेवी, तस्यां साधानायां श्रेष्ठी विशूचिकया मृतः । नृपेणापुत्र इति कृत्वा सर्वस्वं गृहीतं । श्रेष्ठिनी धवलक्कके पितृगृहे गताऽमारिदोहदे पित्रा पूरिते पुत्रो जज्ञे । अभयाख्यो जने 'आभड ' इति ख्यातः । पञ्चवर्षः पठन् 'निस्तात ' इति बालैरुक्ते निर्बन्धान्मात्रा स्वरूपे उक्ते साग्रह समहं पत्तने गतः । स्वगृहे स्थित्वा वाणिज्यं कुर्वन् लाछलदेवीं परिणिन्ये । ततः प्राक्तन निधानलाभादिना कोटीध्वजो जज्ञे । सुतत्रयं जातं । क्रमाद्दुकर्मणा निर्धनत्वे सपुत्रां पत्नी तत्पित्गृहे प्रेष्य मणिकारहट्टे मणिकादीन् घर्षन् यवमानकं लभते तत् स्वयं पिष्ठा पक्त्वा चात्ति । यतः-" वार्धिमाधवयोः सौधे, प्रीतिप्रेमाङ्कधारिणोः। या न स्थिता किमन्येषां, स्थास्यति व्ययकारिणाम ॥१॥" अन्यदा श्रीहेममूरिपाचे इच्छापरिमाणग्रहणे बहुसंक्षेपे गुरुभिनिषिद्धे नवद्रम्मलक्षाः कृतास्तन्मानेनान्यदपि नियमितं । शेषं धर्मव्यये कार्य । क्रमाम्मपञ्चक ग्रन्थौ जातं । अथाजा सेन्द्रनीलकण्ठाभरणां पञ्चद्रम्मैः क्रीत्वोपलक्ष्येन्द्रनीलस्य लक्षमूल्या मणयः कारिताः । क्रमाद्धनी प्राग्वज्जज्ञे । कुटुम्ब मिलितं । साधूनां विहारणे प्रत्यहं घृतघटः । प्रत्यहं साधर्मिकवात्सल्यसत्रागारमहापूजादि । प्रतिवर्ष सर्वदर्शनसङ्गार्चाद्वयनानापुस्तकलेखनचैत्यजीर्णोद्धारबिम्बकरणादि । एवं चतुरशीतिवर्षायुः, प्रान्ते धर्मवहिकावाचनेऽष्टनवतिभीमप्रियद्रम्मलक्षव्ययं श्रुत्वा विषण्णः पाह,-" हा ! कृपणेन मया कोट्यपि न व्ययिता।" ततः पुत्रैस्तदैव दशलक्षी व्यय्याष्टोत्तरा कोटी कृताष्टौ लक्षाः पुनोनिताः । सोऽनशनात्स्वर्गतः । इत्याभडप्रबन्धः। प्राकृतदुष्कृतदौरात्म्यात्पूर्वावस्थाया अमाप्तावपि धैर्यमेवावलम्ब्यं । विपदब्धौ तस्यैव पोतायमानत्वात । कस्य वा सर्वे दिवसाः सदृशाः स्युः?। भण्यतेऽपि-"को इत्य सया सुहिओ, कस्सव लच्छी थिराई पिम्माई । को मच्चुणा नगसिओ, को गिद्धो ने विसएम॥१॥" ईदृशि विषमे च सन्तोष एव सर्वसुखमूलमालम्बनीयोऽन्यथा तच्चिन्ताा भवद्वयकार्येभ्योऽपि परिभ्रश्येत । तत उक्तं-" चिंता नामेण नई, आसासलिलेण पूरिआ वहई । बुड्डेसि मंदतारु असंतोसतरंडए लग्ग ॥ १॥" यदा च विविधोपायफरणेऽपि
श्रीश्राद्धविधिप्रकरणम
69